Templesinindiainfo

Best Spiritual Website

Shree Krishna Ashtakam 9 in Hindi

Shri Krishnashtakam 9 Lyrics in Hindi | श्रीकृष्णाष्टकम् 9

श्रीकृष्णाष्टकम् 9 Lyrics in Hindi: त्रिभुवनालिसरोजसरोवरं परममोदपयःसुपयोनिधिम् । विमलयोगिमनोऽलिकुशेशयं यदुकुलैकमणिन्तमहम्भजे ॥ १॥ जलजपीठमुखामरदेशिकं भवविरिञ्चिसुरेन्द्रकृतस्तवम् । निखिलकामितशीकरतोयदं यदुकुलैकमणिन्तमहम्भजे ॥ २॥ अदितिजाम्बुजपुञ्जदिवाकरं दितिजकञ्जतुषारजवोपमम् । विगतमोहमजञ्जननान्तकं यदुकुलैकमणिन्तमहम्भजे ॥ ३॥ त्रिजगदम्बुरुहोदितभास्करं सकलसत्त्वहृदब्जकृतालयम् । स्वजनमोहमहार्णवपोतकं यदुकुलैकमणिन्तमहम्भजे ॥ ४॥ श्रुतिमयोज्ज्वलकौस्तुभमालिकं रवमुकभूतमयास्त्रचतुष्टयम् । सभुवनाण्डकदम्बकमेखलं यदुकुलैकमणिन्तमहम्भजे ॥ ५॥ दिनकरादिविभासकभासकं श्रुतिमुखाक्षगणाक्षमनक्षकम् । ज्वलनमारुतश्क्रमदापहं यदुकुलैकमणिन्तमहम्भजे ॥ ६॥ जलधिजाननकञ्जमधुव्रतं रुचिररूपविकृष्टवराङ्गनम् । यतिवरादरगीतचरित्रकं यदुकुलैकमणिन्तमहम्भजे ॥ ७॥ क्रतुपतिङ्कुपतिञ्जगताम्पतिं […]

Scroll to top