Templesinindiainfo

Best Spiritual Website

Shri Krishnachandrashtakam 2 Lyrics in Hindi | श्रीकृष्णचन्द्राष्टकम् २

श्रीकृष्णचन्द्राष्टकम् २ Lyrics in Hindi:

श्रीकेवलरामप्रणीतम्
वनभुवि विहरन्तौ तच्छविं वर्णयन्तौ
सुहृदमनुसरन्तौ दुर्हृदं सूदयन्तौ ।
उपयमुनमटन्तौ वेणुनादं सृजन्तौ
भज हृदय हसन्तौ रामकृष्णौ लसन्तौ ॥ १॥

कलयसि भवरीतिं नैव चेद्भूरिभूतिं
यमकृतनिगृहीतिं तर्हि कृत्वा विनीतिम् ।
जहिहि मुहुरनीतिं जायमानप्रतीतिं
कुरु मधुरिपुगीतिं रे मनो मान्यगीतिम् ॥ २॥

द्विपपरिवृढदन्तं यः समुत्पाट्य सान्तं
सदसि परिभवन्तं लीलया हन्त सान्तम् ।
स्वजनमसुखयन्तं कंसमाराद्भ्रमन्तं
सकलहृदि वसन्तं चिन्तयामि प्रभुं तम् ॥ ३॥

करधृतनवनीतः स्तेयतस्तस्य भीतः
पशुपगणपरीतः श्रीयशोदागृहीतः ।
निखिलनिगमगीतः कालमायाद्यभीतः
कनकसदुपवीतः श्रीशुकादिप्रतीतः ॥ ४॥

सकलजननियन्ता गोसमूहानुगन्ता
व्रजविलसदनन्ताभीरुगेहेषु रन्ता ।
असुरनिकरहन्ता शक्रयागावमन्ता
जयति विजयियन्ता वेदमार्गाभिमन्ता ॥ ५॥

सुकृतिविहितसेवो निर्जितानेकदेवो
भवविधिकृतसेवः प्रीणिताशेषदेवः ।
स्म नयति वसुदेवो गोकुलं यं मुदे वो
भवतु स यदुदेवः सर्वदा वासुदेवः ॥ ६॥

करकजधृतशैले प्रोल्लसत्पीतचैले ?? मय् बे चोर्रेच्त्
रुचिरनवघनाभे शोभने पद्मनाभे ।
विकचकुसुमपुञ्जे शोभमाने निकुञ्जे
स्थितवति कुरु चेतः प्रीतिमन्यत्र नेतः ॥ ७॥

विषयविरचिताशे प्राप्तसंसारपाशे-
ऽनवगतनिजरूपे सृष्टकर्मण्यपूपे ।
सुकृतकृतिविहीने श्रीहरे भक्तिहीने
मयि कृतय समन्तौ केवले दीनजन्तौ ॥ ८॥

इति श्रीकेवलरामप्रणीतं श्रीकृष्णचन्द्राष्टकं सम्पूर्णम् ।

Shri Krishnachandrashtakam 2 Lyrics in Hindi | श्रीकृष्णचन्द्राष्टकम् २

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top