Templesinindiainfo

Best Spiritual Website

Shri Krishnakundashtakam Lyrics in Hindi | श्रीकृष्णकुण्डाष्टकम्

श्रीकृष्णकुण्डाष्टकम् Lyrics in Hindi:

किं तपश्चचार तीर्थलक्षमक्षयं पुरा
सुप्रसीदति स्म कृष्ण एव सदरं यतः ।
यत्र वासमाप साधु तत्समस्तदुर्लभे
तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः ॥ १॥

यद्यरिष्टदानवोऽपि दानदो महानिधे-
रस्मदादिदुर्मतिभ्य इत्यहोवसीयते ।
यो मृतिच्छलेन यत्र मुक्तिमद्भुतां व्यधात्
तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः ॥ २॥

गोवधस्य निष्कृतिस्त्रिलोकतीर्थकोटिभी
राधयेत्यवादि तेन ता हरिः समाह्वयन् ।
यत्र पार्ष्णिघाटजे ममज्ज च स्वयं मुदा
तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः ॥ ३॥

क्वापि पापनाश एव कर्मबन्धबन्धना-
द्ब्रह्मसौख्यमेव विष्णुलोकवासिता क्वचित् ।
प्रेमरत्नमत्ययत्नमेव यत्र लभ्यते
तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः ॥ ४॥

फुल्लमाधवीरसालनीपकुञ्जमण्डले
भृङ्गकोककोकिलादिकाकली यदञ्चति ।
आष्टयामिकावितर्ककोटिभेदसौरभं
तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः ॥ ५॥

दोलकेलिचित्ररासनृत्यगीतवादनै-
र्निह्नवप्रसूनयुद्धसीधुपानकौतुकैः ।
यत्र खेलतः कोशोरशेखरौ सहालिभि-
स्तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः ॥ ६॥

दिव्यरत्ननिर्मितावतारसारसौष्टवै-
श्छत्रिका विराजि चारु कुट्टिमप्रभाभरैः ।
सर्वलोकलोचनातिधन्यता यतो भवेत्
तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः ॥ ७॥

माथुरं विकुण्ठतोऽपि जन्मधामदुर्लभं
वास्काननन्ततोऽपि पाणिना धृतो गिरिः ।
श्रीहरेस्ततोऽपि यत्परं सरोऽतिपावनं
तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः ॥ ८॥

कृष्णकुण्डतीरवाससाधकं पठेदिदं
योऽष्टकं धियं निमज्य केलकुञ्जराजितोः ।
राधिकागिरीन्द्रधारिणोः पदाम्बुजेषु स
प्रेमदास्यमेव शीघ्रमाप्नुयादनामयम् ॥ ९॥

इति महामहोपाध्यायश्रीविश्वनाथचक्रवर्तिविरचितं
श्रीकृष्णकुण्डाष्टकं समाप्तम् ।

Shri Krishnakundashtakam Lyrics in Hindi | श्रीकृष्णकुण्डाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top