Templesinindiainfo

Best Spiritual Website

Shri Krishnashtakam 6 Lyrics in Hindi

श्रीकृष्णाष्टकम् 6 Lyrics in Hindi:


श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।

ॐ गीताचार्याय विद्महे । भक्तमित्राय धीमहि ।
तन्नः कृष्णः प्रचोदयात् ॥

परमात्मस्वरूपाय नारायणाय विष्णवे ।
परिपूर्णावताराय श्रीकृष्णाय नमो नमः ॥ १॥

देवकीप्रियपुत्राय यशोदालालिताय च ।
वासुदेवाय देवाय नन्दनन्दाय ते नमः ॥ २॥

गोपिकानन्दलीलाय नवनीतप्रियाय च ।
वेणुगानाभिलोलाय राधाकृष्णाय ते नमः ॥ ३॥

गोविन्दाय मुकुन्दाय कंसादिरिपुदारिणे ।
मातापितृसुनन्दाय द्वारकापतये नमः ॥ ४॥

रुक्मिणीप्रियनाथाय रुग्मपीताम्बराय च ।
सत्यभामासमेताय सत्कामाय नमो नमः ॥ ५॥

पाण्डवप्रियमित्राय पाञ्चालीमानरक्षिणे ।
पार्थानुग्रहकाराय पार्थसारथये नमः ॥ ६॥

गीतोपदेशबोधाय विश्वरूपप्रकाशिने ।
वेदान्तसारसत्याय वेदनादाय ते नमः ॥ ७॥

सदासक्तसुरक्षाय सदामानसवासिने ।
सदात्मानन्दपूर्णाय श्रीकृष्णाय नमो नमः ॥ ८॥

त्यागब्रह्मसुगीताय गीतपुष्पार्चिताय च ।
मनोवाक्कायपूर्णाय श्रीकृष्णाय सुमङ्गलम् ॥ ९॥

कृष्णाष्टकमिदं पुण्यं कृष्णप्रेर्यं शुभप्रदम् ।
पुष्पार्चनसुपद्यं च श्रीकृष्णसुकृपावहम् ॥ १०॥

इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं
श्रीकृष्णाष्टकं गुरौ समर्पितम् ।
ॐ शुभमस्तु ।

Shri Krishnashtakam 6 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top