Templesinindiainfo

Best Spiritual Website

Shri Mukambika Ashtakam Lyrics in Hindi

Shri Mookambika Ashtak Hindi:

नमस्ते जगद्धात्रि सद्‍ब्रह्मरूपे
नमस्ते हरोपेन्द्रधात्रादिवन्दे ।
नमस्ते प्रपन्नेष्टदानैकदक्षे
नमस्ते महालक्ष्मि कोलापुरेशि ॥ १ ॥

विधिः कृत्तिवासा हरिर्विश्वमेतत्-
सृजत्यत्ति पातीति यत्तत्प्रसिद्धं
कृपालोकनादेव ते शक्तिरूपे
नमस्ते महालक्ष्मि कोलापुरेशि ॥ २ ॥

त्वया मायया व्याप्तमेतत्समस्तं
धृतं लीयसे देवि कुक्षौ हि विश्वम् ।
स्थितां बुद्धिरूपेण सर्वत्र जन्तौ
नमस्ते महालक्ष्मि कोलापुरेशि ॥ ३ ॥

यया भक्तवर्गा हि लक्ष्यन्त एते
त्वयाऽत्र प्रकामं कृपापूर्णदृष्ट्या ।
अतो गीयसे देवि लक्ष्मीरिति त्वं
नमस्ते महालक्ष्मि कोलापुरेशि ॥ ४ ॥

पुनर्वाक्पटुत्वादिहीना हि मूका
नरास्तैर्निकामं खलु प्रार्थ्यसे यत्
निजेष्टाप्तये तेन मूकाम्बिका त्वं
नमस्ते महालक्ष्मि कोलापुरेशि ॥ ५ ॥

यदद्वैतरूपात्परब्रह्मणस्त्वं
समुत्था पुनर्विश्वलीलोद्यमस्था ।
तदाहुर्जनास्त्वां च गौरीं कुमारीं
नमस्ते महालक्ष्मि कोलापुरेशि ॥ ६ ॥

हरेशादि देहोत्थतेजोमयप्र-
स्फुरच्चक्रराजाख्यलिङ्गस्वरूपे ।
महायोगिकोलर्षिहृत्पद्मगेहे
नमस्ते महालक्ष्मि कोलापुरेशि ॥ ७ ॥

नमः शङ्खचक्राभयाभीष्टहस्ते
नमः त्र्यम्बके गौरि पद्मासनस्थे । नमस्तेऽम्बिके
नमः स्वर्णवर्णे प्रसन्ने शरण्ये
नमस्ते महालक्ष्मि कोलापुरेशि ॥ ८ ॥

इदं स्तोत्ररत्नं कृतं सर्वदेवै-
र्हृदि त्वां समाधाय लक्ष्म्यष्टकं यः ।
पठेन्नित्यमेष व्रजत्याशु लक्ष्मीं
स विद्यां च सत्यं भवेत्तत्प्रसादात् ॥ ९ ॥

Also Read:

Shri Mukambika Ashtakam Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Mukambika Ashtakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top