Templesinindiainfo

Best Spiritual Website

Shri Mukundaraya Ashtakam Lyrics in Hindi | श्रीमुकुन्दरायाष्टकम्

श्रीमुकुन्दरायाष्टकम् Lyrics in Hindi:

(रामकली-गणेश गीयते)
वनितोपहासनृत्यत्स्मितवदनानन्दजोषतोषदायिन् ।
श्रीमन्मुकुन्दराय त्वय्यासक्तं मनो मेऽस्तु ॥ १॥

मणिमयनन्दावासे कुमारिकावृन्दशोभिसद्धास्ये ।
नवनीतलोभितास्ये (सततं त्वयि हरौ) मतिर्मेऽस्तु ॥ २॥

परिधृतहीरकहारं व्रजाङ्गनादर्शनीयकौमारम् ।
कृतगोपुच्छविहारं जितमारं प्रणौमि हृत्सारम् ॥ ३॥

सकलोपनिषत्सारं स्वानन्दाप्राकृताकारम् ।
वन्दे नन्दकुमारं वारं वारं स्वदातारम् ॥ ४॥

किङ्कणीनूपुररणितं (सततं) सिंहावलोकनं कर्त्रे ।
व्रजजनमानसहर्त्रे निजार्तिहर्त्रे नमस्कुर्मः ॥ ५॥

अलकसमावृतवदनं सुकुन्दकलिकासुशोभितं स्वास्यम् ।
गोपयुवतीरतिसदनं जितमदनं नन्दनन्दनं नौमि ॥ ६॥

व्रजकर्दमलिप्ताङ्गं करधृतनवनीतमोहितानङ्गम् ।
वन्दे लोलविलोचनासक्ताङ्गनासङ्गम् ॥ ७॥

नर्तनलीलाकरणं मनोहरणं वपुषा नन्दविस्तरणम् ।
सेवकजनभवतरणं यामि तमहं सदैव शरणम् ॥ ८॥

तव लीलारसलुब्धाः श्रीमुकुन्दरायाष्टकं प्रेष्णा ।
साधनजालसहस्रं त्यक्त्वाजस्रं पठध्वं वै ॥ ९॥

इति श्रीमद्यदुनाथकुलोद्भवश्रीगोपालात्मजश्रीगिरधरेणविरचितं
श्रीमुकुन्दरायाष्टकं समाप्तम् ।

Shri Mukundaraya Ashtakam Lyrics in Hindi | श्रीमुकुन्दरायाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top