Templesinindiainfo

Best Spiritual Website

Shri Mukundashtakam Lyrics in Hindi | श्रीमुकुन्दाष्टकम्

श्रीमुकुन्दाष्टकम् Lyrics in Hindi:

श्रीमुकुन्दाय नमः ।
बलभिदुपलकान्तिद्रोहिणि श्रीमदङ्गे
घुसृणरसविलासैः सुष्ठु गान्धर्विकायाः ।
स्वमदननृपशोभां वर्धयन् देहराज्ये
प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ १॥

उदितविधुपरार्धज्योतिरुल्लङ्घिवक्त्रो
नवतरुणिमरज्यद्बाल्यशेषातिरम्यः ।
परिषदि ललितालीं दोलयन् कुण्डलाभ्यां
प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ २॥

कनकनिवहशोभानन्दि पीतं नितम्बे
तदुपरि नवरक्तं वस्त्रमित्थं दधानः ।
प्रियमिव किल वर्णं रागयुक्तं प्रियायाः
प्रणयतु मम नेत्राभीष्टपूर्तिं मुकुन्दः ॥ ३॥

सुरभिकुसुमवृन्धैर्वासिताम्भःसमृद्धे
प्रियसरसि निदाघे सायमालीपरीताम् ।
मदनजनकसेकैः खेलयन्न् एव राधां
प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ ४॥

परमलमिह लब्ध्वा हन्त गान्धर्विकायाः
पुलकिततनुरुच्चैरुन्मदस्तत्क्षणेन ।
निखिलविपिनदेशान् वासितान् एव जिघ्रन्
प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ ५॥

प्रणिहितभुजदण्डः स्कन्धदेशे वराङ्ग्याः
स्मितविकसितगण्डे कीर्तिदाकन्यकायाः ।
मनसिजजनिसौख्यं चुम्बनेनैव तन्वन्
प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ ६॥

प्रमददनुजगोष्ठ्याः कोऽपि संवर्तवह्नि-
र्व्रजभुवि किल पित्रोर्मूर्तिमान् स्नेहपुञ्जः ।
प्रथमरसमहेन्द्रः श्यामलो राधिकायाः
प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ ७॥

स्वकदनकथयाङ्गीकृत्य मृद्वीं विशाखां
कृतचटु ललितां तु प्रार्थन् प्रौढशीलाम् ।
प्रणयविधुरराधामानविध्वंसनाय
प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ ८॥

परिपठति मुकुन्दस्याष्टकं काकुभिर्यः
सकलविषयसङ्गात् सन्नियम्येन्द्रियाणि ।
व्रजनवयुवराजो दर्शयन् स्वं सराधे
स्वजनगणनमध्ये तं प्रियायास्तनोति ॥ ९॥

इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीमुकुन्दाष्टकं समाप्तम् ।

Shri Mukundashtakam Lyrics in Hindi | श्रीमुकुन्दाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top