Templesinindiainfo

Best Spiritual Website

Shri Narasimhabharatipadashtakam Lyrics in Hindi | श्रीनरसिंहभारतीपादाष्टकम्

श्रीनरसिंहभारतीपादाष्टकम् Lyrics in Hindi:

श्रीकीर्तिप्रतिभानां भवनं भविता यदीयपदनत्या
तान्दासीकृतभूपान्वन्दे नरसिंहभारतीपादान् ॥ १॥

चित्रं यन्मुखचन्द्रालोकाद्विकसन्ति चित्तपद्मानि ।
शिष्याणामनिशं तान्वन्दे नरसिंहभारतीपादान् ॥ २॥

सरसान्कवितासारान्वर्षत्यास्येषु नम्रजनतायाः ।
यदपाङ्गवारिदस्तान्वन्दे नरसिंहभारतीपादान् ॥ ३॥

एनःपर्वतभेदे शतकोटिधुरं दधाति यद्भक्तिः ।
पापाब्धिबाडवांस्तान्वन्दे नरसिंहभारतीपादान् ॥ ४॥

यद्वाक्श्रुतिर्नराणां भवसागरतारणे नौका ।
शीलितनिगमान्तांस्तान्वन्दे नरसिंहभारतीपादान् ॥ ५॥

त्रासितकामगजेन्द्रान्स्ववचश्चातुर्यतोषितार्यजनान् ।
क्रोधाहिवैनतेयान्वन्दे नरसिंहभारतीपादान् ॥ ६॥

वितरणधिक्कृतकर्णान्क्षमया निर्धूतमेदिनीगर्वान् ।
विरतिविधूतार्यशुकान्वन्दे नरसिंहभारतीपादान् ॥ ७॥

यत्पादाम्बुजभक्तिस्तत्त्वप्रासादगमननिःश्रेणी ।
तान्नतसुखाब्धिचन्द्रान्वन्दे नरसिंहभारतीपादान् ॥ ८॥

भूषितविभाण्डकात्मजजनिभूमीन्कीर्तिराजितदिगन्तान् ।
विश्वोत्तंसितपादान्वन्दे नरसिंहभारतीपादान् ॥ ९॥

स्तुतिमेनां गुरुकृपया रचितामवनावहर्निशं पठताम् ।
करुणानीरधयः स्युर्हृष्टा नरसिंहभारतीपादाः ॥ १०॥

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीनरसिंहभारतीपादाष्टकं सम्पूर्णम् ।

Shri Narasimhabharatipadashtakam Lyrics in Hindi | श्रीनरसिंहभारतीपादाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top