श्रीनृसिंहाष्टकम् ३ Lyrics in Hindi:
ध्यायामि नारसिंहाख्यं ब्रह्मवेदान्तगोचरम् ।
भवाब्धितरणोपायं शङ्खचक्रधरं पदम् ॥
नीलां रमां च परिभूय कृपारसेन
स्तम्भं स्वशक्तिमनघां विनिधाय देवीम् ।
प्रह्लादरक्षणविधायवती कृपा ते
श्रीनारसिंह परिपालय मां च भक्तम् ॥ १॥
इन्द्रादिदेवनिकरस्य किरीटकोटि
प्रत्युप्तरत्नप्रतिबिम्बितपादपद्म ।
कल्पान्तकालघनगर्जनतुल्यनाद
श्रीनारसिंह परिपालय मां च भक्तम् ॥ २॥
प्रह्लाद ईड्य प्रलयार्कसमानवक्त्र
हुङ्कारनिर्जितनिशाचरवृन्दनाथ ।
श्रीनारदादिमुनिसङ्घसुगीयमान
श्रीनारसिंह परिपालय मां च भक्तम् ॥ ३॥
रात्रिञ्चराद्रिजठरात्परिस्रंस्यमानं
रक्तं निपीय परिकल्पितसान्त्रमाल ।
विद्राविताखिलासुरोग्रनृसिंहरूप
श्रीनारसिंह परिपालय मां च भक्तम् ॥ ४॥
योगीन्द्र योगपरीरक्षक देवदेव
दीनार्तिहरि विभवागमगीयमान ।
मां वीक्ष्य दीनमशरण्यमगण्यशील
श्रीनारसिंह परिपालय मां च भक्तम् ॥ ५॥
प्रह्लादशोकविनिवारण भद्रसिंह
नक्तञ्चरेन्द्र मदखण्डन वीरसिंह ।
इन्द्रादिदेवजनसन्नुतपादपद्म
श्रीनारसिंह परिपालय मां च भक्तम् ॥ ६॥
तापत्रयाब्धिपरिशोषणबाडवाग्ने
ताराधिपप्रतिनिभानन दानवारे ।
श्रीराजराजवरदाखिललोकनाथ
श्रीनारसिंह परिपालय मां च भक्तम् ॥ ७॥
ज्ञानेन केचिदवलम्ब्य पदांबुजं ते
केचित्सुकर्मनिकरेण परे च भक्त्या ।
मुक्तिं गताः खलु जना कृपया मुरारे
श्रीनारसिंह परिपालय मां च भक्तम् ॥ ८॥
नमस्ते नारसिंहाय नमस्ते मधुवैरिणे ।
नमस्ते पद्मनेत्राय नमस्ते दुःखहारिणे ॥
इति श्रीनृसिंहाष्टकं सम्पूर्णम् ।