Ashtaka

Shri Nrisimha Ashtakam Lyrics in Hindi | श्रीनृसिंहाष्टकम्

श्रीनृसिंहाष्टकम् Lyrics in Hindi:

श्रीमदकलङ्क परिपूर्ण! शशिकोटि-
श्रीधर! मनोहर! सटापटल कान्त! ।
पालय कृपालय! भवाम्बुधि-निमग्नं
दैत्यवरकाल! नरसिंह! नरसिंह! ॥ १॥

पादकमलावनत पातकि-जनानां
पातकदवानल! पतत्रिवर-केतो! ।
भावन! परायण! भवार्तिहरया मां
पाहि कृपयैव नरसिंह! नरसिंह! ॥ २॥

तुङ्गनख-पङ्क्ति-दलितासुर-वरासृक्
पङ्क-नवकुङ्कुम-विपङ्किल-महोरः ।
पण्डितनिधान-कमलालय नमस्ते
पङ्कजनिषण्ण! नरसिंह! नरसिंह! ॥ ३॥

मौलेषु विभूषणमिवामर वराणां
योगिहृदयेषु च शिरस्सु निगमानाम् ।
राजदरविन्द-रुचिरं पदयुगं ते
देहि मम मूर्ध्नि नरसिंह! नरसिंह! ॥ ४॥

वारिजविलोचन! मदन्तिम-दशायां
क्लेश-विवशीकृत-समस्त-करणायाम् ।
एहि रमया सह शरण्य! विहगानां
नाथमधिरुह्य नरसिंह! नरसिंह! ॥ ५॥

हाटक-किरीट-वरहार-वनमाला
धाररशना-मकरकुण्डल-मणीन्द्रैः ।
भूषितमशेष-निलयं तव वपुर्मे
चेतसि चकास्तु नरसिंह! नरसिंह! ॥ ६॥

इन्दु रवि पावक विलोचन! रमायाः
मन्दिर! महाभुज!-लसद्वर-रथाङ्ग! ।
सुन्दर! चिराय रमतां त्वयि मनो मे
नन्दित सुरेश! नरसिंह! नरसिंह! ॥ ७॥

माधव! मुकुन्द! मधुसूदन! मुरारे!
वामन! नृसिंह! शरणं भव नतानाम् ।
कामद घृणिन् निखिलकारण नयेयं
कालममरेश नरसिंह! नरसिंह! ॥ ८॥

अष्टकमिदं सकल-पातक-भयघ्नं
कामदं अशेष-दुरितामय-रिपुघ्नम् ।
यः पठति सन्ततमशेष-निलयं ते
गच्छति पदं स नरसिंह! नरसिंह! ॥ ९॥

॥ इति श्रीनृसिंहाष्टकम् ॥