Templesinindiainfo

Best Spiritual Website

Shri Prapanchamatapitrashtakam Lyrics in Hindi | श्रीप्रपञ्चमातापित्रष्टकम्

श्रीप्रपञ्चमातापित्रष्टकम् Lyrics in Hindi:

(श्रीशृङ्गगिरौ – श्रीभवानीमलहानिकरेश्वरकल्याणोत्सवे)
प्रकाशितजगज्जालौ प्रतुष्यन्मुनिबालकौ
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ १॥

प्रणाममात्रसन्तुष्टौ प्रयतैरुपसेवितौ ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ २॥

प्रणुन्नपापकान्तारौ प्रसूनस्रग्विभूषितौ ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ ३॥

प्रपन्नपालनव्यग्रौ प्रतापजितभास्करौ ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ ४॥

प्रसादलेशतः स्याद्धि प्रमतिर्जडराड्ययोः ।
प्राग्ञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ ५॥

प्रह्लादमाप्नुयुर्नित्यं प्रणता यत्पदाब्जयोः ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ ६॥

प्रमदाभिः सुरेशानां प्रकाममुपसेवितौ ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ ७॥

प्रशान्तचित्तचापल्यैः प्रत्यहं परिचिन्तितौ ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ ८॥

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीप्रपञ्चमातापित्रष्टकं सम्पूर्णम् ।

Shri Prapanchamatapitrashtakam Lyrics in Hindi | श्रीप्रपञ्चमातापित्रष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top