Templesinindiainfo

Best Spiritual Website

Shri Rama Mangalashtakam Lyrics in Hindi | Sri Rama Ashtakam

Shri Rama Mangala Ashtakam Lyrics in Hindi:

श्रीराममङ्गलाष्टकम्

श्रीरामजयम्
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।

नमः श्रीत्यागराजाय मदाचार्यवराय च ।
श्रीसीतारामभक्ताय गुरुदेवाय ते नमः ॥
ॐ सीतावराय विद्महे । त्यागगेयाय धीमहि ।
तन्नो रामः प्रचोदयात् ॥

अथ श्रीराममङ्गलाष्टकम् ।

सङ्गीतप्राणमूलाय सप्तस्वराधिवासिने ।
षड्जाधारश्रुतिस्थाय सद्गुरुस्वाय मङ्गलम् ॥ १॥
ऋषभारूढनूताय रिपुसूदनकीर्तये ।
ऋषिश्रेष्ठसुगीताय रिपुभीमाय मङ्गलम् ॥ २॥
गङ्गापावनपादाय गम्भीरस्वरभाषिणे ।
गान्धर्वगानलोलाय गभीराय सुमङ्गलम् ॥ ३॥
मङ्गलं क्षितिजापाय मङ्गलानन्दमूर्तये ।
मङ्गलश्रीनिवासाय माधवाय सुमङ्गलम् ॥ ४॥
पञ्चमस्वरगेयाय परिपूर्णस्वराब्धये ।
पाथोधिरागरङ्गाय परार्थाय सुमङ्गलम् ॥ ५॥
धन्याय धर्मपालाय धैवत्यधैर्यदायिने ।
ध्याताय ध्यानगम्याय ध्यातरूपाय मङ्गलम् ॥ ६॥
निषादगुहमित्राय निशाचरमदारये ।
निर्वाणफलदात्रे च नित्यानन्दाय मङ्गलम् ॥ ७॥
सप्तस्वराधिनाथाय सङ्गीतकृतिसेविने ।
सद्गुरुस्वामिगेयाय सीतारामाय मङ्गलम् ॥ ८॥

इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया
अनुरागेण कृतं श्रीराममङ्गलाष्टकं गुरौ समर्पितम् ।

शुभमस्तु ।

Shri Rama Mangalashtakam Lyrics in Hindi | Sri Rama Ashtakam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top