Templesinindiainfo

Best Spiritual Website

Shri Shankaracharya Ashtakam Lyrics in Hindi

Adi Shankaracharya, the famous saint-philosopher, has composed many hymns and stotras on Advaita Vedanta themes. But he has also composed several devotional hymns on various Gods and Goddesses. The Stotras are now available in 9 Indian Scripts including Sanskrit, Telugu, Tamil, Hindi, Gujarati, Assamese, Bengali, Kannada and Malayalam.

Sri Shankaracharyashtakam in Hindi:

॥ श्रीशङ्कराचार्याष्टकम् ॥
श्रीगणेशाय नमः ।
अथ श्रीशङ्कराचार्याष्टकम् ।
धर्मो ब्रह्मेत्युभयविषयं ज्ञापयत्येव वेदो
नायं लोके पुरुषमतिजः काव्यकल्पानुकल्पः ।
प्रामाण्यं च स्वयमिह भवेदित्यनूद्दिष्टवन्तं
भाष्याचार्यं प्रणमत सदा शङ्करं न्यासिवर्यम् ॥ १॥

धर्मो नित्यं विधिविषयतो ज्ञापयत्येष वेद-
स्तस्मिन्निष्ठा द्विविधमुदिता कामजाकामजाभ्याम् ।
काम्यं कर्म त्रिदिवभुवनायेत्यनूद्दिष्टवन्तं
भाष्याचार्यं प्रणमत सदा शङ्करं न्यासिवर्यम् ॥ २॥

कामापेतं भवति मनसः शोधनायात्र लोके
तस्मान्नूनं विविदिषति ना साधनैः संयुतः सन् ।
तस्माद्धर्मं चरत मनुजा इत्यनूद्दिष्टवनतं
भाष्याचार्यं प्रणमत सदा शङ्करं न्यासिवर्यम् ॥ ३॥

वेदो यस्मिन् विधिमुखभिदा षड्विधः शास्त्रसिद्धो
वैधो भेदो दशहतशतं पूर्वतन्त्रे प्रसिद्धः ।
धर्माद्यर्थः प्रमितिपुरतश्चेत्यनूद्दिष्टवन्तं
भाष्याचार्यं प्रणमत सदा शङ्करं न्यासिवर्यम् ॥ ४॥

अद्वैतार्थग्रहणपटुतां पूर्वतन्त्रानुकूलं
शास्त्राज्ज्ञात्वा कुरुत सुधियो धर्मचर्यां यथार्थम् ।
नोचेत्कष्टं नरकगमनं चेत्यनूद्दिष्टवन्तं
भाष्याचार्यं प्रणमत सदा शङ्करं न्यासिवर्यम् ॥ ५॥

द्वैतं मिथ्या यदि भवति चेत्प्राप्यतेऽद्वैतसिद्धि-
स्तस्याः प्राप्त्यै प्रथममधुना साध्यते द्वैतनिष्ठम् ।
मिथ्यात्वं यच्छ्रुतिशतगतं चेत्यनूद्दिष्टवन्तं
भाष्याचार्यं प्रणमत सदा शङ्करं न्यासिवर्यम् ॥ ६॥

नाना नेहेत्युपदिशति वाग्द्वैतमिथ्यात्वसिद्ध्यै
द्वैतं मिथ्या परिमितिगतेर्दृश्यतः स्वप्नवत्स्यात् ।
एवंरूपा ह्यनुमितिमितिशेत्यनूद्दिष्टवन्तं
भाष्याचार्यं प्रणमत सदा शङ्करं न्यासिवर्यम् ॥ ७॥

एवं मिथ्या जगदिदमिति ज्ञायतां निश्चयेन
ब्रह्माहं चेत्यलमनुभवः प्राप्यतां वेदवाक्यात् ।
शान्तो भूयात् तदनु च सुखं चेत्यनूद्दिष्टवन्तं
शान्त्यानन्दः प्रणमति यतिः शङ्कराचार्यमूर्तिम् ॥ ८॥

शान्त्यानन्दसरस्वत्या कृतं शाङ्करमष्टकम् ।
यः पठेद्भक्तिसंयुक्तः स सर्वां सिद्धिमाप्नुयात् ॥ ९॥

इति श्रीपरमहंसपरिव्राजकाचार्यश्रीशान्त्यानन्दसरस्वतिविरचितं
श्रीशङ्कराचार्याष्टकं समाप्तम् ॥

Shri Shankaracharya Ashtakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top