Templesinindiainfo

Best Spiritual Website

Shri Subrahmanya Trishati Namavali Lyrics in Hindi

Sri Subrahmanya Trishati in Hindi:

॥ श्रीसुब्रह्मण्यत्रिशतीनामावलिः ॥

ॐ श्रीं सौं शरवणभवाय नमः ।
ॐ शरच्चन्द्रायुतप्रभाय नमः ।
ॐ शशाङ्कशेखरसुताय नमः ।
ॐ शचीमाङ्गल्यरक्षकाय नमः ।
ॐ शतायुष्यप्रदात्रे नमः ।
ॐ शतकोटिरविप्रभाय नमः ।
ॐ शचीवल्लभसुप्रीताय नमः ।
ॐ शचीनायकपूजिताय नमः ।
ॐ शचीनाथचतुर्वक्त्रदेवदैत्याभिवन्दिताय नमः ।
ॐ शचीशार्तिहराय नमः । १० ।

ॐ शंभवे नमः ।
ॐ शंभूपदेशकाय नमः ।
ॐ शङ्कराय नमः ।
ॐ शङ्करप्रीताय नमः ।
ॐ शंयाककुसुमप्रियाय नमः ।
ॐ शङ्कुकर्णमहाकर्णप्रमुखाद्यभिवन्दिताय नमः ।
ॐ शचीनाथसुताप्राणनायकाय नमः ।
ॐ शक्तिपाणिमते नमः ।
ॐ शङ्खपाणिप्रियाय नमः ।
ॐ शङ्खोपमषड्गलसुप्रभाय नमः । २० ।

ॐ शङ्खघोषप्रियाय नमः ।
ॐ शङ्खचक्रशूलादिकायुधाय नमः ।
ॐ शङ्खधाराभिषेकादिप्रियाय नमः ।
ॐ शङ्करवल्लभाय नमः ।
ॐ शब्दब्रह्ममयाय नमः ।
ॐ शब्दमूलान्तरात्मकाय नमः ।
ॐ शब्दप्रियाय नमः ।
ॐ शब्दरूपाय नमः ।
ॐ शब्दानन्दाय नमः ।
ॐ शचीस्तुताय नमः । ३० ।

ॐ शतकोटिप्रविस्तारयोजनायतमन्दिराय नमः ।
ॐ शतकोटिरविप्रख्यरत्नसिंहासनान्विताय नमः ।
ॐ शतकोटिमहर्षीन्द्रसेवितोभयपार्श्वभुवे नमः ।
ॐ शतकोटिसुरस्त्रीणां नृत्तसङ्गीतकौतुकाय नमः ।
ॐ शतकोटीन्द्रदिक्पालहस्तचामरसेविताय नमः ।
ॐ शतकोट्यखिलाण्डादिमहाब्रह्माण्डनायकाय नमः ।
ॐ शङ्खपाणिविधिभ्यां च पार्श्वयोरुपसेविताय नमः ।
ॐ शङ्खपद्मनिधीनां च कोटिभिः परिसेविताय नमः ।
ॐ शशाङ्कादित्यकोटीभिःसव्यदक्षिणसेविताय नमः ।
ॐ शङ्खपालाद्यष्टनागकोटिभिः परिसेविताय नमः । ४० ।

ॐ शशाङ्कारपतङ्गादिग्रहनक्षत्रसेविताय नमः ।
ॐ शशिभास्करभौमादिग्रहदोषार्तिभञ्जनाय नमः ।
ॐ शतपत्रद्वयकराय नमः ।
ॐ शतपत्रार्चनप्रियाय नमः ।
ॐ शतपत्रसमासीनाय नमः ।
ॐ शतपत्रासनस्तुताय नमः ।
ॐ शरीरब्रह्ममूलादिषडाधारनिवासकाय नमः ।
ॐ शतपत्रसमुत्पन्नब्रह्मगर्वविभेदनाय नमः ।
ॐ शशाङ्कार्धजटाजूटाय नमः ।
ॐ शरणागतवत्सलाय नमः । ५० ।

ॐ रकाररूपाय नमः ।
ॐ रमणाय नमः ।
ॐ राजीवाक्षाय नमः ।
ॐ रहोगताय नमः ।
ॐ रतीशकोटिसौन्दर्याय नमः ।
ॐ रविकोट्युदयप्रभाय नमः ।
ॐ रागस्वरूपाय नमः ।
ॐ रागघ्नाय नमः ।
ॐ रक्ताब्जप्रियाय नमः ।
ॐ राजराजेश्वरीपुत्राय नमः । ६० ।

ॐ राजेन्द्रविभवप्रदाय नमः ।
ॐ रत्नप्रभाकिरीटाग्राय नमः ।
ॐ रविचन्द्राग्निलोचनाय नमः ।
ॐ रत्नाङ्गदमहाबाहवे नमः ।
ॐ रत्नताटङ्कभूषणाय नमः ।
ॐ रत्नकेयूरभूषाढ्याय नमः ।
ॐ रत्नहारविराजिताय नमः ।
ॐ रत्नकिङ्किणिकाञ्च्यादिबद्धसत्कटिशोभिताय नमः ।
ॐ रवसंयुक्तरत्नाभनूपुराङ्घ्रिसरोरुहाय नमः ।
ॐ रत्नकङ्कणचूल्यादिसर्वाभरणभूषिताय नमः । ७० ।

ॐ रत्नसिंहासनासीनाय नमः ।
ॐ रत्नशोभितमन्दिराय नमः ।
ॐ राकेन्दुमुखषट्काय नमः ।
ॐ रमावाण्यादिपूजिताय नमः ।
ॐ राक्षसामरगन्धर्वकोटिकोट्यभिवन्दिताय नमः ।
ॐ रणरङ्गे महादैत्यसङ्ग्रामजयकौतुकाय नमः ।
ॐ राक्षसानीकसंहारकोपाविष्टायुधान्विताय नमः ।
ॐ राक्षसाङ्गसमुत्पन्नरक्तपानप्रियायुधाय नमः ।
ॐ रवयुक्तधनुर्हस्ताय नमः ।
ॐ रत्नकुक्कुटधारणाय नमः । ८० ।

ॐ रणरङ्गजयाय नमः ।
ॐ रामास्तोत्रश्रवणकौतुकाय नमः ।
ॐ रम्भाघृताचीविश्वाचीमेनकाद्यभिवन्दिताय नमः ।
ॐ रक्तपीताम्बरधराय नमः ।
ॐ रक्तगन्धानुलेपनाय नमः ।
ॐ रक्तद्वादशपद्माक्षाय नमः ।
ॐ रक्तमाल्यविभूषिताय नमः ।
ॐ रविप्रियाय नमः ।
ॐ रावणेशस्तोत्रसाममनोधराय नमः ।
ॐ राज्यप्रदाय नमः । ९० ।

ॐ रन्ध्रगुह्याय नमः ।
ॐ रतिवल्लभसुप्रियाय नमः ।
ॐ रणानुबन्धनिर्मुक्ताय नमः ।
ॐ राक्षसानीकनाशकाय नमः ।
ॐ राजीवसंभवद्वेषिणे नमः ।
ॐ राजीवासनपूजिताय नमः ।
ॐ रमणीयमहाचित्रमयूरारूढसुन्दराय नमः ।
ॐ रमानाथस्तुताय नमः ।
ॐ रामाय नमः ।
ॐ रकाराकर्षणक्रियाय नमः । १०० ।

ॐ वकाररूपाय नमः ।
ॐ वरदाय नमः ।
ॐ वज्रशक्त्यभयान्विताय नमः ।
ॐ वामदेवादिसम्पूज्याय नमः ।
ॐ वज्रपाणिमनोहराय नमः ।
ॐ वाणीस्तुताय नमः ।
ॐ वासवेशाय नमः ।
ॐ वल्लीकल्याणसुन्दराय नमः ।
ॐ वल्लीवदनपद्मार्काय नमः ।
ॐ वल्लीनेत्रोत्पलोडुपाय नमः । ११० ।

ॐ वल्लीद्विनयनानन्दाय नमः ।
ॐ वल्लीचित्ततटामृताय नमः ।
ॐ वल्लीकल्पलतावृक्षाय नमः ।
ॐ वल्लीप्रियमनोहराय नमः ।
ॐ वल्लीकुमुदहास्येन्दवे नमः ।
ॐ वल्लीभाषितसुप्रियाय नमः ।
ॐ वल्लीमनोहृत्सौन्दर्याय नमः ।
ॐ वल्लीविद्युल्लताघनाय नमः ।
ॐ वल्लीमङ्गलवेषाढ्याय नमः ।
ॐ वल्लीमुखवशङ्कराय नमः । १२० ।

ॐ वल्लीकुचगिरिद्वन्द्वकुङ्कुमाङ्कितवक्षकाय नमः ।
ॐ वल्लीशाय नमः ।
ॐ वल्लभाय नमः ।
ॐ वायुसारथये नमः ।
ॐ वरुणस्तुताय नमः ।
ॐ वक्रतुण्डानुजाय नमः ।
ॐ वत्साय नमः ।
ॐ वत्सलाय नमः ।
ॐ वत्सरक्षकाय नमः ।
ॐ वत्सप्रियाय नमः । १३० ।

ॐ वत्सनाथाय नमः ।
ॐ वत्सवीरगणावृताय नमः ।
ॐ वारणाननदैत्यघ्नाय नमः ।
ॐ वातापिघ्नोपदेशकाय नमः ।
ॐ वर्णगात्रमयूरस्थाय नमः ।
ॐ वर्णरूपाय नमः ।
ॐ वरप्रभवे नमः ।
ॐ वर्णस्थाय नमः ।
ॐ वारणारूढाय नमः ।
ॐ वज्रशक्त्यायुधप्रियाय नमः । १४० ।

ॐ वामाङ्गाय नमः ।
ॐ वामनयनाय नमः ।
ॐ वचद्भुवे नमः ।
ॐ वामनप्रियाय नमः ।
ॐ वरवेषधराय नमः ।
ॐ वामाय नमः ।
ॐ वाचस्पतिसमर्चिताय नमः ।
ॐ वसिष्ठादिमुनिश्रेष्ठवन्दिताय नमः ।
ॐ वन्दनप्रियाय नमः ।
ॐ वकारनृपदेवस्त्रीचोरभूतारिमोहनाय नमः । १५० ।

ॐ णकाररूपाय नमः ।
ॐ नादान्ताय नमः ।
ॐ नारदादिमुनिस्तुताय नमः ।
ॐ णकारपीठमध्यस्थाय नमः ।
ॐ नगभेदिने नमः ।
ॐ नगेश्वराय नमः ।
ॐ णकारनादसंतुष्टाय नमः ।
ॐ नागाशनरथस्थिताय नमः ।
ॐ णकारजपसुप्रीताय नमः ।
ॐ नानावेषाय नमः । १६० ।

ॐ नगप्रियाय नमः ।
ॐ णकारबिन्दुनिलयाय नमः ।
ॐ नवग्रहसुरूपकाय नमः ।
ॐ णकारपठनानन्दाय नमः ।
ॐ नन्दिकेश्वरवन्दिताय नमः ।
ॐ णकारघण्टानिनदाय नमः ।
ॐ नारायणमनोहराय नमः ।
ॐ णकारनादश्रवणाय नमः ।
ॐ नलिनोद्भवशिक्षकाय नमः ।
ॐ णकारपङ्कजादित्याय नमः । १७० ।

ॐ नववीराधिनायकाय नमः ।
ॐ णकारपुष्पभ्रमराय नमः ।
ॐ नवरत्नविभूषणाय नमः ।
ॐ णकारानर्घशयनाय नमः ।
ॐ नवशक्तिसमावृताय नमः ।
ॐ णकारवृक्षकुसुमाय नमः ।
ॐ नाट्यसङ्गीतसुप्रियाय नमः ।
ॐ णकारबिन्दुनादज्ञाय नमः ।
ॐ नयज्ञाय नमः ।
ॐ नयनोद्भवाय नमः । १८० ।

ॐ णकारपर्वतेन्द्राग्रसमुत्पन्नसुधारणये नमः ।
ॐ णकारपेटकमणये नमः ।
ॐ नागपर्वतमन्दिराय नमः ।
ॐ णकारकरुणानन्दाय नमः ।
ॐ नादात्मने नमः ।
ॐ नागभूषणाय नमः ।
ॐ णकारकिङ्किणीभूषाय नमः ।
ॐ नयनादृश्यदर्शनाय नमः ।
ॐ णकारवृषभावासाय नमः ।
ॐ नामपारायणप्रियाय नमः । १९० ।

ॐ णकारकमलारूढाय नमः ।
ॐ नामानतसमन्विताय नमः ।
ॐ णकारतुरगारूढाय नमः ।
ॐ नवरत्नादिदायकाय नमः ।
ॐ णकारमकुटज्वालामणये नमः ।
ॐ नवनिधिप्रदाय नमः ।
ॐ णकारमूलमन्त्रार्थाय नमः ।
ॐ नवसिद्धादिपूजिताय नमः ।
ॐ णकारमूलनादान्ताय नमः ।
ॐ णकारस्तम्भनक्रियाय नमः । २०० ।

ॐ भकाररूपाय नमः ।
ॐ भक्तार्थाय नमः ।
ॐ भवाय नमः ।
ॐ भर्गाय नमः ।
ॐ भयापहाय नमः ।
ॐ भक्तप्रियाय नमः ।
ॐ भक्तवन्द्याय नमः ।
ॐ भगवते नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ भक्तार्तिभञ्जनाय नमः । २१० ।

ॐ भद्राय नमः ।
ॐ भक्तसौभाग्यदायकाय नमः ।
ॐ भक्तमङ्गलदात्रे नमः ।
ॐ भक्तकल्याणदर्शनाय नमः ।
ॐ भक्तदर्शनसंतुष्टाय नमः ।
ॐ भक्तसङ्घसुपूजिताय नमः ।
ॐ भक्तस्तोत्रप्रियानन्दाय नमः ।
ॐ भक्ताभीष्टप्रदायकाय नमः ।
ॐ भक्तसम्पूर्णफलदाय नमः ।
ॐ भक्तसांराज्यभोगदाय नमः । २२० ।

ॐ भक्तसालोक्यसामीप्यरूपमोक्षवरप्रदाय नमः ।
ॐ भवौषधये नमः ।
ॐ भवघ्नाय नमः ।
ॐ भवारण्यदवानलाय नमः ।
ॐ भवान्धकारमार्ताण्डाय नमः ।
ॐ भववैद्याय नमः ।
ॐ भवायुधाय नमः ।
ॐ भवशैलमहावज्राय नमः ।
ॐ भवसागरनाविकाय नमः ।
ॐ भवमृत्युभयध्वंसिने नमः । २३० ।

ॐ भावनातीतविग्रहाय नमः ।
ॐ भयभूतपिशाचघ्नाय नमः ।
ॐ भास्वराय नमः ।
ॐ भारतीप्रियाय नमः ।
ॐ भाषितध्वनिमूलान्ताय नमः ।
ॐ भावाभावविवर्जिताय नमः ।
ॐ भानुकोपपितृध्वंसिने नमः ।
ॐ भारतीशोपदेशकाय नमः ।
ॐ भार्गवीनायकश्रीमद्भागिनेयाय नमः ।
ॐ भवोद्भवाय नमः । २४० ।

ॐ भारक्रौञ्चासुरद्वेषाय नमः ।
ॐ भार्गवीनाथवल्लभाय नमः ।
ॐ भटवीरनमस्कृत्याय नमः ।
ॐ भटवीरसमावृताय नमः ।
ॐ भटतारागणोड्वीशाय नमः ।
ॐ भटवीरगणस्तुताय नमः ।
ॐ भागीरथेयाय नमः ।
ॐ भाषार्थाय नमः ।
ॐ भावनाशबरीप्रियाय नमः ।
ॐ भकारे कलिचोरारिभूताद्युच्चाटनोद्यताय नमः । २५० ।

ॐ वकारसुकलासंस्थाय नमः ।
ॐ वरिष्ठाय नमः ।
ॐ वसुदायकाय नमः ।
ॐ वकारकुमुदेन्दवे नमः ।
ॐ वकाराब्धिसुधामयाय नमः ।
ॐ वकारामृतमाधुर्याय नमः ।
ॐ वकारामृतदायकाय नमः ।
ॐ वज्राभीतिदक्षहस्ताय नमः ।
ॐ वामे शक्तिवरान्विताय नमः ।
ॐ वकारोदधिपूर्णेन्दवे नमः । २६० ।

ॐ वकारोदधिमौक्तिकाय नमः ।
ॐ वकारमेघसलिलाय नमः ।
ॐ वासवात्मजरक्षकाय नमः ।
ॐ वकारफलसारज्ञाय नमः ।
ॐ वकारकलशामृताय नमः ।
ॐ वकारपङ्कजरसाय नमः ।
ॐ वसवे नमः ।
ॐ वंशविवर्धनाय नमः ।
ॐ वकारदिव्यकमलभ्रमराय नमः ।
ॐ वायुवन्दिताय नमः । २७० ।

ॐ वकारशशिसंकाशाय नमः ।
ॐ वज्रपाणिसुताप्रियाय नमः ।
ॐ वकारपुष्पसद्गन्धाय नमः ।
ॐ वकारतटपङ्कजाय नमः ।
ॐ वकारभ्रमरध्वानाय नमः ।
ॐ वयस्तेजोबलप्रदाय नमः ।
ॐ वकारवनितानाथाय नमः ।
ॐ वश्याद्यष्टक्रियाप्रदाय नमः ।
ॐ वकारफलसत्काराय नमः ।
ॐ वकाराज्यहुताशनाय नमः । २८० ।

ॐ वर्चस्विने नमः ।
ॐ वाङ्मनोऽतीताय नमः ।
ॐ वाताप्यरिकृतप्रियाय नमः ।
ॐ वकारवटमूलस्थाय नमः ।
ॐ वकारजलधेस्तटाय नमः ।
ॐ वकारगङ्गावेगाब्धये नमः ।
ॐ वज्रमाणिक्यभूषणाय नमः ।
ॐ वातरोगहराय नमः ।
ॐ वाणीगीतश्रवणकौतुकाय नमः ।
ॐ वकारमकरारूढाय नमः । २९० ।

ॐ वकारजलधेः पतये नमः ।
ॐ वकारामलमन्त्रार्थाय नमः ।
ॐ वकारगृहमङ्गलाय नमः ।
ॐ वकारस्वर्गमाहेन्द्राय नमः ।
ॐ वकारारण्यवारणाय नमः ।
ॐ वकारपञ्जरशुकाय नमः ।
ॐ वलारितनयास्तुताय नमः ।
ॐ वकारमन्त्रमलयसानुमन्मन्दमारुताय नमः ।
ॐ वाद्यन्तभान्तषट्क्रम्यजपान्ते शत्रुभञ्जनाय नमः ।
ॐ वज्रहस्तसुतावल्लीवामदक्षिणसेविताय नमः । ३०० ।

ॐ वकुलोत्पलकादम्बपुष्पदामस्वलङ्कृताय नमः ।
ॐ वज्रशक्त्यादिसम्पन्नद्विषट्पाणिसरोरुहाय नमः ।
ॐ वासनागन्धलिप्ताङ्गाय नमः ।
ॐ वषट्काराय नमः ।
ॐ वशीकराय नमः ।
ॐ वासनायुक्तताम्बूलपूरिताननसुन्दराय नमः ।
ॐ वल्लभानाथसुप्रीताय नमः ।
ॐ वरपूर्णामृतोदधये नमः । ३०८ ।

Also Read:

308 Names of Sri Subrahmanya Trishati Namavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Subrahmanya Trishati Namavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top