Templesinindiainfo

Best Spiritual Website

Shri Vishnu Ashtakam Lyrics in Hindi | Sri Vishnu Slokam

Vishnavashtakam Lyrics in Hindi:

॥ विष्ण्वष्टकम् ॥

श्रीगणेशाय नमः ।
पुरः सृष्टाविष्टः पुरुष इति तत्प्रेक्षणमुखः
सहस्राक्षो भुक्त्वा फलमनुशयी शास्ति तमुत ।
स्वयं शुद्धं शान्तं निरवधिसुखं नित्यमचलं
नमामि श्रीविष्णुं जलधितनयासेवितपदम् ॥ १ ॥

अनन्तं सत्सत्यं भवभयहरं ब्रह्म परमं
सदा भातं नित्यं जगदिदमितः कल्पितपरम् ।
मुहुर्ज्ञानं यस्मिन् रजतमिव शुक्तौ भ्रमहरं नमामि० ॥ २ ॥

मतौ यत्सद्रूपं मृगयति बुधोऽतन्निरसनात्
न रज्जौ सर्पोऽपि मुकुरजठरे नास्ति वदनम् ।
अतोऽपार्थं सर्वं न हि भवति यस्मिंश्च तमहं नमामि० ॥ ३ ॥

भ्रमद्धीविक्षिप्तेन्द्रियपथमनुष्यैर्हृदि विभुं
नयं वै वेद स्वेन्द्रियमपि वसन्तं निजमुखम् ।
सदा सेव्यं भक्तैर्मुनिमनसि दीप्तं मुनिनुतं नमामि० ॥ ४ ॥

बुधा यत्तद्रूपं न हि तु नैर्गुण्यममलं
यथा ये व्यक्तं ते सततमकलङ्के श्रुतिनुतम् ।
यदाहुः सर्वत्रास्खलितगुणसत्ताकमतुलं नमामि० ॥ ५ ॥

लयादौ यस्मिन्यद्विलयमप्युद्यत्प्रभवति
तथा जीवोपेतं गुरुकरुणया बोधजनने ।
गतं चात्यन्तान्तं व्रजति सहसा सिन्धुनदवन्नमामि० ॥ ६ ॥

जडं सङ्घातं यन्निमिषलवलेशेन चपलं
यथा स्वं स्वं कार्यं प्रथयति महामोहजनकम् ।
मनोवादग्जीवानां न निविशति यं निर्भयपदं नमामि० ॥ ७ ॥

गुणाख्याने यस्मिन्प्रभवति न वेदोऽपि नितरां
निषिध्यद्वाक्यार्थैश्चकितचकितं योऽस्य वचनम् ।
स्वरूपं यद्गत्वा प्रभुरपि च तूष्णीं भवति तं
नमामि श्रीविष्णुं जलधितनयासेवितपदम् ॥ ८ ॥

विण्वष्टकं यः पठति प्रभाते नरोऽप्यखण्डं सुखमश्नुते च ।
यन्नित्यबोधाय सुबुद्धिनोक्तं रधूत्तमाख्येन विचार्य सम्यक् ॥ ९ ॥

इति श्रीविष्ण्वष्टकं सम्पूर्णम् ॥

Shri Vishnu Ashtakam Lyrics in Hindi | Sri Vishnu Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top