Templesinindiainfo

Best Spiritual Website

Sri Ayyappa Shodasa Upchara Puja Lyrics in Hindi

Sri Ayyappa Shodasa Upchara Pooja Vidhanam in Hindi:

॥ श्री अय्यप्पा षोडशोपचार पूजा ॥
पूर्वाङ्गं पश्यतु

श्री गणपति लघु पूजा पश्यतु

श्री सुब्रह्मण्य पूजा विधानं पश्यतु ॥

पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री पूर्णापुष्कलाम्बा समेत हरिहरपुत्र अय्यप्प स्वामिनः अनुग्रहप्रसाद सिद्ध्यर्थं श्री अय्यप्प स्वामिनः प्रीत्यर्थं ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये ॥

ध्यानम् –
आश्यामकोमल विशालतनुं विचित्र-
वासोवसानमरुणोत्पल वामहस्तम् ।
उत्तुङ्गरत्नमकुटं कुटिलाग्रकेशं
शास्तारमिष्टवरदं शरणं प्रपद्ये ॥

सोमोमण्डलमध्यगं त्रिनयनं दिव्याम्बरालङ्कृतं
देवं पुष्पशरेक्षुकार्मुकलसन्माणिक्यपात्राभयम् ।
बिभ्राणं करपङ्कजैः मदगजस्कन्दाधिरूढं विभुं
शास्तारं शरणं नमामि सततं त्रैलोक्यसम्मोहनम् ॥

आवाहनम् –
ओं श्री हरिहरपुत्राय नमः आवाहयामि ।

आसनम् –
ओं श्री हरिहरपुत्राय नमः आसनं समर्पयामि ।

पाद्यम् –
ओं श्री हरिहरपुत्राय नमः पादयोः पाद्यं समर्पयामि ।

अर्घ्यम् –
ओं श्री हरिहरपुत्राय नमः हसयोः अर्घ्यं समर्पयामि ।

आचमनीयम् –
ओं श्री हरिहरपुत्राय नमः आचमनं समर्पयामि ।

मधुपर्कम् –
ओं श्री हरिहरपुत्राय नमः मधुपर्कं समर्पयामि ।

पञ्चामृत स्नानम् –
ओं श्री हरिहरपुत्राय नमः क्षीरेण स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः दध्ना स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः आज्येन स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः मधुना स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः इक्षुरसेन स्नपयामि ।

ओं श्री हरिहरपुत्राय नमः नारिकेल जलेन स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः सौगन्धिका जलेन स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः कर्पूरिका जलेन स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः गङ्गा जलेन स्नपयामि ।

शुद्धोदक स्नानम् –
ओं श्री हरिहरपुत्राय नमः शुद्धोदक स्नानं समर्पयामि ।

वस्त्रम् –
ओं श्री हरिहरपुत्राय नमः वस्त्रयुग्मं समर्पयामि ।

यज्ञोपवीतम् –
ओं श्री हरिहरपुत्राय नमः यज्ञोपवीतं समर्पयामि ।

परिमलद्रव्याणि –
ओं श्री हरिहरपुत्राय नमः भस्मं समर्पयामि ।
ओं श्री हरिहरपुत्राय नमः गन्धं समर्पयामि ।
ओं श्री हरिहरपुत्राय नमः हरिद्राचूर्णं समर्पयामि ।
ओं श्री हरिहरपुत्राय नमः सौगन्धिकाचूर्णं समर्पयामि ।
ओं श्री हरिहरपुत्राय नमः त्रिचूर्णं समर्पयामि ।
ओं श्री हरिहरपुत्राय नमः कुङ्कुमं समर्पयामि ।

अक्षतान्-
ओं श्री हरिहरपुत्राय नमः अलङ्करणार्थं अक्षतान् समर्पयामि ।

अङ्गपूजा –
ओं धर्मशास्त्रे नमः – पादौ पूजयामि ।
ओं शिल्पशास्त्रे नमः – गुल्फौ पूजयामि ।
ओं वीरशास्त्रे नमः – जङ्घे पूजयामि ।
ओं योगशास्त्रे नमः – जानुनीं पूजयामि ।
ओं महाशास्त्रे नमः – ऊरूं पूजयामि ।
ओं ब्रह्मशास्त्रे नमः – कटिं पूजयामि ।
ओं कालशास्त्रे नमः – गुह्यं पूजयामि ।
ओं शबरिगिरीशाय नमः – मेढ्रं पूजयामि ।
ओं सत्यरूपाय नमः – नाभिं पूजयामि ।
ओं मणिकण्ठाय नमः – उदरं पूजयामि ।
ओं विष्णुतनयाय नमः – वक्षस्थलं पूजयामि ।
ओं शिवपुत्राय नमः – पार्श्वौ पूजयामि ।
ओं हरिहरपुत्राय नमः – हृदयं पूजयामि ।
ओं त्रिनेत्राय नमः – कण्ठं पूजयामि ।
ओं ओङ्काररूपाय नमः – स्तनौ पूजयामि ।
ओं वरदहस्ताय नमः – हस्तान् पूजयामि ।
ओं भीमाय नमः – बाहून् पूजयामि ।
ओं तेजस्विने नमः – मुखं पूजयामि ।
ओं अष्टमूर्तये नमः – दन्तान् पूजयामि ।
ओं शुभवीक्षणाय नमः – नेत्रौ पूजयामि ।
ओं कोमलाङ्गाय नमः – कर्णौ पूजयामि ।
ओं पापविनाशाय नमः – ललाटं पूजयामि ।
ओं शत्रुनाशाय नमः – नासिकां पूजयामि ।
ओं पुत्रलाभाय नमः – चुबुकं पूजयामि ।
ओं हरिहरात्मजाय नमः – गण्डस्थलं पूजयामि ।
ओं गणेशपूज्याय नमः – कवचान् पूजयामि ।
ओं चिद्रूपाय नमः – शिरसान् पूजयामि ।
ओं सर्वेशाय नमः – सर्वाण्यङ्गानि पूजयामि ।

मूलमन्त्रम् –
अस्य श्री महाशास्त्र्य महामन्त्रस्य रेवन्द ऋषिः देवी गायत्री छन्दः श्री महाशास्ता देवता श्री हरिहरपुत्र अनुग्रह सिद्ध्यर्थे पूजे विनियोगः ।

ओं ह्रीं हरिहरपुत्राय पुत्रलाभाय शत्रुनाशाय मदगजवाहाय महाशास्त्रे नमः ।

नमस्कारम् –
ओं रत्नाभं सुप्रसन्नं शशिधरमकुटं रत्नभूषाभिरामं
शूलकेलं कपालं शरमुसलधनुर् बाहु सङ्केतधारम् ।
मत्तेभारूढं आद्यं हरिहरतनयं कोमलाङ्गं दयालुं
विश्वेशं भक्तवन्द्यं शतजनवरदं ग्रामपालं नमामि ॥

अष्टोत्तर शतनामावली –

श्री अय्यप्प अष्टोत्तरशतनामावली पश्यतु

धूपम् –
दशाङ्गं गुग्गुलोपेतं सुगन्धं सुमनोहरम् ।
महोजसं नमस्तुभ्यं गृहाण वरदो भव ॥

ओं श्री हरिहरपुत्राय नमः धूपं आघ्रापयामि ।

दीपम् –
साज्यं त्रिवर्ति सम्युक्तं वह्निना द्योतितं मया ।
गृहाण मङ्गलं दीपं ईशपुत्र नमोऽस्तु ते ॥

ओं श्री हरिहरपुत्राय नमः दीपं दर्शयामि ।

धूप दीपानन्तरं आचमनीयं समर्पयामि ।

नैवेद्यम् –
सुगन्धान्सुकृतांश्चैव मोदकान् घृत पाचितान् ।
नैवेद्यं गृह्यतां देव चणमुद्गैः प्रकल्पितान् ॥
भक्ष्यं भोज्यं च लेह्यं च चोष्यं पानीयमेव च ।
इदं गृहाण नैवेद्यं मयादत्तं महाप्रभो ॥

ओं श्री हरिहरपुत्राय नमः नैवेद्यं समर्पयामि ।

ओं भूर्भुव॑स्सुव॑: । तत्स॑वितु॒र्वरे᳚ण्य॒म् ।
भ॒र्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ योन॑: प्रचो॒दया᳚त् ॥

सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायंकाले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ । ओं व्या॒नाय॒ स्वाहा᳚ ।
ओं उ॒दा॒नाय॒ स्वाहा᳚ । ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि । अ॒मृ॒ता॒पि॒धा॒नम॑सि ।
उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि ।

ताम्बूलम् –
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ।
कर्पूरचूर्णसम्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥

ओं श्री हरिहरपुत्राय नमः ताम्बूलं समर्पयामि ।

नीराजनम् –
घृतवर्ति सहस्रैश्च कर्पूरशकलैः स्थितम् ।
नीराजनं मयादत्तं गृहाण वरदोभव ॥

ओं श्री हरिहरपुत्राय नमः आनन्द कर्पूर नीराजनं समर्पयामि ।

नीरजनानन्तरं शुद्ध आचमनीयं समर्पयामि ।

नमस्कारम् –
ओं श्री स्वामिये शरणं अय्यप्पा ।

लोकवीरं महापूज्यं सर्वरक्षाकरं विभुम् ।
पार्वती हृदयानन्दं शास्तारं प्रणमाम्यहम् ॥ १ ॥
स्वामिये शरणं अय्यप्पा ।

विप्रपूज्यं विश्ववन्द्यं विष्णुशम्भोः प्रियं सुतम् ।
क्षिप्रप्रसादनिरतं शास्तारं प्रणमाम्यहम् ॥ २ ॥
स्वामिये शरणं अय्यप्पा ।

मत्तमातङ्गगमनं कारुण्यामृतपूरितम् ।
सर्वविघ्नहरं देवं शास्तारं प्रणमाम्यहम् ॥ ३ ॥
स्वामिये शरणं अय्यप्पा ।

अस्मत्कुलेश्वरं देवमस्मच्छत्रु विनाशनम् ।
अस्मदिष्टप्रदातारं शास्तारं प्रणमाम्यहम् ॥ ४ ॥
स्वामिये शरणं अय्यप्पा ।

पाण्ड्येशवंशतिलकं केरले केलिविग्रहम् ।
आर्तत्राणपरं देवं शास्तारं प्रणमाम्यहम् ॥ ५ ॥
स्वामिये शरणं अय्यप्पा ।

पञ्चरत्नाख्यमेतद्यो नित्यं शुद्धः पठेन्नरः ।
तस्य प्रसन्नो भगवान् शास्ता वसति मानसे ॥
स्वामिये शरणं अय्यप्पा ।

अरुणोदय सङ्काशं नीलकुण्डलधारिणं
नीलाम्बरधरं देवं वन्देऽहं शङ्करात्मजम् ॥
स्वामिये शरणं अय्यप्पा ।

चापबाणं वामहस्तं रौप्यवेत्रं च दक्षिणे
विलसत्कुण्डलधरं देवं वन्देऽहं विष्णुनन्दनम् ॥
स्वामिये शरणं अय्यप्पा ।

व्याघ्रारूढं रक्तनेत्रं स्वर्णमाला विभूषणं
वीरपट्‍टधरं देवं वन्देऽहं ब्रह्मनन्दनम् ॥
स्वामिये शरणं अय्यप्पा ।

किङ्किण्योड्राण भूपेतं पूर्ण चन्द्रनिभाननः
किरातरूप शास्तारं वन्देऽहं पाण्ड्यनन्दनम् ॥
स्वामिये शरणं अय्यप्पा ।

भूतभेतालसंसेव्यं काञ्चनाद्रि निवासिनं
मणिकण्ठमिति ख्यातं वन्देऽहं शक्तिनन्दनम् ॥
स्वामिये शरणं अय्यप्पा ।

मन्त्रपुष्पम् –

मन्त्रपुष्पं पश्यतु

ओं तत्पुरुषाय विद्महे मणिकण्ठाय धीमहि तन्नो शास्ता प्रचोदयात् ।
ओं परात्मजाय विद्महे हरिपुत्राय धीमहि तन्नो शास्ता प्रचोदयात् ।
स्वामिये शरणं अय्यप्प ।

प्रदक्षिण –
यानिकानिच पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः ।
त्राहि मां कृपया देव शरणागतवत्सल ॥

अन्यधा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष हरिहरात्मजा ॥

ओं श्री हरिहरपुत्राय नमः प्रदक्षिण नमस्कारान् समर्पयामि ।

क्षमाप्रार्थना –
यस्यस्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं हरात्मज ।
यत्पूजितं मया देव परिपूर्णं तदस्तुते ॥

अनया ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मिकः श्री पूर्णपुष्कलाम्बा समेत हरिहरपुत्र अय्यप्पस्वामि सुप्रीतो सुप्रसन्नो वरदो भवतु ॥

श्री अय्यप्प स्वामि प्रसादं शिरसा गृह्णामि ॥

स्वामि शरणु घोष –

श्री अय्यप्प शरणुघोष पश्यतु

स्वामि शरणं – अय्यप्प शरणं
भगवान् शरणं – भगवति शरणं
देवन् शरणं – देवी शरणं
देवन् पादं – देवी पादं
स्वामि पादं – अय्यप्प पादं
भगवाने – भगवतिये
ईश्वरने – ईश्वरिये
देवने – देविये
शक्तने – शक्तिये
स्वामिये – अय्यपो
पल्लिकट्‍टु – शबरिमलक्कु
इरुमुडिकट्‍टु – शबरिमलक्कु
कत्तुंकट्‍टु – शबरिमलक्कु
कल्लुंमुल्लुं – कालिकिमेत्तै
एत्तिविडय्या – तूकिक्कविडय्या
देहबलन्दा – पादबलन्दा
यारैकान – स्वामियैकान
स्वामियैकण्डाल् – मोक्षंकिट्‍टुं
स्वामिमारे – अय्यप्पमारे
नेय्याभिषेकं – स्वामिक्के
कर्पूरदीपं – स्वामिक्के
पालाभिषेकं – स्वामिक्के
भस्माभिषेकं – स्वामिक्के
तेनाभिषेकं – स्वामिक्के
चन्दनाभिषेकं – स्वामिक्के
पूलाभिषेकं – स्वामिक्के
पन्नीराभिषेकं – स्वामिक्के
पंबाशिशुवे – अय्यप्पा
काननवासा – अय्यप्पा
शबरिगिरीशा – अय्यप्पा
पन्दलराजा – अय्यप्पा
पम्बावासा – अय्यप्पा
वन्‍पुलिवाहन – अय्यप्पा
सुन्दररूपा – अय्यप्पा
षण्मुगसोदर – अय्यप्पा
मोहिनितनया – अय्यप्पा
गणेशसोदर – अय्यप्पा
हरिहरतनया – अय्यप्पा
अनाधरक्षक – अय्यप्पा
सद्गुरुनाथा – अय्यप्पा
स्वामिये – अय्यप्पो
अय्यप्पो – स्वामिये
स्वामि शरणं – अय्यप्प शरणं

उद्वासनम्-
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः ।
तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मान॑: सचन्ते ।
यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥

श्री पूर्णपुष्कलाम्बा समेत हरिहरपुत्र अय्यप्प स्वामिनं यथा स्थानं प्रवेशयामि

हरिवरासनम् –
(रात्रि पूजा अनन्तरं)

हरिवरासनं पश्यतु

सर्वं श्री अय्यप्पस्वामि पादार्पणमस्तु ।

ओं शान्तिः शान्तिः शान्तिः ।

Also Read:

Sri Ayyappa Shodasa Upchara Puja Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Ayyappa Shodasa Upchara Puja Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top