Templesinindiainfo

Best Spiritual Website

Sri Bhramarambika Ashtakam Lyrics in Hindi

Sri Bramarambika Ashtakam (Sri Kantarpita) in Hindi:

॥ श्री भ्रमराम्बिकाष्टकम् २ (श्रीकण्ठार्पित) ॥

श्रीकण्ठार्पितपत्रगण्डयुगलां सिंहासनाध्यासिनीं
लोकानुग्रहकारिणीं गुणवतीं लोलेक्षणां शाङ्करीम् ।
पाकारिप्रमुखामरार्चितपदां मत्तेभकुम्भस्तनीं
श्रीशैल भ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ १ ॥

विन्ध्याद्रीन्द्रगृहान्तरेनिवसितां वेदान्तवेद्यां निधिं
मन्दारद्रुमपुष्पवासितकुचां मायां महामायिनीम् ।
बन्धूकप्रसवोज्ज्वलारुणनिभां पञ्चाक्षरीरूपिणीं
श्रीशैल भ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ २ ॥

माद्यच्छुम्भनिशुम्भमेघपटलप्रध्वंस झञ्झानिलां
कौमारीं महिषाख्य शुष्कविटपी धूमोरुदावानलाम् ।
चक्राद्यायुधसङ्ग्रहोज्ज्वलकरां चामुण्डिकाधीश्वरीं
श्रीशैल भ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ २ ॥

दृक्कञ्जात विलासकल्पित सरोजातोरु शोभान्वितां
नक्षत्रेश्वर शेखरप्रियतमां देवीं जगन्मोहिनीम् ।
रञ्जन्मङ्गलदायिनीं शुभकरीं राजत्स्वरूपोज्ज्वलां
श्रीशैल भ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ ३ ॥

केलीमन्दिर राजताचलतलां सम्पूर्णचन्द्राननां
योगीन्द्रैर्नुतपादपङ्कजयुगां रत्नाम्बरालङ्कृताम् ।
स्वर्गावास सरोजपत्र नयनाभीष्टप्रदां निर्मलां
श्रीशैल भ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ ४ ॥

संसारार्णवतारकां भगवतीं दारिद्र्यविध्वंसिनीं
सन्ध्याताण्डवकेलिकां प्रियसतीं सद्भक्तकामप्रदाम् ।
शिञ्जन्नूपुरपादपङ्कजयुगां बिम्बाधरां श्यामलां
श्रीशैल भ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ ५ ॥

चञ्चत्काञ्चनरत्नचारुकटकां सर्वं सहावल्लभां
काञ्चीकाञ्चनघण्टिकाघणघणां कञ्जातपत्रेक्षणम् ।
आर्तत्राणपरायणां पुरहरप्राणेश्वरीं शाम्भवीं
श्रीशैल भ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ ६ ॥

स्वर्लोकेश्वरवन्द्यपादकमलां पङ्केरुहाक्षस्तुतां
प्रालेयाचलवंशपावनकरीं शृङ्गारभूषानिधिम् ।
तत्त्वातीतमहाप्रभां विजयिनीं दाक्षायिणीं भैरवीं
श्रीशैलभ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ ७ ॥

भ्रमराम्बामहादेव्याः अष्टकं सर्वसिद्धिदम् ।
नराणां सर्वशत्रूणां ध्वंसनं तद्वदाम्यहम् ॥ ८ ॥

इति श्रीदूर्वासविरचितं श्रीभ्रमराम्बाष्टकं सम्पूर्णम् ।

Also Read:

Sri Bhramarambika Ashtakam (Sri Kantarpita) Lyrics in English | Hindi |Kannada | Telugu | Tamil

Sri Bhramarambika Ashtakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top