Templesinindiainfo

Best Spiritual Website

Sri Brihaspathi Ashtottara Satanama Stotram Lyrics in Hindi

Sri Brihaspati Ashtottara Satanama Stotram in :

॥ श्री बृहस्पति अष्टोत्तरशतनाम स्तोत्रम् ॥
श्री बृहस्पति अष्टोत्तरशतनाम स्तोत्र

गुरुर्गुणवरो गोप्ता गोचरो गोपतिप्रियः
गुणी गुणवतांश्रेष्ठो गुरूणाङ्गुरुरव्ययः ॥ १ ॥

जेता जयन्तो जयदो जीवोऽनन्तो जयावहः
आङ्गीरसोऽध्वरासक्तो विविक्तोऽध्वरकृत्परः ॥ २ ॥

वाचस्पतिर्वशी वश्यो वरिष्ठो वाग्विचक्षणः
चित्तशुद्धिकरः श्रीमान् चैत्रः चित्रशिखण्डिजः ॥ ३ ॥

बृहद्रथो बृहद्भानुः बृहस्पतिरभीष्टदः
सुराचार्यः सुराराध्यः सुरकार्यहितङ्करः ॥ ४ ॥

गीर्वाणपोषको धन्यो गीष्पतिर्गिरिशोऽनघः
धीवरो धिषणो दिव्यभूषणो देवपूजितः ॥ ५ ॥

धनुर्धरो दैत्यहन्ता दयासारो दयाकरः
दारिद्र्यनाशको धन्यो दक्षिणायनसम्भवः ॥ ६ ॥

धनुर्मीनाधिपो देवो धनुर्बाणधरो हरिः
आङ्गीरसाब्जसञ्जातः आङ्गीरसकुलोद्भवः ॥ ७ ॥

सिन्धुदेशाधिपो धीमान् स्वर्णवर्णः चतुर्भुजः
हेमाङ्गदो हेमवपुर्हेमभूषणभूषितः ॥ ८ ॥

पुष्यनाथः पुष्यरागमणिमण्डलमण्डितः
काशपुष्पसमानाभः कलिदोषनिवारकः ॥ ९ ॥

इन्द्रादिदेवोदेवेशो देवताभीष्टदायकः
असमानबलः सत्त्वगुणसम्पद्विभासुरः ॥ १० ॥

भूसुराभीष्टदो भूरियशः पुण्यविवर्धनः
धर्मरूपो धनाध्यक्षो धनदो धर्मपालनः ॥ ११ ॥

सर्ववेदार्थतत्त्वज्ञः सर्वापद्विनिवारकः
सर्वपापप्रशमनः स्वमतानुगतामरः ॥ १२ ॥

ऋग्वेदपारगो ऋक्षराशिमार्गप्रचारकः
सदानन्दः सत्यसन्धः सत्यसङ्कल्पमानसः ॥ १३ ॥

सर्वागमज्ञः सर्वज्ञः सर्ववेदान्तविद्वरः
ब्रह्मपुत्रो ब्राह्मणेशो ब्रह्मविद्याविशारदः ॥ १४ ॥

समानाधिकनिर्मुक्तः सर्वलोकवशंवदः
ससुरासुरगन्धर्ववन्दितः सत्यभाषणः ॥ १५ ॥

नमः सुरेन्द्रवन्द्याय देवाचार्याय ते नमः
नमस्तेऽनन्तसामर्थ्य वेदसिद्धान्तपारगः ॥ १६ ॥

सदानन्द नमस्तेस्तु नमः पीडाहराय च
नमो वाचस्पते तुभ्यं नमस्ते पीतवाससे ॥ १७ ॥

नमोऽद्वितीयरूपाय लम्बकूर्चाय ते नमः
नमः प्रहृष्टनेत्राय विप्राणाम्पतये नमः ॥ १८ ॥

नमो भार्गवशिष्याय विपन्नहितकारिणे
नमस्ते सुरसैन्यानांविपत्तित्राणहेतवे ॥ १९ ॥

बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः
लोकत्रयगुरुः श्रीमान् सर्वगः सर्वतोविभुः ॥ २० ॥

सर्वेशः सर्वदातुष्टः सर्वदः सर्वपूजितः
अक्रोधनो मुनिश्रेष्ठो नीतिकर्ता जगत्पिता ॥ २१ ॥

विश्वात्मा विश्वकर्ता च विश्वयोनिरयोनिजः
भूर्भुवोधनदाता च भर्ताजीवो महाबलः ॥ २२ ॥

बृहस्पतिः काश्यपेयो दयावान् शुभलक्षणः
अभीष्टफलदः श्रीमान् शुभग्रह नमोस्तु ते ॥ २३ ॥

बृहस्पतिस्सुराचार्यो देवासुरसुपूजितः
आचार्योदानवारिश्च सुरमन्त्री पुरोहितः ॥ २४ ॥

कालज्ञः कालऋग्वेत्ता चित्तगश्च प्रजापतिः
विष्णुः कृष्णस्तदा सूक्ष्मः प्रतिदेवोज्ज्वलग्रहः ॥ २५ ॥

Also Read:

Sri Brihaspathi Ashtottara Satanama Stotram Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Brihaspathi Ashtottara Satanama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top