Templesinindiainfo

Best Spiritual Website

Sri Durga Stotram (Arjuna Krutam) Lyrics in Hindi

Sri Durga Stotram (Arjuna Krutam) in Hindi:

॥ श्री दुर्गा स्तोत्रम् (अर्जुन कृतं) ॥
अस्य श्री दुर्गास्तोत्र महामन्त्रस्य बदरी नारायण ऋषिः अनुष्टुप्छन्दः श्री दुर्गाख्या योग देवी देवता, मम सर्वाभीष्ट सिद्ध्यर्थे जपे विनियोगः ।

ओं ह्रीं दुं दुर्गायै नमः ॥

नमस्ते सिद्धसेनानि आर्ये मन्दरवासिनि ।
कुमारी काली कापालि कपिले कृष्णपिङ्गले ॥ १ ॥

भद्रकाली नमस्तुभ्यं महाकाली नमोऽस्तुते ।
चण्डी चण्डे नमस्तुभ्यं तारिणी वरवर्णिनी ॥ २ ॥

कात्यायनी महाभागे कराली विजये जये ।
शिखिपिञ्छध्वजधरे नानाभरणभूषिते ॥ ३ ॥

अट्टशूलप्रहरणे खड्गखेटकधारिणी ।
गोपेन्द्रस्यानुजे ज्येष्टे नन्दगोपकुलोद्भवे ॥ ४ ॥

महिषासृक्प्रिये नित्यं कौशिकी पीतवासिनी ।
अट्टहासे कोकमुखे नमस्तेऽस्तु रणप्रिये ॥ ५ ॥

उमे शाकम्बरी श्वेते कृष्णे कैटभनाशिनि ।
हिरण्याक्षी विरूपाक्षी सुधूम्राक्षी नमोऽस्तु ते ॥ ६ ॥

वेदश्रुति महापुण्ये ब्रह्मण्ये जातवेदसी ।
जम्बूकटकचैत्येषु नित्यं सन्निहितालये ॥ ७ ॥

त्वं ब्रह्मविद्याविद्यानां महानिद्रा च देहिनाम् ।
स्कन्दमातर्भगवति दुर्गे कान्तारवासिनि ॥ ८ ॥

स्वाहाकारा स्वधा चैव कला काष्ठा सरस्वती ।
सावित्री वेदमाता च तथा वेदान्त उच्यते ॥ ९ ॥

कान्तारभयदुर्गेषु भक्तानां चालयेषु च ।
नित्यं वससि पाताले युद्धे जयसि दानवान् ॥ १० ॥

त्वं जम्भनी मोहिनी च माया ह्रीः श्रीस्तथैव च ।
सन्ध्या प्रभावती चैव सावित्री जननी तथा ॥ ११ ॥

तुष्टिः पुष्टिर्धृतिर्दीप्तिश्चन्द्रादित्यविवर्धिनी ।
भूतिर्भूतिमतां सङ्ख्ये वीक्ष्यसे सिद्धचारणैः ॥ १२ ॥

स्तुतासि त्वं महादेवि विशुद्धेनान्तरात्मना ।
जयो भवतु मे नित्यं त्वत्प्रसादाद्रणाजिरे ॥ १३ ॥

Also Read:

Sri Durga Stotram (Arjuna Krutam) Lyrics in English | Hindi |Kannada | Telugu | Tamil

Sri Durga Stotram (Arjuna Krutam) Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top