Templesinindiainfo

Best Spiritual Website

Sri Ganapathi Geeta Lyrics in Sanskrit

Sri Ganapathi Geeta in Sanskrit:

॥ श्री गणपति गीता ॥
क्वप्रासूत कदा त्वां गौरी न प्रामाण्यं तव जनने ।
विप्राः प्राहुरजं गणराजं यः प्राचामपि पूर्वतनः ॥ १ ॥

नासिगणपते शङ्करात्मजो भासि तद्वदेवाखिलात्मक ।
ईशतातवानीशतानृणां केशवेरिता साशयोक्तिभिः ॥ २ ॥

गजमुखतावकमन्त्रमहिम्ना सृजति जगद्विधिरनुकल्पम् ।
भजति हरिस्तां तदवनकृत्ये यजति हरोपि विरामविधौ ॥ ३ ॥

सुखयति शतमखमुखसुरनिक रानखिलक्रतुविघ्नघ्नोयम् ।
निखिलजगज्जीवकजीवनदस्सखलु यतः पर्जन्यात्मा ॥ ४ ॥

प्रारंभे कार्याणां हेरम्बं यो ध्यायेत् ।
पारं यात्येवकृते रारादाप्नोति सुखम् ॥ ५ ॥

गौरीसूनोः पादांभोजे लीनाचेतो वृत्तिर्मे ।
घोरे संसारारण्येवा वासः कैलासेवास्तु ॥ ६ ॥

गुहगुरुपदयुगमनिशमभयदम् ।
वहसि मनसि यदि शमयसि दुरितम् ॥ ७ ॥

जय जय शङ्करवरसूनो भयहर भजतां गणराज ।
नयममचेतस्तवचरणं नियमम धर्मेन्तःकरणम् ॥ ८ ॥

चलसिचित्त किन्नु विषम विषयकानने
कलयवृत्ति ममृतदातृकरिवरानने ।
तुलयखेदमोदयुगलमिदमशाश्वतं
विलयभयमलङ्घ्यमेव जन्मनि स्मृतम् ॥ ९ ॥

सोमशेखरसूनवे सिन्दूरसोदरभानवे
यामिनीपतिमौलये यमिहृदयविरचितकेलये ।
मूषकाधिपगामिने मुख्यात्मनोन्तर्यामिने
मङ्गलं विघ्नद्विषे मत्तेभवक्त्रज्योतिषे ॥ १० ॥

अवधीरितदाडिमसुमसौभग-मवतुगणेशज्योति-
र्मामवतु गणेशज्योतिः ।
हस्तचतुष्टयधृतवरदाभय पुस्तकबीजापूरं
धृतपुस्तकबीजापूरम् ॥ ११ ॥

रजिताचलवप्रक्रीडोत्सुक गजराजास्यमुदारं,
भज श्री गजराजास्यमुदारम् ।
फणिपरिकृतकटिवलयाभरणं कृणुरे जनहृदि कारणं,
तव कृणुरे जनहृदिकारणम् ॥ १२ ॥

यः प्रगे गणराजमनुदिन-मप्रमेयमनुस्मरेत् ।
सप्रयाति पवित्रिताङ्गो विप्रगङ्गाद्यधिकताम् ॥ १३ ॥

सुब्रह्मण्यमनीषि विरचितात्वब्रह्मण्यमपाकुरुते ।
गणपतिगीता गानसमुचिता सम्यक्पठतां सिद्धान्तः ॥ १४ ॥

इति श्री सुब्रह्मण्ययोगि विरचिता श्री गणपति गीता ।

Also Read:

Sri Ganapathi Geeta Lyrics in English | Sanskrit | Kannada | Telugu | Tamil

Sri Ganapathi Geeta Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top