Templesinindiainfo

Best Spiritual Website

Sri Garbha Rakshambika Stotram Lyrics in Hindi

Garbha Rakshambika Stotram in Hindi:

॥ श्री गर्भरक्षाम्बिका स्तोत्रम् ॥

श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥

वापीतटे वामभागे
वामदेवस्य देवस्य देवि स्थिता त्वम् ।
मान्या वरेण्या वदान्या
पाहि गर्भस्थजन्तून् तथा भक्तलोकान् ॥ १ ॥

श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥

श्रीगर्भरक्षापुरे या
दिव्यसौन्दर्ययुक्ता सुमाङ्गल्यगात्री ।
धात्री जनित्री जनानां
दिव्यरूपां दयार्द्रां मनोज्ञां भजे त्वाम् ॥ २ ॥

श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥

आषाढमासे सुपुण्ये
शुक्रवारे सुगन्धेन गन्धेन लिप्ता ।
दिव्याम्बराकल्पवेषा
वाजपेयादियागस्थभक्तैः सुदृष्टा ॥ ३ ॥

श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥

कल्याणदात्रीं नमस्ये
वेदिकाढ्यस्त्रिया गर्भरक्षाकरीं त्वाम् ।
बालैस्सदा सेविताङ्घ्रिं
गर्भरक्षार्थमारादुपेतैरुपेताम् ॥ ४ ॥

श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥

ब्रह्मोत्सवे विप्रवीथ्यां
वाद्यघोषेण तुष्टां रथे सन्निविष्टाम् ।
सर्वार्थदात्रीं भजेऽहं
देववृन्दैरपीड्यां जगन्मातरं त्वाम् ॥ ५ ॥

श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥

एतत् कृतं स्तोत्ररत्नं
दीक्षितानन्तरामेण देव्याश्च तुष्ट्यै ।
नित्यं पठेद्यस्तु भक्त्या
पुत्रपौत्रादि भाग्यं भवेत्तस्य नित्यम् ॥ ६ ॥

श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥

इति श्रीअनन्तरामदीक्षितवर्य विरचितं गर्भरक्षाम्बिका स्तोत्रम् ॥

Also Read:

Garbha Rakshambika Stotram Lyrics in English | Hindi |Kannada | Telugu | Tamil

Sri Garbha Rakshambika Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top