Templesinindiainfo

Best Spiritual Website

Sri Ketu Stotram Lyrics in Hindi

Sri Ketu Kavacham in Hindi:

॥ श्री केतु स्तोत्रम् ॥
अस्य श्री केतुस्तोत्रमन्त्रस्य वामदेव ऋषिः । अनुष्टुप्छन्दः । केतुर्देवता । श्री केतु ग्रह प्रसादसिद्ध्यर्थे जपे विनियोगः ।

गौतम उवाच ।
मुनीन्द्र सूत तत्त्वज्ञ सर्वशास्त्रविशारद ।
सर्वरोगहरं ब्रूहि केतोः स्तोत्रमनुत्तमम् ॥ १ ॥

सूत उवाच ।
शृणु गौतम वक्ष्यामि स्तोत्रमेतदनुत्तमम् ।
गुह्याद्गुह्यतमं केतोः ब्रह्मणा कीर्तितं पुरा ॥ २ ॥

आद्यः करालवदनो द्वितीयो रक्तलोचनः ।
तृतीयः पिङ्गलाक्षश्च चतुर्थो ज्ञानदायकः ॥ ३ ॥

पञ्चमः कपिलाक्षश्च षष्ठः कालाग्निसन्निभः ।
सप्तमो हिमगर्भश्च धूम्रवर्णोष्टमस्तथा ॥ ४ ॥

नवमः कृत्तकण्ठश्च दशमः नरपीठगः ।
एकादशस्तु श्रीकण्ठः द्वादशस्तु गदायुधः ॥ ५ ॥

द्वादशैते महाक्रूराः सर्वोपद्रवकारकाः ।
पर्वकाले पीडयन्ति दिवाकरनिशाकरौ ॥ ६ ॥

नामद्वादशकं स्तोत्रं केतोरेतन्महात्मनः ।
पठन्ति येऽन्वहं भक्त्या तेभ्यः केतुः प्रसीदति ॥ ७ ॥

कुलुक्थधान्ये विलिखेत् षट्कोणं मण्डलं शुभम् ।
पद्ममष्टदलं तत्र विलिखेच्च विधानतः ॥ ८ ॥

नीलं घटं च संस्थाप्य दिवाकरनिशाकरौ ।
केतुं च तत्र निक्षिप्य पूजयित्वा विधानतः ॥ ९ ॥

स्तोत्रमेतत्पठित्वा च ध्यायन् केतुं वरप्रदम् ।
ब्राह्मणं श्रोत्रियं शान्तं पूजयित्वा कुटुम्बिनम् ॥ १० ॥

केतोः करालवक्त्रस्य प्रतिमां वस्त्रसम्युताम् ।
कुम्भादिभिश्च सम्युक्तां चित्रातारे प्रदापयेत् ॥ ११ ॥

दानेनानेन सुप्रीतः केतुः स्यात्तस्य सौख्यदः ।
वत्सरं प्रयता भूत्वा पूजयित्वा विधानतः ॥ १२ ॥

मूलमष्टोत्तरशतं ये जपन्ति नरोत्तमाः ।
तेषां केतुप्रसादेन न कदाचिद्भयं भवेत् ॥ १३ ॥

इति केतुस्तोत्रं सम्पूर्णम् ।

Also Read:

Sri Ketu Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Ketu Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top