Templesinindiainfo

Best Spiritual Website

Sri Krishna Dvadashanama Stotram Lyrics in Hindi

Sri Krishna Dvadashanama Stotram in Hindi:

॥ श्री कृष्ण द्वादशनाम स्तोत्रम् ॥

शृणुध्वं मुनयस्सर्वे गोपालस्य महात्मनः ।
अनन्तस्याप्रमेयस्य नामद्वादशकस्त्ववम् ॥ १ ॥

अर्जुनाय पुरा गीतं गोपालेन महात्मना ।
द्वारकायां प्रार्थयते यशोदायाश्च सन्निधौ ॥ २ ॥

अस्य श्री कृष्णदिव्यद्वादशनामस्तोत्र महामन्त्रस्य फल्गुन ऋषिः – अनुष्टुप्छन्दः – परमात्मा देवता – ओं बीजं – स्वाहायेति शक्तिः – श्री गोपालकृष्णप्रीत्यर्थे जपे विनियोगः ॥ ३ ॥

जानुभ्यामपि धावन्तं बाहुभ्यामतिसुन्दरं ।
सकुण्डलालकं बालं गोपालं चिन्तयेदुषः ॥ ४ ॥

प्रथमं तु हरिं वन्द्याद्द्वितीयं केशवं तथा ।
तृतीयं पद्मनाभं च चतुर्थं वामनं तथा ॥ ५ ॥

पञ्चमं वेदगर्भं तु षष्ठं च मधुसूदनम् ।
सप्तमं वासुदेवं च वराहं चाऽष्टमं तथा ॥ ६ ॥

नवमं पुण्डरीकाक्षं दशमं तु जनार्दनम् ।
कृष्णमेकादशं प्रोक्तं द्वादशं श्रीधरं तथा ॥ ७ ॥

एताद्द्वादश नामानि मया प्रोक्तानि फल्गुन ।
कालत्रयं पठेद्यस्तु तस्य पुण्यफलं शृणु ॥ ८ ॥

चान्द्रायणसहस्रस्य कन्यादानशतस्य च ।
अश्वमेधसहस्रस्य फलमाप्नोति मानवः ॥ ९ ॥

Also Read:

Sri Krsna Dvadasanama Stotram Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Krishna Dvadashanama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top