Templesinindiainfo

Best Spiritual Website

Sri Lalitha Trisati Stotram Lyrics in Hindi

Sri Lalitha Trisati Stotram in Hindi:

॥ श्री ललिता त्रिशती स्तोत्रम् ॥
श्री ललिता त्रिशती स्तोत्र

सूत उवाच-
अस्य श्रीललितात्रिशतीस्तोत्रमहामन्त्रस्य – भगवान् हयग्रीवऋषिः – अनुष्टुप् छन्दः श्रीललितामहात्रिपुरसुन्दरी देवता – ऐं बीजं – सौः शक्तिः – क्लीं कीलकं – मम चतुर्विध पुरुषार्थफलसिद्ध्यर्थे जपे विनियोगः ।
ऐमित्यादिभिरङ्गन्यासकरन्यासाः कार्याः ।

ध्यानम्-
अतिमधुरचापहस्ताम् अपरिमितामोदबाणसौभाग्याम् ।
अरुणामतिशयकरुणाम् अभिनवकुलसुन्दरीं वन्दे ।

श्री हयग्रीव उवाच-
ककाररूपा कल्याणी कल्याणगुणशालिनी ।
कल्याणशैलनिलया कमनीया कलावती ॥ १ ॥

कमलाक्षी कल्मषघ्नी करुणामृतसागरा ।
कदम्बकाननावासा कदम्बकुसुमप्रिया ॥ २ ॥

कन्दर्पविद्या कन्दर्पजनकापाङ्गवीक्षणा ।
कर्पूरवीटिसौरभ्यकल्लोलितककुप्तटा ॥ ३ ॥

कलिदोषहरा कञ्जलोचना कम्रविग्रहा ।
कर्मादिसाक्षिणी कारयित्री कर्मफलप्रदा ॥ ४ ॥

एकाररूपा चैकाक्षर्येकानेकाक्षराकृतिः ।
एतत्तदित्यनिर्देश्या चैकानन्दचिदाकृतिः ॥ ५ ॥

एवमित्यागमाबोध्या चैकभक्तिमदर्चिता ।
एकाग्रचित्तनिर्ध्याता चैषणारहिताद्दृता ॥ ६ ॥

एलासुगन्धिचिकुरा चैनःकूटविनाशिनी ।
एकभोगा चैकरसा चैकैश्वर्यप्रदायिनी ॥ ७ ॥

एकातपत्रसाम्राज्यप्रदा चैकान्तपूजिता ।
एधमानप्रभा चैजदनेजज्जगदीश्वरी ॥ ८ ॥

एकवीरदिसंसेव्या चैकप्राभवशालिनी ।
ईकाररूपा चेशित्री चेप्सितार्थप्रदायिनी ॥ ९ ॥

ईद्दृगित्यविनिर्देश्या चेश्वरत्वविधायिनी ।
ईशानादिब्रह्ममयी चेशित्वाद्यष्टसिद्धिदा ॥ १० ॥

ईक्षित्रीक्षणसृष्टाण्डकोटिरीश्वरवल्लभा ।
ईडिता चेश्वरार्धाङ्गशरीरेशाधिदेवता ॥ ११ ॥

ईश्वरप्रेरणकरी चेशताण्डवसाक्षिणी ।
ईश्वरोत्सङ्गनिलया चेतिबाधाविनाशिनी ॥ १२ ॥

ईहाविराहिता चेशशक्तिरीषत्स्मितानना ।
लकाररूपा ललिता लक्ष्मीवाणीनिषेविता ॥ १३ ॥

लाकिनी ललनारूपा लसद्दाडिमपाटला ।
ललन्तिकालसत्फाला ललाटनयनार्चिता ॥ १४ ॥

लक्षणोज्ज्वलदिव्याङ्गी लक्षकोट्यण्डनायिका ।
लक्ष्यार्था लक्षणागम्या लब्धकामा लतातनुः ॥ १५ ॥

ललामराजदलिका लम्बमुक्तालताञ्चिता ।
लम्बोदरप्रसूर्लभ्या लज्जाढ्या लयवर्जिता ॥ १६ ॥

ह्रीङ्काररूपा ह्रीङ्कारनिलया ह्रीम्पदप्रिया ।
ह्रीङ्कारबीजा ह्रीङ्कारमन्त्रा ह्रीङ्कारलक्षणा ॥ १७ ॥

ह्रीङ्कारजपसुप्रीता ह्रींमती ह्रींविभूषणा ।
ह्रींशीला ह्रीम्पदाराध्या ह्रीङ्गर्भा ह्रीम्पदाभिधा ॥ १८ ॥

ह्रीङ्कारवाच्या ह्रीङ्कारपूज्या ह्रीङ्कारपीठिका ।
ह्रीङ्कारवेद्या ह्रीङ्कारचिन्त्या ह्रीं ह्रींशरीरिणी ॥ १९ ॥

हकाररूपा हलधृत्पूजिता हरिणेक्षणा ।
हरप्रिया हराराध्या हरिब्रह्मेन्द्रवन्दिता ॥ २० ॥

हयारूढासेविताङ्घ्रिः हयमेधसमर्चिता ।
हर्यक्षवाहना हंसवाहना हतदानवा ॥ २१ ॥

हत्यादिपापशमनी हरिदश्वादिसेविता ।
हस्तिकुम्भोत्तुङ्गकुचा हस्तिकृत्तिप्रियाङ्गना ॥ २२ ॥

हरिद्राकुङ्कुमादिग्धा हर्यश्वाद्यमरार्चिता ।
हरिकेशसखी हादिविद्या हालामदालसा ॥ २३ ॥

सकाररूपा सर्वज्ञा सर्वेशी सर्वमङ्गला ।
सर्वकर्त्री सर्वभर्त्री सर्वहन्त्री सनातनी ॥ २४ ॥

सर्वानवद्या सर्वाङ्गसुन्दरी सर्वसाक्षिणी ।
सर्वात्मिका सर्वसौख्यदात्री सर्वविमोहिनी ॥ २५ ॥

सर्वाधारा सर्वगता सर्वावगुणवर्जिता ।
सर्वारुणा सर्वमाता सर्वाभूषणभूषिता ॥ २६ ॥

ककारार्था कालहन्त्री कामेशी कामितार्थदा ।
कामसञ्जीविनी कल्या कठिनस्तनमण्डला ॥ २७ ॥

करभोरुः कलानाथमुखी कचजिताम्बुदा ।
कटाक्षस्यन्दिकरुणा कपालिप्राणनायिका ॥ २८ ॥

कारुण्यविग्रहा कान्ता कान्तिधूतजपावलिः ।
कलालापा कम्बुकण्ठी करनिर्जितपल्लवा ॥ २९ ॥

कल्पवल्लीसमभुजा कस्तूरीतिलकाञ्चिता ।
हकारार्था हंसगतिः हाटकाभरणोज्ज्वला ॥ ३० ॥

हारहारिकुचाभोगा हाकिनी हल्यवर्जिता ।
हरित्पतिसमाराध्या हठात्कारहतासुरा ॥ ३१ ॥

हर्षप्रदा हविर्भोक्त्री हार्दसन्तमसापहा ।
हल्लीसलास्यसन्तुष्टा हंसमन्त्रार्थरूपिणी ॥ ३२ ॥

हानोपादाननिर्मुक्ता हर्षिणी हरिसोदरी ।
हाहाहूहूमुखस्तुत्या हानिवृद्धिविवर्जिता ॥ ३३ ॥

हय्यङ्गवीनहृदया हरिकोपारुणांशुका ।
लकाराख्या लतापूज्या लयस्थित्युद्भवेश्वरी ॥ ३४ ॥

लास्यदर्शनसन्तुष्टा लाभालाभविवर्जिता ।
लङ्घ्येतराज्ञा लावण्यशालिनी लघुसिद्धिदा ॥ ३५ ॥

लाक्षारससवर्णाभा लक्ष्मणाग्रजपूजिता ।
लभ्येतरा लब्धभक्तिसुलभा लाङ्गलायुधा ॥ ३६ ॥

लग्नचामरहस्तश्रीशारदापरिवीजिता ।
लज्जापदसमाराध्या लम्पटा लकुलेश्वरी ॥ ३७ ॥

लब्धमाना लब्धरसा लब्धसम्पत्समुन्नतिः ।
ह्रीङ्कारिणी ह्रीङ्कारादि-र्ह्रींमध्या ह्रींशिखामणिः ॥ ३८ ॥

ह्रीङ्कारकुण्डाग्निशिखा ह्रीङ्कारशशिचन्द्रिका ।
ह्रीङ्कारभास्कररुचिः ह्रीङ्काराम्भोदचञ्चला ॥ ३९ ॥

ह्रीङ्कारकन्दाङ्कुरिका ह्रीङ्कारैकपरायणा ।
ह्रीङ्कारदीर्घिकाहंसी ह्रीङ्कारोद्यानकेकिनी ॥ ४० ॥

ह्रीङ्कारारण्यहरिणी ह्रीङ्कारावालवल्लरी ।
ह्रीङ्कारपञ्जरशुकी ह्रीङ्काराङ्गणदीपिका ॥ ४१ ॥

ह्रीङ्कारकन्दरासिंही ह्रीङ्काराम्भोजभृङ्गिका ।
ह्रीङ्कारसुमनोमाध्वी ह्रीङ्कारतरुमञ्जरी ॥ ४२ ॥

सकाराख्या समरसा सकलागमसंस्तुता ।
सर्ववेदान्ततात्पर्यभूमिः सदसदाश्रया ॥ ४३ ॥

सकला सच्चिदानन्दा साध्या सद्गतिदायिनी ।
सनकादिमुनिध्येया सदाशिवकुटुम्बिनी ॥ ४४ ॥

सकालाधिष्ठानरूपा सत्यरूपा समाकृतिः ।
सर्वप्रपञ्चनिर्मात्री समनाधिकवर्जिता ॥ ४५ ॥

सर्वोत्तुङ्गा सङ्गहीना सद्गुणा सकलेष्टदा ।
ककारिणी काव्यलोला कामेश्वरमनोहरा ॥ ४६ ॥

कामेश्वरप्राणनाडी कामेशोत्सङ्गवासिनी ।
कामेश्वरालिङ्गिताङ्गी कामेश्वरसुखप्रदा ॥ ४७ ॥

कामेश्वरप्रणयिनी कामेश्वरविलासिनी ।
कामेश्वरतपस्सिद्धिः कामेश्वरमनःप्रिया ॥ ४८ ॥

कामेश्वरप्राणनाथा कामेश्वरविमोहिनी ।
कामेश्वरब्रह्मविद्या कामेश्वरगृहेश्वरी ॥ ४९ ॥

कामेश्वराह्लादकरी कामेश्वरमहेश्वरी ।
कामेश्वरी कामकोटिनिलया काङ्क्षितार्थदा ॥ ५० ॥

लकारिणी लब्धरूपा लब्धधीर्लब्धवाञ्चिता ।
लब्धपापमनोदूरा लब्धाहङ्कारदुर्गमा ॥ ५१ ॥

लब्धशक्तिर्लब्धदेहा लब्धैश्वर्यसमुन्नतिः ।
लब्धबुद्धिर्लब्धलीला लब्धयौवनशालिनी ॥ ५२ ॥

लब्धातिशयसर्वाङ्गसौन्दर्या लब्धविभ्रमा ।
लब्धरागा लब्धगतिर्लब्धनानागमस्थितिः ॥ ५३ ॥

लब्धभोगा लब्धसुखा लब्धहर्षाभिपूजिता ।
ह्रीङ्कारमूर्ति-र्ह्रीङ्कारसौधशृङ्गकपोतिका ॥ ५४ ॥

ह्रीङ्कारदुग्धाब्धिसुधा ह्रीङ्कारकमलेन्दिरा ।
ह्रीङ्कारमणिदीपार्चिः ह्रीङ्कारतरुशारिका ॥ ५५ ॥

ह्रीङ्कारपेटकमणिः ह्रीङ्कारादर्शबिम्बिका ।
ह्रीङ्कारकोशासिलता ह्रीङ्कारास्थाननर्तकी ॥ ५६ ॥

ह्रीङ्कारशुक्तिकामुक्तामणि-र्ह्रीङ्कारबोधिता ।
ह्रीङ्कारमयसौवर्णस्तम्भविद्रुमपुत्रिका ॥ ५७ ॥

ह्रीङ्कारवेदोपनिषद् ह्रीङ्काराध्वरदक्षिणा ।
ह्रीङ्कारनन्दनारामनवकल्पकवल्लरी ॥ ५८ ॥

ह्रीङ्कारहिमवद्गङ्गा ह्रीङ्कारार्णवकौस्तुभा ।
ह्रीङ्कारमन्त्रसर्वस्वा ह्रीङ्कारपरसौख्यदा ॥ ५९ ॥

Also Read:

Sri Lalitha Trisati Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Lalitha Trisati Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top