Templesinindiainfo

Best Spiritual Website

Sri Mangala Chandika Stotram Lyrics in Hindi

Sri Mangala Chandika Stotram in Hindi:

॥ श्री मङ्गलचण्डिका स्तोत्रम् ॥
ओं ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके ।
ऐं क्रूं फट् स्वाहेत्येवं चाप्येकविंशाक्षरो मनुः ॥ २० ॥

पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः ।
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ॥ २१ ॥

मन्त्रसिद्धिर्भवेद् यस्य स विष्णुः सर्वकामदः ।
ध्यानम् च श्रूयतां ब्रह्मन् वेदोक्तं सर्व सम्मतम् ॥ २२।

देवीं षोडशवर्षीयां शश्वत् सुस्थिरयौवनाम् ।
सर्वरूपगुणाढ्यां च कोमलाङ्गीं मनोहराम् ॥ २३ ॥

श्वेतचम्पक वर्णाभां चन्द्रकोटिसमप्रभाम् ।
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥ २४ ॥

बिभ्रन्तीं कबरीभारं मल्लिकामाल्यभूषितम् ।
बिम्बोष्टिं सुदतीं शुद्धां शरत्पद्मनिभाननाम् ॥ २५ ॥

ईषद्धास्यप्रसन्नास्यां सुनीलोल्पललोचनाम् ।
जगद्धात्रीञ्च दात्रीञ्च सर्वेभ्यः सर्वसम्पदाम् ॥ २६ ॥

संसारसागरे घोरे पीतरुपां वरां भजे ॥ २७ ॥

देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने ।

प्रयतः सङ्कटग्रस्तो येन तुष्टाव शङ्करः ॥ २८ ॥

शङ्कर उवाच ।

रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके ।
हारिके विपदां राशेर्हर्षमङ्गलकारिके ॥ २९ ॥

हर्षमङ्गलदक्षे च हर्षमङ्गलदायिके ।
शुभे मङ्गलदक्षे च शुभे मङ्गलचण्डिके ॥ ३० ॥

मङ्गले मङ्गलार्हे च सर्वमङ्गलमङ्गले ।
सतां मङ्गलप्रदे देवि सर्वेषां मङ्गलालये ॥ ३१ ॥

पूज्ये मङ्गलवारे च मङ्गलाभीष्टदैवते ।
पूज्ये मङ्गलभूपस्य मनुवंशस्य सन्ततम् ॥ ३२ ॥

मङ्गलाधिष्टातृदेवि मङ्गलानां च मङ्गले ।
संसार मङ्गलाधारे मोक्षमङ्गलदायिनि ॥ ३३ ॥

सारे च मङ्गलाधारे पारे च सर्वकर्मणाम् ।
प्रतिमङ्गलवारे च पूज्ये दुर्गे सुखप्रदे ॥

स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् ।
प्रतिमङ्गलवारे च पूजां कृत्वागतः शिवः ॥ ३५ ॥

प्रथमे पूजिता देवी शिवेन सर्वमङ्गला ।
द्वितीये पूजिता सा च मङ्गलेन ग्रहेन च ॥

तृतीये पूजिता भद्रा मङ्गलेन गृहेण च ।
चतुर्थे मङ्गलेवारे सुन्दरीभिः प्रपूजिता ॥

पञ्चमे मङ्गलाकाङ्क्षी नरैर्मङ्गलचण्डिका ।
पूजिता प्रतिविश्वेषु विश्वेश पूजिता सदा ॥

ततः सर्वत्र सम्पूज्या बभूव परमेश्वरी
देवैश्च मुनिभिश्चैव मानवैर्मनुभिर्मुनेः ।

देव्याश्च मङ्गलस्तोत्रं यः शृणोति समाहितः ।
तन्मङ्गलं भवेत्तस्य न भवेत् तदमङ्गलम् ॥ ३६ ॥

इति मङ्गलचण्डिका स्तोत्रं ।

Also Read:

Sri Mangala Chandika Stotram Lyrics in English | Hindi |Kannada | Telugu | Tamil

Sri Mangala Chandika Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top