Templesinindiainfo

Best Spiritual Website

Sri Shani Kavacham Lyrics in Hindi

Sri Sani Kavacham in Hindi:

॥ श्री शनि कवचम् ॥
ओं अस्य श्री शनैश्चर कवच स्तोत्रमहामन्त्रस्य काश्यप ऋषिः, अनुष्टुप्चन्दः, शनैश्चरो देवता, शं बीजं, वां शक्तिः यं कीलकं, मम शनैश्चरकृतपीडापरिहारार्थे जपे विनियोगः ॥

करन्यासः ॥

शां अङ्गुष्ठाभ्यां नमः ।
शीं तर्जनीभ्यां नमः ।
शूं मध्यमाभ्यां नमः ।
शैं अनामिकाभ्य़ां नमः ।
शौं कनिष्ठिकाभ्यां नमः ।
शः करतलकरपृष्ठाभ्यां नमः ॥

अङ्गन्य़ासः ॥

शां हृदयाय नमः ।
शीं शिरसे स्वाहा ।
शूं शीखायै वषट् ।
शैं कवचाय़ हुं ।
शौं नेत्रत्रयाय वौषट् ।
शः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम् ॥

चतुर्भुजं शनिं देवं चापतूणी कृपाणकं ।
वरदं भीमदम्ष्ट्रं च नीलाङ्गं वरभूषणं ।
नीलमाल्यानुलेपं च नीलरत्नैरलङ्कृतं ।
ज्वालोर्ध्व मकुटाभासं नीलगृध्र रथावहं ।
मेरुं प्रदक्षिणं कृत्वा सर्वलोकभयावहं ।
कृष्णाम्बरधरं देवं द्विभुजं गृध्रसंस्थितं ।
सर्वपीडाहारं नॄणां ध्यायेद्ग्रहगणोत्तमम् ॥

अथ कवचम् ॥

शनैश्चरः शिरो रक्षेत् मुखं भक्तार्तिनाशनः ।
कर्णौ कृष्णाम्बरः पातु नेत्रे सर्वभयङ्करः ।
कृष्णाङ्गो नासिकां रक्षेत् कर्णौ मे च शिखण्डिजः ।
भुजौ मे सुभुजः पातु हस्तौ नीलोत्पलप्रभः ।
पातु मे हृदयं कृष्णः कुक्षिं शुष्कोदरस्तथा ।
कटिं मे विकटः पातु ऊरू मे घोररूपवान् ।
जानुनी पातु दीर्घो मे जङ्घे मे मङ्गलप्रदः ।
गुल्फौ गुणाकरः पातु पादौ मे पङ्गुपादकः ।
सर्वाणि च ममाङ्गानि पातु भास्करनन्दनः ।

फलश्रुतिः ॥

य इदं कवचं दिव्यं सर्वपीडाहरं नृणां ।
पठति श्रद्दयाय़ुक्तः सर्वान् कामानवाप्नुयात् ॥

इति श्रीपद्म पुराणे शनैश्चर कवचम् ॥

Also Read:

Sri Shani Kavacham Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Shani Kavacham Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top