Templesinindiainfo

Best Spiritual Website

Sri Shankaracharya Varyam Lyrics in Hindi

Sri Shankaracharya Varyam in Hindi:

॥ श्री शङ्कराचार्य स्तवः (श्रीशङ्कराचार्यवर्यं) ॥
श्रीशङ्कराचार्यवर्यं
सर्वलोकैकवन्द्यं भजे देशिकेन्द्रम् ।

धर्मप्रचारेऽतिदक्षं
योगिगोविन्दपादाप्तसन्यासदीक्षम् ।
दुर्वादिगर्वापनोदं
पद्मपादादिशिष्यालिसंसेव्यपादम् ॥ १ ॥

शङ्काद्रिदम्भोलिलीलं
किङ्कराशेषशिष्यालि सन्त्राणशीलम् ।
बालार्कनीकाशचेलं
बोधिताशेषवेदान्त गूढार्थजालम् ॥ २ ॥

रुद्राक्षमालाविभूषं
चन्द्रमौलीश्वराराधनावाप्ततोषम् ।
विद्राविताशेषदोषं
भद्रपूगप्रदं भक्तलोकस्य नित्यम् ॥ ३ ॥

पापाटवीचित्रभानुं
ज्ञानदीपेन हार्दं तमो वारयन्तम् ।
द्वैपायनप्रीतिभाजं
सर्वतापापहामोघबोधप्रदं तम् ॥ ४ ॥

राजाधिराजाभिपूज्यं
रम्यशृङ्गाद्रिवासैकलोलं यतीड्यम् ।
राकेन्दुसङ्काशवक्त्रं
रत्नगर्भेभवक्त्राङ्घ्रिपूजानुरक्तम् ॥ ५ ॥

श्रीभारतीतीर्थगीतं
शङ्करार्यस्तवं यः पठेद्भक्तियुक्तः ।
सोऽवाप्नुयात्सर्वमिष्टं
शङ्कराचार्यवर्यप्रसादेन तूर्णम् ॥ ६ ॥

इति श्रीश्री भारतीतीर्थ महास्वामि कृत श्री शङ्कराचार्य स्तवः ।

Also Read:

Sri Shankaracharya Varyam Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Shankaracharya Varyam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top