Templesinindiainfo

Best Spiritual Website

Sri Shiva Pratipadana Stotram Lyrics in Sanskrit

Shri Shiva Pratipadana Stotram in Sanskrit:

॥ श्री शिव प्रतिपादन स्तोत्रम् ॥
नमस्ते सर्वलोकानां सृष्टिस्थित्यन्तकारण ।
नमस्ते भवभीतानां भवभीतिविमर्दन ॥ १ ॥

नमस्ते वेदवेदान्तैरर्चनीय द्विजोत्तमैः ।
नमस्ते शूलहस्ताय नमस्ते वह्निपाणये ॥ २ ॥

नमस्ते विश्वनाथाय नमस्ते विश्वयोनये ।
नमस्ते नीलकण्ठाय नमस्ते कृत्तिवाससे ॥ ३ ॥

नमस्ते सोमरूपाय नमस्ते सूर्यमूर्तये ।
नमस्ते वह्निरूपाय नमस्ते तोयमूर्तये ॥ ४ ॥

नमस्ते भूमिरूपाय नमस्ते वायुमूर्तये ।
नमस्ते व्योमरूपाय नमस्ते ह्यात्मरूपिणे ॥ ५ ॥

नमस्ते सत्यरूपय नमस्ते सत्यरूपिणे ।
नमस्ते सुखरूपय नमस्ते सुखिरूपिणे ॥ ६ ॥

नमस्ते पूर्णरूपाय नमस्ते पूर्णरूपिणे ।
नमस्ते ब्रह्मरूपाय नमस्ते ब्रह्मरूपिणे ॥ ७ ॥

नमस्ते जीवरूपाय नमस्ते जीवरूपिणे ।
नमस्ते व्यक्तरूपाय नमस्ते व्यक्तरूपिणे ॥ ८ ॥

नमस्ते शब्दरूपाय नमस्ते शब्दरूपिणे ।
नमस्ते स्पर्शरूपाय नमस्ते स्पर्शरूपिणे ॥ ९ ॥

नमस्ते रूपरूपाय नमस्ते रूपरूपिणे ।
नमस्ते रसरूपाय नमस्ते रसरूपिणे ॥ १० ॥

नमस्ते गन्धरूपाय नमस्ते गन्धरूपिणे ।
नमस्ते देहरूपाय नमस्ते देहरूपिणे ॥ ११ ॥

नमस्ते प्राणरूपाय नमस्ते प्राणरूपिणे ।
नमस्ते श्रोत्ररूपाय नमस्ते श्रोत्ररूपिणे ॥ १२ ॥

नमस्ते त्वक्स्वरूपाय नमस्ते त्वक्स्वरूपिणे ।
नमस्ते चक्षुरूपाय नमस्ते चक्षुरूपिणे ॥ १३ ॥

नमस्ते रसरूपाय नमस्ते रसरूपिणे ।
नमस्ते घ्राणरूपाय नमस्ते घ्राणरूपिणे ॥ १४ ॥

नमस्ते पादरूपाय नमस्ते पादरूपिणे ।
नमस्ते पाणिरूपाय नमस्ते पाणिरूपिणे ॥ १५ ॥

नमस्ते वाक्स्वरूपाय नमस्ते वाक्स्वरूपिणे ।
नमस्ते लिङ्गरूपाय नमस्ते लिङ्गरूपिणे ॥ १६ ॥

नमस्ते वायुरूपाय नमस्ते वायुरूपिणे ।
नमस्ते चित्तरूपाय नमस्ते चित्तरूपिणे ॥ १७ ॥

नमस्ते मातृरूपाय नमस्ते मातृरूपिणे ।
नमस्ते मानरूपाय नमस्ते मानरूपिणे ॥ १८ ॥

नमस्ते मेयरूपाय नमस्ते मेयरूपिणे ।
नमस्ते मितिरूपाय नमस्ते मितिरूपिणे ॥ १९ ॥

रक्ष रक्ष महादेव क्षमस्व करुणालय ।
भक्तचित्त समासीन ब्रह्म विष्णु शिवात्मक ॥ २० ॥

सूत ब्रह्मादयः स्तुत्वा प्रणम्य भुवि दण्डवत् ।
भक्तिपारं गता देवा बभूवुः परमेश्वरे ॥ २१ ॥

इति श्रीस्कान्देमहापुराणे नन्दीश्वरविष्णुसंवादे श्री शिवप्रतिपादन स्तोत्रम् ।

Also Read:

Sri Shiva Pratipadana Stotram Lyrics in Sanskrit | English |  Kannada | Telugu | Tamil

Sri Shiva Pratipadana Stotram Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top