Templesinindiainfo

Best Spiritual Website

Sri Sita Ashtottara Shatanama Stotram Lyrics in Hindi

Sri Sita Ashtottara Shatanama Stotram in Hindi:

॥ श्री सीता अष्टोत्तरशतनाम स्तोत्रम् ॥
अगस्त्य उवाच ।
एवं सुतीक्ष्ण सीतायाः कवचं ते मयेरितम् ।
अतः परं श्रुणुष्वान्यत् सीतायाः स्तोत्रमुत्तमम् ॥ १ ॥

यस्मिनष्टोत्तरशतं सीता नामानि सन्ति हि ।
अष्टोत्तरशतं सीता नाम्नां स्तोत्रमनुत्तमम् ॥ २ ॥

ये पठन्ति नरास्त्वत्र तेषां च सफलो भवः ।
ते धन्या मानवा लोके ते वैकुण्ठं व्रजन्ति हि ॥ ३

न्यासः –
अस्य श्री सीतानामाष्टोत्तर शतमन्त्रस्य, अगस्त्य ऋषिः, अनुष्टुप् छन्दः, रमेति बीजं, मातुलिङ्गीति शक्तिः, पद्माक्षजेति कीलकं, अवनिजेत्यस्त्रं, जनकजेति कवचं , मूलकासुरमर्दिनीति परमो मन्त्रः, श्री सीतारामचन्द्र प्रीत्यर्थं सकल कामना सिद्ध्यर्थं जपे विनियोगः ॥

करन्यासः ।
ओं सीतायै अङ्गुष्ठाभ्यां नमः ।
ओं रमायै तर्जनीभ्यां नमः ।
ओं मातुलिङ्ग्यै मध्यमाभ्यां नमः ।
ओं पद्माक्षजायै अनामिकाभ्यां नमः ।
ओं अवनिजायै कनिष्ठिकाभ्यां नमः ।
ओं जनकजायै करतल करपृष्ठाभ्यां नमः ॥

अङ्गन्यासः ।
ओं सीतायै हृदयाय नमः ।
ओं रमायै शिरसे स्वाहा ।
ओं मातुलिङ्ग्यै शिखायै वषट् ।
ओं पद्माक्षजायै नेत्रत्रयाय वौषट् ।
ओं जनकात्मजायै अस्त्राय फट् ।
ओं मूलकासुरमर्दिन्यै इति दिग्बन्धः ॥

ध्यानम् ।
वामाङ्गे रघुनायकस्य रुचिरे या संस्थिता शोभना
या विप्राधिप यान रम्य नयना या विप्रपालानना ।
विद्युत्पुञ्जविराजमान वसना भक्तार्ति सङ्खण्डना
श्रीमद्राघवपादपद्मयुगल न्यस्तेक्षणा सावतु ॥

स्तोत्रम् ।
श्री सीता जानकी देवी वैदेही राघवप्रिया ।
रमाऽवनिसुता रामा राक्षसान्तप्रकारिणी ॥ १ ॥

रत्नगुप्ता मातुलिङ्गी मैथिली भक्ततोषदा ।
पद्माक्षजा कञ्जनेत्रा स्मितास्या नूपुरस्वना ॥ २ ॥

वैकुण्ठनिलया माया श्रीः मुक्तिदा कामपूरणी ।
नृपात्मजा हेमवर्णा मृदुलाङ्गी सुभाषिणी ॥ ३ ॥

कुशाम्बिका दिव्यदा च लवमाता मनोहरा ।
हनूमद्वन्दितपदा मुग्धा केयूरधारिणी ॥ ४ ॥

अशोकवनमध्यस्था रावणादिकमोहिनी ।
विमानसंस्थिता सुभ्रूः सुकेशी रशनान्विता ॥ ५ ॥

रजोरूपा सत्त्वरूपा तामसी वह्निवसिनी ।
हेममृगासक्तचित्ता वाल्मीकाश्रमवासिनी ॥ ६ ॥

पतिव्रता महामाया पीतकौशेयवासिनी ।
मृगनेत्रा च बिम्बोष्ठी धनुर्विद्याविशारदा ॥ ७ ॥

सौम्यरूपा दशरथस्नुषा चामरवीजिता ।
सुमेधा दुहिता दिव्यरूपा त्रैलोक्यपालिनी ॥ ८ ॥

अन्नपूर्णा महालक्ष्मीः धीर्लज्जा च सरस्वती ।
शान्तिः पुष्टिः शमा गौरी प्रभाऽयोध्यानिवासिनी ॥ ९ ॥

वसन्तशीतला गौरी स्नानसन्तुष्टमानसा ।
रमानामभद्रसंस्था हेमकुम्भपयोधरा ॥ १० ॥

सुरार्चिता धृतिः कान्तिः स्मृतिर्मेधा विभावरी ।
लघूदरा वरारोहा हेमकङ्कणमण्डिता ॥ ११ ॥

द्विजपत्न्यर्पितनिजभूषा राघवतोषिणी ।
श्रीरामसेवनरता रत्नताटङ्कधारिणी ॥ १२ ॥

रामवामाङ्कसंस्था च रामचन्द्रैकरञ्जिनी ।
सरयूजलसङ्क्रीडाकारिणी राममोहिनी ॥ १३ ॥

सुवर्णतुलिता पुण्या पुण्यकीर्तिः कलावती ।
कलकण्ठा कम्बुकण्ठा रम्भोरूर्गजगामिनी ॥ १४ ॥

रामार्पितमना रामवन्दिता रामवल्लभा ।
श्रीरामपदचिह्नाङ्गा रामरामेतिभाषिणी ॥ १५ ॥

रामपर्यङ्कशयना रामाङ्घ्रिक्षालिणी वरा ।
कामधेन्वन्नसन्तुष्टा मातुलुङ्गकराधृता ॥ १६ ॥

दिव्यचन्दनसंस्था श्री मूलकासुरमर्दिनी ।
एवं अष्टोत्तरशतं सीता नाम्नां सुपुण्यदम् ॥ १७ ॥

ये पठन्ति नरा भूम्यां ते धन्याः स्वर्गगामिनः ।
अष्टोत्तरशतं नाम्नां सीतायाः स्तोत्रमुत्तमम् ॥ १८ ॥

जपनीयं प्रयत्नेन सर्वदा भक्तिपूर्वकम् ।
सन्ति स्तोत्राण्यनेकानि पुण्यदानि महान्ति च ॥ १९ ॥

नानेन सदृशानीह तानि सर्वाणि भूसुर ।
स्तोत्राणामुत्तमं चेदं भुक्ति मुक्ति प्रदं नृणाम् ॥ २० ॥

एवं सुतीक्ष्ण ते प्रोक्तं अष्टोत्तरशतं शुभम् ।
सीता नाम्नां पुण्यदं च श्रवणान् मङ्गलप्रदम् ॥ २१ ॥

नरैः प्रातः समुत्थाय पठितव्यं प्रयत्नतः ।
सीता पूजन कालेपि सर्ववाञ्छितदायकम् ॥ २२ ॥

इति श्रीमदानन्दरामायणे सीताष्टोत्तरशतनाम स्तोत्रम् ।

Also Read:

Sri Sita Ashtottara Shatanama Stotram Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Sita Ashtottara Shatanama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top