Templesinindiainfo

Best Spiritual Website

Sri Vishnu Deva Ashtakam Lyrics in Hindi | Sri Vishnu Slokam

Vishnudevashtakam Lyrics in Hindi:

विष्णुदेवाष्टकम्
श्रिया जुष्टं तुष्टं श्रुतिशतनुतं श्रीमधुरिपुं
पुराणं प्रत्यञ्चं परमसहितं शेषशयने ।
शयानं यं ध्यात्वा जहति मुनयः सर्वविषया-
स्तमीशं सद्रूपं परमपुरुषं नौमि सततम् ॥ १॥

गुणातीतो गीतो दहन इव दीप्तो रिपुवने
निरीहो निष्कायः परमगुणपूगैः परिवृतः ।
सदा सेव्यो वन्द्योऽमरसमुदयैर्यो मुनिगणै-
स्तमीशं सद्रूपं परमपुरुषं नौमि सन्ततम् ॥ २॥

विभो! त्वं संसारस्थित-सकलजन्तूनवसि यत्-
त्रयाणां रक्षायै ननु वरद पद्मेश जगताम् ।
ददौ चक्रं तस्मात्परमदयया ते पशुपति-
स्ततः शास्त्रं “विश्वम्भर”इति पदेन प्रगिरति ॥ ३॥

सदा विष्णो ! दीने सकलबलहीने यदुपते
हताशे सर्वात्मन् मयि कुरु कृपां त्वं मुररिपो ।
यतोऽहं संसारे तव च रणसेवा-विरहितो
न मे सौख्यं चेत्स्याद् भवति वितथं श्रीश ! सकलम् ॥ ४॥

यदीत्थं त्वं ब्रूया भजननिपुणान् यामि सततं
प्रभो भक्ता भक्त्या सकलसुखभाजो न कृपया ।
वद प्रोत्तुङ्गा या तव खलु कृपा कुत्र घटते
कथं वा भो स्वामिन् ! पतितमनुजोद्धारक इति ॥ ५॥

मया शास्त्रे दृष्टं गुरुजनमुखाद् वा श्रुतमिदं
कृपा विष्णोर्वन्द्या पतितमनुजोद्धारनिपुणा ।
अतस्त्वां संप्राप्तः शरणद ! शरण्यं करुणया
श्रिया हीनं दीनं मधुमथन ! मां पालय विभो ॥ ६॥

न चेल्लक्ष्मीजाने सकलहितकृच्छास्त्रनिचयो
मृषारूपं धत्ते भवति भवतो हानिरतुला ।
तवाऽस्तित्वं शास्त्रन्नहि भवति शास्त्रं यदि मृषा
विचारोऽयं चित्ते मम भवपते श्रीधर हरे ॥ ७॥

न ते स्वामिन् विष्णो कुरु मयि कृपां कैटभरिपो
स्वकीयं वाऽस्तित्त्वं जहि जगति कारुण्यजलधे ।
द्वयोर्मध्ये ह्येकं भवति करणीयं तव विभो
कथाः सर्वाः सर्वाश्रय तव पुरस्कृत्य विरतः ॥ ८॥

विष्णुदेवाष्टकं स्तोत्रं यः पठेद् भक्तितो नरः ।
सर्वान् कामानवाप्नोति लक्ष्मीजानेः प्रसादतः ॥ ९॥

इति जगद्गुरु-शङ्कराचार्यस्वामिश्रीशान्तानन्दसरस्वतीशिष्य-
स्वामीश्रीमदनन्तानन्दसरस्वतीविरचितं विष्णुदेवाष्टकं समाप्तम् ।

Sri Vishnu Deva Ashtakam Lyrics in Hindi | Sri Vishnu Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top