Templesinindiainfo

Best Spiritual Website

Srivalli Bhuvaneshwari Ashtakam Lyrics in Hindi

Sri Valli Bhuvaneshwari Ashtakam Lyrics in Hindi:

श्रीवल्लीभुवनेश्वर्यष्टकम्

श्रीचित्रापुरवासिनीं वरभवानीशङ्करत्वप्रदां
ओतप्रोतशिवान्वितां गुरुमयीं गाम्भीर्यसन्तोषधाम् ।
हृद्गुह्याङ्कुरकल्पितं गुरुमतं स्रोतायते तां सुधां
श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे || १ ||

चिन्मुद्राङ्कितदक्षिणास्यनिहितां श्रीभाष्यकारश्रियं
तां हस्तामलकप्रबोधनकरीं क्षेत्रे स्थितां मातृकाम् ।
श्रीवल्ल्युद्भवपुष्पगन्धलहरीं सारस्वतत्रायिकां
श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे || २ ||

श्रीविद्योदितकौमुदीरसभरां कारुण्यरूपात्मिकां
मूर्तीभूय सदा स्थितां गुरुपरिज्ञानाश्रमाश्वासनाम् ।
सान्निध्याङ्गणशिष्यरक्षणकरीं वात्सल्यसारास्पदां
श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे || ३ ||

तन्वीं रक्तनवार्कवर्णसदृशीं खण्डेन्दुसम्मण्डितां
पीनोत्तुङ्गकुचद्वयीं कुटिकटीं त्र्यक्षां सदा सुस्मिताम् ।
पाशाभीतिवरैश्वराङ्कुशधरां श्रीपर्णपादां परां
श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे || ४ ||

श्रीमच्छङ्करसद्गुरुर्गणपतिर्वातात्मजः क्षेत्रपः
प्रासादे विलसन्ति भूरि सदये नित्यस्थिते ह्रींमयि ।
युष्मत्स्नेहकटाक्षसौम्यकिरणा रक्षन्ति दोग्ध्रीकुलं
श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे || ५ ||

गोप्त्रीं वत्ससुरक्षिणीं मठगृहे भक्तप्रजाकर्षिणीं
यात्रादिव्यकरीं विमर्शकलया तां साधके संस्थिताम् ।
प्रायश्चित्तजपादिकर्मकनितां ज्ञानेश्वरीमम्बिकां
श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे || ६ ||

श्रीसारस्वतगेयपेयजननीं ज्ञानादिविद्याप्रदां
लोके भक्तसुगुप्तितारणकरीं कार्पण्यदोषापहाम् ।
आर्यत्वप्रविकासलासनकरीं हृत्पद्मविद्युत्प्रभां
श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे || ७ ||

क्षुद्रा मे भुवनेश्वरि स्तुतिकथा किं वा मुखे ते स्मितं
याऽसि त्वं पदवर्णवाक्यजननी वर्णैः कथं वर्ण्यताम् ।
वासस्ते मम मानसे गुरुकृपे नित्यम् भवेत् पावनि
नान्या मे भुवनेश्वरि प्रशमिका नान्या गतिर्ह्रींमयि || ८ ||

इति श्रीसद्योजात शङ्कराश्रमस्वामिविरचितं
श्रीवल्लीभुवनेश्वर्यष्टकं सम्पूर्णम् ।

Srivalli Bhuvaneshwari Ashtakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top