Templesinindiainfo

Best Spiritual Website

Surya Mandala Stotram Lyrics in Hindi

Sri Surya Mandala Stotram in Hindi:

॥ सूर्यमण्डल स्तोत्रम् ॥
नमोऽस्तु सूर्याय सहस्ररश्मये
सहस्रशाखान्वित सम्भवात्मने ।
सहस्रयोगोद्भव भावभागिने
सहस्रसङ्ख्यायुधधारिणे नमः ॥ १ ॥

यन्मण्डलं दीप्तिकरं विशालं
रत्नप्रभं तीव्रमनादिरूपम् ।
दारिद्र्यदुःखक्षयकारणं च
पुनातु मां तत्सवितुर्वरेण्यम् ॥ २ ॥

यन्मण्डलं देवगणैः सुपूजितं
विप्रैः स्तुतं भावनमुक्तिकोविदम् ।
तं देवदेवं प्रणमामि सूर्यं
पुनातु मां तत्सवितुर्वरेण्यम् ॥ ३ ॥

यन्मण्डलं ज्ञानघनन्त्वगम्यं
त्रैलोक्यपूज्यं त्रिगुणात्मरूपम् ।
समस्ततेजोमयदिव्यरूपं
पुनातु मां तत्सवितुर्वरेण्यम् ॥ ४ ॥

यन्मण्डलं गूढमतिप्रबोधं
धर्मस्य वृद्धिं कुरुते जनानाम् ।
यत्सर्वपापक्षयकारणं च
पुनातु मां तत्सवितुर्वरेण्यम् ॥ ५ ॥

यन्मण्डलं व्याधिविनाशदक्षं
यदृग्यजुः सामसु सम्प्रगीतम् ।
प्रकाशितं येन च भूर्भुवः स्वः
पुनातु मां तत्सवितुर्वरेण्यम् ॥ ६ ॥

यन्मण्डलं वेदविदो वदन्ति
गायन्ति यच्चारणसिद्धसङ्घाः ।
यद्योगिनो योगजुषां च सङ्घाः
पुनातु मां तत्सवितुर्वरेण्यम् ॥ ७ ॥

यन्मण्डलं सर्वजनैश्च पूजितं
ज्योतिश्च कुर्यादिह मर्त्यलोके ।
यत्कालकालाद्यमनादिरूपं
पुनातु मां तत्सवितुर्वरेण्यम् ॥ ८ ॥

यन्मण्डलं विष्णुचतुर्मुखाख्यं
यदक्षरं पापहरं जनानाम् ।
यत्कालकल्पक्षयकारणं च
पुनातु मां तत्सवितुर्वरेण्यम् ॥ ९ ॥

यन्मण्डलं विश्वसृजं प्रसिद्धं
उत्पत्तिरक्षप्रलय प्रगल्भम् ।
यस्मिन् जगत्संहरतेऽखिलं च
पुनातु मां तत्सवितुर्वरेण्यम् ॥ १० ॥

यन्मण्डलं सर्वगतस्य विष्णोः
आत्मा परं‍धाम विशुद्धतत्त्वम् ।
सूक्ष्मान्तरैर्योगपथानुगम्यं
पुनातु मां तत्सवितुर्वरेण्यम् ॥ ११ ॥

यन्मण्डलं वेदविदोपगीतं
यद्योगिनां योग पथानुगम्यम् ।
तत्सर्व वेद्यं प्रणमामि सूर्यं
पुनातु मां तत्सवितुर्वरेण्यम् ॥ १२ ॥

सूर्यमण्डलसु स्तोत्रम् यः पठेत्सततं नरः ।
सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥

इति श्री भविष्योत्तरपुराणे श्री कृष्णार्जुन संवादे सूर्यमण्डल स्तोत्रम् ।

Also Read:

Surya Mandala Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Surya Mandala Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top