Templesinindiainfo

Best Spiritual Website

jagannath panchakam in Hindi

JagannAtha pa.nchakam Lyrics in Hindi ॥ जगन्नाथ पंचकम्

॥ जगन्नाथ पंचकम् ॥ रक्ताम्भोरुहदर्पभञ्जनमहासौन्दर्यनेत्रद्वयं मुक्ताहारविलम्बिहेममुकुटं रत्नोज्ज्वलत्कुण्डलम् । वर्षामेघसमाननीलवपुषं ग्रैवेयहारान्वितं पार्श्वे चक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे ॥ १॥ फुल्लेन्दीवरलोचनं नवघनश्यामाभिरामाकृतिं विश्वेशं कमलाविलासविलसत्पादारविन्दद्वयम् । दैत्यारिं सकलेन्दुमंडितमुखं चक्राब्जहस्तद्वयं वन्दे श्रीपुरुषोत्तमं प्रतिदिनं लक्ष्मीनिवासालयम् ॥ २॥ उद्यन्नीरदनीलसुन्दरतनुं पूर्णेन्दुबिम्बाननं राजीवोत्पलपत्रनेत्रयुगलं कारुण्यवारांनिधिम् । भक्तानां सकलार्तिनाशनकरं चिन्तार्थिचिन्तामणिं वन्दे श्रीपुरुषोत्तमं प्रतिदिनं नीलाद्रिचूडामणिम् ॥ ३॥ नीलाद्रौ शंखमध्ये शतदलकमले रत्नसिंहासनस्थं सर्वालंकारयुक्तं नवघन रुचिरं संयुतं चाग्रजेन । […]

Scroll to top