Advaita Pancharatnam Lyrics in Hindi
अद्वैत पञ्चरत्नम् Lyrics in Hindi: ॥ श्रीः ॥ नाहं देहो नेन्द्रियाण्यन्तरङ्गो नाहङ्कारः प्राणवर्गो न बुद्धिः । दारापत्यक्षेत्रवित्तादिदूरः साक्षी नित्यः प्रत्यगात्मा शिवोऽहम् ॥ 1 ॥ रज्ज्वज्ञानाद्भाति रज्जौ यथाहिः स्वात्माज्ञानादात्मनो जीवभावः । आप्तोक्त्याऽहिभ्रान्तिनाशो स रज्जु- र्जीवो नाहं देशिकोक्त्या शिवोऽहम् ॥ 2 ॥ आभातीदं विश्वमात्मन्यसत्यम् सत्यज्ञानानन्दरूपे विमोहात् । निद्रामोहात्स्वप्नवत्तन्न सत्यम् शुद्धः पूर्णो नित्य एकः शिवोऽहम् ॥ 3 ॥ […]