Templesinindiainfo

Best Spiritual Website

varAhapa~nchakam Panchakam Hindi

varAhapa~nchakam Lyrics in Hindi ॥ वराहपञ्चकम् ॥

वराहपञ्चकम् Lyrics in Hindi: प्रह्लाद-ह्लादहेतुं सकल-गुणगणं सच्चिदानन्दमात्रं सौह्यासह्योग्रमूर्तिं सदभयमरिशङ्खौ रमां बिभ्रतं च। अंहस्संहारदक्षं विधि-भव-विहगेन्द्रे-न्द्रादि-वन्द्यं रक्षो-वक्षोविदारोल्लस-दमलदृशं नौमि लक्ष्मीनृसिंहम्॥१॥ वामाङ्कस्थ-धराकराञ्जलिपुट-प्रेमाति-हृष्टान्तरं सीमातीतगुणं फणीन्द्रफणगं श्रीमान्य-पादांबुजम्। कामाद्याकरचक्र-शङ्खसुवरोद्धामाभयोद्यत्करं सामादीड्य-वराहरूपममलं हे मानसेमं स्मर॥२॥ कोलाय लसदाकल्प-जालाय वनमालिने। नीलाय निजभक्तौघ-पालाय हरये नमः॥३॥ धात्रीं शुभगुणपात्रीमादाय अशेषविबुध-मोदय। शेषेतमिमदोषे धातुं हातुं च शंकिनं शंके॥४॥ नमोऽस्तु हरये युक्ति गिरये निर्जितारये। समस्त-गुरवे कल्पतरवे परवेदिनाम्॥५॥ ॥इति श्रीवादिराजयति-कृतं वराहपञ्चकं संपूर्णम्॥

Scroll to top