Templesinindiainfo

Best Spiritual Website

Tulajashtakam Lyrics in Hindi | तुलजाष्टकम्

तुलजाष्टकम् Lyrics in Hindi:

दुग्धेन्दु कुन्दोज्ज्वलसुन्दराङ्गीं
मुक्ताफलाहारविभूषिताङ्गीम् ।
शुभ्राम्बरां स्तनभरालसाङ्गीं
वन्देऽहमाद्यां तुलजाभवानीम् ॥ १॥

बालार्कभासामतिचारुहासां
माणिक्यमुक्ताफलहारकण्ठीम् ।
रक्ताम्बरां रक्तविशालनेत्रीं
वन्देऽहमाद्यां तुलजाभवानीम् ॥ २॥

श्यामाङ्गवर्णां मृगशावनेत्रां
कौशेयवस्त्रां कुसुमेषु पूज्याम् ॥
कस्तूरिकाचन्दनचर्चिताङ्गीं
वन्देऽहमाद्यां तुलजाभवानीम् ॥ ३॥

पीताम्बरां चम्पककान्तिगौरीं
अलङ्कृतामुत्तममण्डनैश्च ।
नाशाय भूतां भुवि दानवानां
वन्देऽहमाद्यां तुलजाभवानीम् ॥ ४॥

चन्द्रार्कताटङ्कधरां त्रिनेत्रां
शूलं दधानामतिकालरूपाम् ।
विपक्षनाशाय धृतायुधां तां
वन्देऽहमाद्यां तुलजाभवानीम् ॥ ५॥

ब्रह्मेन्द्र नारायणरुद्रपूज्यां
देवाङ्गनाभिः परिगीयमानाम् ।
स्तुतां वचोभिर्मुनिनारदाद्यैः
वन्देऽहमाद्यां तुलजाभवानीम् ॥ ६॥

अष्टाङ्गयोगे सनकादिभिश्च
ध्यातां मुनीन्द्रैश्च समाधिगम्याम् ।
भक्तस्य नित्यं भुवि कामधेनुं
वन्देऽहमाद्यां तुलजाभवानीम् ॥ ७॥

सिंहासनस्थां परिवीज्यमानां
देवैः समस्तैश्च सुचामरैश्च ।
छत्रं दधानामतिशुभ्रवर्णां
वन्देऽहमाद्यां तुलजाभवानीम् ॥ ८॥

पूर्णः कटाक्षोऽखिललोकमातु-
र्गिरीन्द्रकन्यां भजतां सुधन्याम् ।
दारिद्र्यकं नैव कदा जनानां
चिन्ता कुतः स्याद्भवसागरस्य ॥ ९॥

तुलजाष्टकमिदं स्तोत्रं त्रिकालं यः पठेन्नरः ।
आयुः कीर्तिर्यशो लक्ष्मी धनपुत्रानवाप्नुयात् ॥ १०॥

॥ इति श्रीमच्छङ्कराचार्य विरचितं तुलजाष्टकम् सम्पूर्णम् ॥

Tulajashtakam Lyrics in Hindi | तुलजाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top