Templesinindiainfo

Best Spiritual Website

Vamsa Vrudhi Kara Durga Kavacham Lyrics in Hindi

Vamsa Vrudhi Kara Durga Kavacham Meaning in English:

Vamsa Vruddhikaram (Vamsakhya) Durga Kavacham in Hindi:

॥ वंशवृद्धिकरं (वंशाख्यं) दुर्गा कवचम् ॥
शनैश्चर उवाच ।
भगवन् देवदेवेश कृपया त्वं जगत्प्रभो ।
वंशाख्यं कवचं ब्रूहि मह्यं शिष्याय तेऽनघ ।
यस्य प्रभावाद्देवेश वंशो वृद्धिर्हि जायते ।

सूर्य उवाच ।
शृणु पुत्र प्रवक्ष्यामि वंशाख्यं कवचं शुभम् ।
सन्तानवृद्धिर्यत्पाठाद्गर्भरक्षा सदा नृणाम् ॥

वन्ध्याऽपि लभते पुत्रं काकवन्ध्या सुतैर्युता ।
मृतवत्सा सपुत्रास्यात् स्रवद्गर्भा स्थिरप्रजा ॥

अपुष्पा पुष्पिणी यस्य धारणाच्च सुखप्रसूः ।
कन्या प्रजा पुत्रिणी स्यादेतत् स्तोत्र प्रभावतः ।

भूतप्रेतादिजा बाधा या बाधा कलिदोषजा ।
ग्रहबाधा देवबाधा बाधा शत्रुकृता च या ॥

भस्मी भवन्ति सर्वास्ताः कवचस्य प्रभावतः ।
सर्वे रोगाः विनश्यन्ति सर्वे बालग्रहाश्च ये ॥

॥ अथ कवचम् ॥

पूर्वे रक्षतु वाराही चाग्नेय्यामम्बिका स्वयम् ।
दक्षिणे चण्डिका रक्षेत् नैरृत्यां शववाहिनी ॥

वाराही पश्चिमे रक्षेद्वायव्यां च महेश्वरी ।
उत्तरे वैष्णवी रक्षेत् ऐशान्यां सिंहवाहिनी ॥

ऊर्ध्वं तु शारदा रक्षेदधो रक्षतु पार्वती ।
शाकम्भरी शिरो रक्षेन्मुखं रक्षतु भैरवी ॥

कण्ठं रक्षतु चामुण्डा हृदयं रक्षताच्छिवा ।
ईशानी च भुजौ रक्षेत्कुक्षिं नाभिं च कालिका ॥

अपर्णा ह्युदरं रक्षेत्कटिं बस्तिं शिवप्रिया ।
ऊरू रक्षतु कौमारी जया जानुद्वयं तथा ॥

गुल्फौ पादौ सदा रक्षेत् ब्रह्माणी परमेश्वरी ।
सर्वाङ्गानि सदा रक्षेत् दुर्गा दुर्गार्तिनाशिनी ॥

नमो देव्यै महादेव्यै दुर्गायै सततं नमः ।
पुत्रसौख्यं देहि देहि गर्भरक्षां कुरुष्व नः ॥

॥ मूलमन्त्रः ॥

ओं ह्रीं ह्रीं ह्रीं श्रीं श्रीं श्रीं ऐं ऐं ऐं महाकाली महालक्ष्मी महासरस्वती रूपायै नवकोटिमूर्त्यै दुर्गायै नमः ॥

ओं ह्रीं ह्रीं ह्रीं दुर्गार्तिनाशिनी सन्तानसौख्यं देहि देहि वन्ध्यत्वं मृतवत्सत्वं च हर हर गर्भरक्षां कुरु कुरु सकलां बाधां कुलजां बाह्यजां कृतां अकृतां च नाशय नाशय सर्वगात्राणि रक्ष रक्ष गर्भं पोषय पोषय सर्वोपद्रवं शोषय शोषय स्वाहा ॥

॥ फलशृतिः ॥

अनेन कवचेनाङ्गं सप्तवाराभिमन्त्रितं ।
ऋतुस्नात जलं पीत्वा भवेत् गर्भवती ध्रुवम् ।

गर्भपातभये पीत्वा दृढगर्भा प्रजायते ।
अनेन कवचेनाथ मार्जिता या निशागमे ॥

सर्वबाधाविनिर्मुक्ता गर्भिणी स्यान्न संशयः ।
अनेन कवचेनेह ग्रन्थितं रक्तदोरकम् ।

कटि देशे धारयन्ती सुपुत्रसुखभागिनी ।
असूतपुत्रमिन्द्राणां जयन्तं यत्प्रभावतः ॥

गुरूपदिष्टं वंशाख्यं कवचं तदिदं सदा ।
गुह्यात् गुह्यतरं चेदं न प्रकाश्यं हि सर्वतः ।
धारणात् पठनादस्य वंशच्छेदो न जायते ॥

इति वंशवृद्धिकरं दुर्गा कवचम् ।

Also Read:

Vamsa Vruddhikaram (Vamsakhya) Durga Kavacham Lyrics in English | Hindi |Kannada | Telugu | Tamil

Vamsa Vrudhi Kara Durga Kavacham Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top