Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Ganapati | Sahasranamavali Stotram Lyrics in Hindi

Shri Ganapathi Sahasranamavali Lyrics in Hindi:

॥ श्रीगणपतिसहस्रनामावली ॥
अस्य श्रीमहागणपतिसहस्रनामस्तोत्रमालामन्त्रस्य ।
गणेश ऋषिः । महागणपतिर्देवता । नानाविधानिच्छन्दांसि ।
हुमिति बीजम् । तुङ्गमिति शक्तिः । स्वाहाशक्तिरिति कीलकम् ॥

अथ करन्यासः ।
गणेश्वरो गणक्रीड इत्यङ्गुष्ठाभ्यां नमः ।
कुमारगुरुरीशान इति तर्जनीभ्यां नमः ॥ १ ॥

ब्रह्माण्डकुम्भश्चिद्व्योमेति मध्यमाभ्यां नमः ।
रक्तो रक्ताम्बरधर इत्यनामिकाभ्यां नमः ॥ २ ॥

सर्वसद्गुरुसंसेव्य इति कनिष्ठिकाभ्यां नमः ।
लुप्तविघ्नः स्वभक्तानामिति करतलकरपृष्ठाभ्यां नमः ॥ ३ ॥

अथ हृदयादिन्यासः ।
छन्दश्छन्दोद्भव इति हृदयाय नमः ।
निष्कलो निर्मल इति शिरसे स्वाहा ।
सृष्टिस्थितिलयक्रीड इति शिखायै वषट् ।
ज्ञानं विज्ञानमानन्द इति कवचाय हुम् ।
अष्टाङ्गयोगफलभृदिति नेत्रत्रयाय वौषट् ।
अनन्तशक्तिसहित इत्यस्त्राय फट् ।
भूर्भुवः स्वरोम् इति दिग्बन्धः ॥

अथ ध्यानम् ।
गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं
बृहदुदरमशेषं भूतिराजं पुराणम् ।
अमरवरसुपूज्यं रक्तवर्णं सुरेशं
पशुपतिसुतमीशं विघ्नराजं नमामि ॥ १ ॥

सकलविघ्नविनाशनद्वारा श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

श्रीगणपतिरुवाच ।
अथ श्रीगणपतिसहस्रनामावलिः ।
ॐ गणेश्वराय नमः ।
ॐ गणक्रीडाय नमः ।
ॐ गणनाथाय नमः ।
ॐ गणाधिपाय नमः ।
ॐ एकदंष्ट्राय नमः ।
ॐ वक्रतुण्डाय नमः ।
ॐ गजवक्त्राय नमः ।
ॐ महोदराय नमः ।
ॐ लम्बोदराय नमः ।
ॐ धूम्रवर्णाय नमः ।
ॐ विकटाय नमः ।
ॐ विघ्ननायकाय नमः ।
ॐ सुमुखाय नमः ।
ॐ दुर्मुखाय नमः ।
ॐ बुद्धाय नमः ।
ॐ विघ्नराजाय नमः ।
ॐ गजाननाय नमः ।
ॐ भीमाय नमः ।
ॐ प्रमोदाय नमः ।
ॐ आमोदाय नमः ।
ॐ सुरानन्दाय नमः ।
ॐ मदोत्कटाय नमः ।
ॐ हेरम्बाय नमः ।
ॐ शम्बराय नमः ।
ॐ शम्भवे नमः ।
ॐ लम्बकर्णाय नमः ।
ॐ महाबलाय नमः ।
ॐ नन्दनाय नमः ।
ॐ अलम्पटाय नमः ।
ॐ अभीरवे नमः ।
ॐ मेघनादाय नमः ।
ॐ गणञ्जयाय नमः ।
ॐ विनायकाय नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ धीरशूराय नमः ।
ॐ वरप्रदाय नमः ।
ॐ महागणपतये नमः ।
ॐ बुद्धिप्रियाय नमः ।
ॐ क्षिप्रप्रसादनाय नमः ।
ॐ रुद्रप्रियाय नमः ।
ॐ गणाध्यक्षाय नमः ।
ॐ उमापुत्राय नमः ।
ॐ अघनाशनाय नमः ।
ॐ कुमारगुरवे नमः ।
ॐ ईशानपुत्राय नमः ।
ॐ मूषकवाहनाय नमः ।
ॐ सिद्धिप्रियाय नमः ।
ॐ सिद्धिपतये नमः ।
ॐ सिद्धये नमः ।
ॐ सिद्धिविनायकाय नमः ।
ॐ अविघ्नाय नमः ।
ॐ तुम्बुरवे नमः ।
ॐ सिंहवाहनाय नमः ।
ॐ मोहिनीप्रियाय नमः ।
ॐ कटङ्कटाय नमः ।
ॐ राजपुत्राय नमः ।
ॐ शालकाय नमः ।
ॐ सम्मिताय नमः ।
ॐ अमिताय नमः ।
ॐ कूष्माण्ड सामसम्भूतये नमः ।
ॐ दुर्जयाय नमः ।
ॐ धूर्जयाय नमः ।
ॐ जयाय नमः ।
ॐ भूपतये नमः ।
ॐ भुवनपतये नमः ।
ॐ भूतानां पतये नमः ।
ॐ अव्ययाय नमः ।
ॐ विश्वकर्त्रे नमः ।
ॐ विश्वमुखाय नमः ।
ॐ विश्वरूपाय नमः ।
ॐ निधये नमः ।
ॐ घृणये नमः ।
ॐ कवये नमः ।
ॐ कवीनामृषभाय नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ ब्रह्मणस्पतये नमः ।
ॐ ज्येष्ठराजाय नमः ।
ॐ निधिपतये नमः ।
ॐ निधिप्रियपतिप्रियाय नमः ।
ॐ हिरण्मयपुरान्तःस्थाय नमः ।
ॐ सूर्यमण्डलमध्यगाय नमः ।
ॐ कराहतिविध्वस्तसिन्धुसलिलाय नमः ।
ॐ पूषदंतभिदे नमः ।
ॐ उमाङ्ककेलिकुतुकिने नमः ।
ॐ मुक्तिदाय नमः ।
ॐ कुलपालनाय नमः ।
ॐ किरीटिने नमः ।
ॐ कुण्डलिने नमः ।
ॐ हारिणे नमः ।
ॐ वनमालिने नमः ।
ॐ मनोमयाय नमः ।
ॐ वैमुख्यहतदैत्यश्रिये नमः ।
ॐ पादाहतिजितक्षितये नमः ।
ॐ सद्योजातस्वर्णमुञ्जमेखलिने नमः ।
ॐ दुर्निमित्तहृते नमः ।
ॐ दुःस्वप्नहृते नमः ।
ॐ प्रसहनाय नमः ।
ॐ गुणिने नमः ।
ॐ नादप्रतिष्ठिताय नमः ।
ॐ सुरूपाय नमः ॥ १०० ॥

ॐ सर्वनेत्राधिवासाय नमः ।
ॐ वीरासनाश्रयाय नमः ।
ॐ पीताम्बराय नमः ।
ॐ खण्डरदाय नमः ।
ॐ खण्डेन्दुकृतशेखराय नमः ।
ॐ चित्राङ्कश्यामदशनाय नमः ।
ॐ भालचन्द्राय नमः ।
ॐ चतुर्भुजाय नमः ।
ॐ योगाधिपाय नमः ।
ॐ तारकस्थाय नमः ।
ॐ पुरुषाय नमः ।
ॐ गजकर्णाय नमः ।
ॐ गणाधिराजाय नमः ।
ॐ विजयस्थिराय नमः ।
ॐ गजपतिर्ध्वजिने नमः ।
ॐ देवदेवाय नमः ।
ॐ स्मरप्राणदीपकाय नमः ।
ॐ वायुकीलकाय नमः ।
ॐ विपश्चिद् वरदाय नमः ।
ॐ नादोन्नादभिन्नबलाहकाय नमः ।
ॐ वराहरदनाय नमः ।
ॐ मृत्युंजयाय नमः ।
ॐ व्याघ्राजिनाम्बराय नमः ।
ॐ इच्छाशक्तिधराय नमः ।
ॐ देवत्रात्रे नमः ।
ॐ दैत्यविमर्दनाय नमः ।
ॐ शम्भुवक्त्रोद्भवाय नमः ।
ॐ शम्भुकोपघ्ने नमः ।
ॐ शम्भुहास्यभुवे नमः ।
ॐ शम्भुतेजसे नमः ।
ॐ शिवाशोकहारिणे नमः ।
ॐ गौरीसुखावहाय नमः ।
ॐ उमाङ्गमलजाय नमः ।
ॐ गौरीतेजोभुवे नमः ।
ॐ स्वर्धुनीभवाय नमः ।
ॐ यज्ञकायाय नमः ।
ॐ महानादाय नमः ।
ॐ गिरिवर्ष्मणे नमः ।
ॐ शुभाननाय नमः ।
ॐ सर्वात्मने नमः ।
ॐ सर्वदेवात्मने नमः ।
ॐ ब्रह्ममूर्ध्ने नमः ।
ॐ ककुप् श्रुतये नमः ।
ॐ ब्रह्माण्डकुम्भाय नमः ।
ॐ चिद् व्योमभालाय नमः ।
ॐ सत्यशिरोरुहाय नमः ।
ॐ जगज्जन्मलयोन्मेषनिमेषाय नमः ।
ॐ अग्न्यर्कसोमदृशे नमः ।
ॐ गिरीन्द्रैकरदाय नमः ।
ॐ धर्माधर्मोष्ठाय नमः ।
ॐ सामबृंहिताय नमः ।
ॐ ग्रहर्क्षदशनाय नमः ।
ॐ वाणीजिह्वाय नमः ।
ॐ वासवनासिकाय नमः ।
ॐ कुलाचलांसाय नमः ।
ॐ सोमार्कघण्टाय नमः ।
ॐ रुद्रशिरोधराय नमः ।
ॐ नदीनदभुजाय नमः ।
ॐ सर्पाङ्गुलीकाय नमः ।
ॐ तारकानखाय नमः ।
ॐ भ्रूमध्यसंस्थितकराय नमः ।
ॐ ब्रह्मविद्यामदोत्कटाय नमः ।
ॐ व्योमनाभये नमः ।
ॐ श्रीहृदयाय नमः ।
ॐ मेरुपृष्ठाय नमः ।
ॐ अर्णवोदराय नमः ।
ॐ कुक्षिस्थयक्षगन्धर्व रक्षःकिन्नरमानुषाय नमः ।
ॐ पृथ्विकटये नमः ।
ॐ सृष्टिलिङ्गाय नमः ।
ॐ शैलोरवे नमः ।
ॐ दस्रजानुकाय नमः ।
ॐ पातालजंघाय नमः ।
ॐ मुनिपदे नमः ।
ॐ कालाङ्गुष्ठाय नमः ।
ॐ त्रयीतनवे नमः ।
ॐ ज्योतिर्मण्डललांगूलाय नमः ।
ॐ हृदयालाननिश्चलाय नमः ।
ॐ हृत्पद्मकर्णिकाशालिवियत्केलिसरोवराय नमः ।
ॐ सद्भक्तध्याननिगडाय नमः ।
ॐ पूजावारिनिवारिताय नमः ।
ॐ प्रतापिने नमः ।
ॐ कश्यपसुताय नमः ।
ॐ गणपाय नमः ।
ॐ विष्टपिने नमः ।
ॐ बलिने नमः ।
ॐ यशस्विने नमः ।
ॐ धार्मिकाय नमः ।
ॐ स्वोजसे नमः ।
ॐ प्रथमाय नमः ।
ॐ प्रथमेश्वराय नमः ।
ॐ चिन्तामणिद्वीप पतये नमः ।
ॐ कल्पद्रुमवनालयाय नमः ।
ॐ रत्नमण्डपमध्यस्थाय नमः ।
ॐ रत्नसिंहासनाश्रयाय नमः ।
ॐ तीव्राशिरोद्धृतपदाय नमः ।
ॐ ज्वालिनीमौलिलालिताय नमः ।
ॐ नन्दानन्दितपीठश्रिये नमः ।
ॐ भोगदाभूषितासनाय नमः ।
ॐ सकामदायिनीपीठाय नमः ।
ॐ स्फुरदुग्रासनाश्रयाय नमः ॥ २०० ॥

ॐ तेजोवतीशिरोरत्नाय नमः ।
ॐ सत्यानित्यावतंसिताय नमः ।
ॐ सविघ्ननाशिनीपीठाय नमः ।
ॐ सर्वशक्त्यम्बुजाश्रयाय नमः ।
ॐ लिपिपद्मासनाधाराय नमः ।
ॐ वह्निधामत्रयाश्रयाय नमः ।
ॐ उन्नतप्रपदाय नमः ।
ॐ गूढगुल्फाय नमः ।
ॐ संवृतपार्ष्णिकाय नमः ।
ॐ पीनजंघाय नमः ।
ॐ श्लिष्टजानवे नमः ।
ॐ स्थूलोरवे नमः ।
ॐ प्रोन्नमत्कटये नमः ।
ॐ निम्ननाभये नमः ।
ॐ स्थूलकुक्षये नमः ।
ॐ पीनवक्षसे नमः ।
ॐ बृहद्भुजाय नमः ।
ॐ पीनस्कन्धाय नमः ।
ॐ कम्बुकण्ठाय नमः ।
ॐ लम्बोष्ठाय नमः ।
ॐ लम्बनासिकाय नमः ।
ॐ भग्नवामरदाय नमः ।
ॐ तुङ्गसव्यदन्ताय नमः ।
ॐ महाहनवे नमः ।
ॐ ह्रस्वनेत्रत्रयाय नमः ।
ॐ शूर्पकर्णाय नमः ।
ॐ निबिडमस्तकाय नमः ।
ॐ स्तबकाकारकुम्भाग्राय नमः ।
ॐ रत्नमौलये नमः ।
ॐ निरङ्कुशाय नमः ।
ॐ सर्पहारकटिसूत्राय नमः ।
ॐ सर्पयज्ञोपवीतये नमः ।
ॐ सर्पकोटीरकटकाय नमः ।
ॐ सर्पग्रैवेयकाङ्गदाय नमः ।
ॐ सर्पकक्ष्योदराबन्धाय नमः ।
ॐ सर्पराजोत्तरीयकाय नमः ।
ॐ रक्ताय नमः ।
ॐ रक्ताम्बरधराय नमः ।
ॐ रक्तमाल्यविभूषणाय नमः ।
ॐ रक्तेक्षणाय नमः ।
ॐ रक्तकराय नमः ।
ॐ रक्तताल्वोष्ठपल्लवाय नमः ।
ॐ श्वेताय नमः ।
ॐ श्वेताम्बरधराय नमः ।
ॐ श्वेतमाल्यविभूषणाय नमः ।
ॐ श्वेतातपत्ररुचिराय नमः ।
ॐ श्वेतचामरवीजिताय नमः ।
ॐ सर्वावयवसम्पूर्णसर्वलक्षणलक्षिताय नमः ।
ॐ सर्वाभरणशोभाढ्याय नमः ।
ॐ सर्वशोभासमन्विताय नमः ।
ॐ सर्वमङ्गलमाङ्गल्याय नमः ।
ॐ सर्वकारणकारणाय नमः ।
ॐ सर्वदैककराय नमः ।
ॐ शार्ङ्गिणे नमः ।
ॐ बीजापूरिणे नमः ।
ॐ गदाधराय नमः ।
ॐ इक्षुचापधराय नमः ।
ॐ शूलिने नमः ।
ॐ चक्रपाणये नमः ।
ॐ सरोजभृते नमः ।
ॐ पाशिने नमः ।
ॐ धृतोत्पलाय नमः ।
ॐ शालीमञ्जरीभृते नमः ।
ॐ स्वदन्तभृते नमः ।
ॐ कल्पवल्लीधराय नमः ।
ॐ विश्वाभयदैककराय नमः ।
ॐ वशिने नमः ।
ॐ अक्षमालाधराय नमः ।
ॐ ज्ञानमुद्रावते नमः ।
ॐ मुद्गरायुधाय नमः ।
ॐ पूर्णपात्रिणे नमः ।
ॐ कम्बुधराय नमः ।
ॐ विधृतालिसमुद्गकाय नमः ।
ॐ मातुलिङ्गधराय नमः ।
ॐ चूतकलिकाभृते नमः ।
ॐ कुठारवते नमः ।
ॐ पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकाय नमः ।
ॐ भारतीसुन्दरीनाथाय नमः ।
ॐ विनायकरतिप्रियाय नमः ।
ॐ महालक्ष्मी प्रियतमाय नमः ।
ॐ सिद्धलक्ष्मीमनोरमाय नमः ।
ॐ रमारमेशपूर्वाङ्गाय नमः ।
ॐ दक्षिणोमामहेश्वराय नमः ।
ॐ महीवराहवामाङ्गाय नमः ।
ॐ रविकन्दर्पपश्चिमाय नमः ।
ॐ आमोदप्रमोदजननाय नमः ।
ॐ सप्रमोदप्रमोदनाय नमः ।
ॐ समेधितसमृद्धिश्रिये नमः ।
ॐ ऋद्धिसिद्धिप्रवर्तकाय नमः ।
ॐ दत्तसौख्यसुमुखाय नमः ।
ॐ कान्तिकन्दलिताश्रयाय नमः ।
ॐ मदनावत्याश्रितांघ्रये नमः ।
ॐ कृत्तदौर्मुख्यदुर्मुखाय नमः ।
ॐ विघ्नसम्पल्लवोपघ्नाय नमः ।
ॐ सेवोन्निद्रमदद्रवाय नमः ।
ॐ विघ्नकृन्निघ्नचरणाय नमः ।
ॐ द्राविणीशक्ति सत्कृताय नमः ।
ॐ तीव्राप्रसन्ननयनाय नमः ।
ॐ ज्वालिनीपालतैकदृशे नमः ।
ॐ मोहिनीमोहनाय नमः ॥ ३०० ॥

ॐ भोगदायिनीकान्तिमण्डिताय नमः ।
ॐ कामिनीकान्तवक्त्रश्रिये नमः ।
ॐ अधिष्ठित वसुन्धराय नमः ।
ॐ वसुन्धरामदोन्नद्धमहाशङ्खनिधिप्रभवे नमः ।
ॐ नमद्वसुमतीमौलिमहापद्मनिधिप्रभवे नमः ।
ॐ सर्वसद्गुरुसंसेव्याय नमः ।
ॐ शोचिष्केशहृदाश्रयाय नमः ।
ॐ ईशानमूर्ध्ने नमः ।
ॐ देवेन्द्रशिखायै नमः ।
ॐ पवननन्दनाय नमः ।
ॐ अग्रप्रत्यग्रनयनाय नमः ।
ॐ दिव्यास्त्राणां प्रयोगविदे नमः ।
ॐ ऐरावतादिसर्वाशावारणावरणप्रियाय नमः ।
ॐ वज्राद्यस्त्रपरिवाराय नमः ।
ॐ गणचण्डसमाश्रयाय नमः ।
ॐ जयाजयापरिवाराय नमः ।
ॐ विजयाविजयावहाय नमः ।
ॐ अजितार्चितपादाब्जाय नमः ।
ॐ नित्यानित्यावतंसिताय नमः ।
ॐ विलासिनीकृतोल्लासाय नमः ।
ॐ शौण्डीसौन्दर्यमण्डिताय नमः ।
ॐ अनन्तानन्तसुखदाय नमः ।
ॐ सुमङ्गलसुमङ्गलाय नमः ।
ॐ इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिनिषेविताय नमः ।
ॐ सुभगासंश्रितपदाय नमः ।
ॐ ललिताललिताश्रयाय नमः ।
ॐ कामिनीकामनाय नमः ।
ॐ काममालिनीकेलिललिताय नमः ।
ॐ सरस्वत्याश्रयाय नमः ।
ॐ गौरीनन्दनाय नमः ।
ॐ श्रीनिकेतनाय नमः ।
ॐ गुरुगुप्तपदाय नमः ।
ॐ वाचासिद्धाय नमः ।
ॐ वागीश्वरीपतये नमः ।
ॐ नलिनीकामुकाय नमः ।
ॐ वामारामाय नमः ।
ॐ ज्येष्ठामनोरमाय नमः ।
ॐ रौद्रिमुद्रितपादाब्जाय नमः ।
ॐ हुंबीजाय नमः ।
ॐ तुङ्गशक्तिकाय नमः ।
ॐ विश्वादिजननत्राणाय नमः ।
ॐ स्वाहाशक्तये नमः ।
ॐ सकीलकाय नमः ।
ॐ अमृताब्धिकृतावासाय नमः ।
ॐ मदघूर्णितलोचनाय नमः ।
ॐ उच्छिष्टगणाय नमः ।
ॐ उच्छिष्टगणेशाय नमः ।
ॐ गणनायकाय नमः ।
ॐ सर्वकालिकसंसिद्धये नमः ।
ॐ नित्यशैवाय नमः ।
ॐ दिगम्बराय नमः ।
ॐ अनपाय नमः ।
ॐ अनन्तदृष्टये नमः ।
ॐ अप्रमेयाय नमः ।
ॐ अजरामराय नमः ।
ॐ अनाविलाय नमः ।
ॐ अप्रतिरथाय नमः ।
ॐ अच्युताय नमः ।
ॐ अमृताय नमः ।
ॐ अक्षराय नमः ।
ॐ अप्रतर्क्याय नमः ।
ॐ अक्षयाय नमः ।
ॐ अजय्याय नमः ।
ॐ अनाधाराय नमः ।
ॐ अनामयाय नमः ।
ॐ अमलाय नमः ।
ॐ अमोघसिद्धये नमः ।
ॐ अद्वैताय नमः ।
ॐ अघोराय नमः ।
ॐ अप्रमिताननाय नमः ।
ॐ अनाकाराय नमः ।
ॐ अब्धिभूम्याग्निबलघ्नाय नमः ।
ॐ अव्यक्तलक्षणाय नमः ।
ॐ आधारपीठाय नमः ।
ॐ आधाराय नमः ।
ॐ आधाराधेयवर्जिताय नमः ।
ॐ आखुकेतनाय नमः ।
ॐ आशापूरकाय नमः ।
ॐ आखुमहारथाय नमः ।
ॐ इक्षुसागरमध्यस्थाय नमः ।
ॐ इक्षुभक्षणलालसाय नमः ।
ॐ इक्षुचापातिरेकश्रिये नमः ।
ॐ इक्षुचापनिषेविताय नमः ।
ॐ इन्द्रगोपसमानश्रिये नमः ।
ॐ इन्द्रनीलसमद्युतये नमः ।
ॐ इन्दिवरदलश्यामाय नमः ।
ॐ इन्दुमण्डलनिर्मलाय नमः ।
ॐ इष्मप्रियाय नमः ।
ॐ इडाभागाय नमः ।
ॐ इराधाम्ने नमः ।
ॐ इन्दिराप्रियाय नमः ।
ॐ इअक्ष्वाकुविघ्नविध्वंसिने नमः ।
ॐ इतिकर्तव्यतेप्सिताय नमः ।
ॐ ईशानमौलये नमः ।
ॐ ईशानाय नमः ।
ॐ ईशानसुताय नमः ।
ॐ ईतिघ्ने नमः ।
ॐ ईषणात्रयकल्पान्ताय नमः ।
ॐ ईहामात्रविवर्जिताय नमः ।
ॐ उपेन्द्राय नमः ॥ ४०० ॥

ॐ उडुभृन्मौलये नमः ।
ॐ उण्डेरकबलिप्रियाय नमः ।
ॐ उन्नताननाय नमः ।
ॐ उत्तुङ्गाय नमः ।
ॐ उदारत्रिदशाग्रण्ये नमः ।
ॐ उर्जस्वते नमः ।
ॐ उष्मलमदाय नमः ।
ॐ ऊहापोहदुरासदाय नमः ।
ॐ ऋग्यजुस्सामसम्भूतये नमः ।
ॐ ऋद्धिसिद्धिप्रवर्तकाय नमः ।
ॐ ऋजुचित्तैकसुलभाय नमः ।
ॐ ऋणत्रयमोचकाय नमः ।
ॐ स्वभक्तानां लुप्तविघ्नाय नमः ।
ॐ सुरद्विषांलुप्तशक्तये नमः ।
ॐ विमुखार्चानां लुप्तश्रिये नमः ।
ॐ लूताविस्फोटनाशनाय नमः ।
ॐ एकारपीठमध्यस्थाय नमः ।
ॐ एकपादकृतासनाय नमः ।
ॐ एजिताखिलदैत्यश्रिये नमः ।
ॐ एधिताखिलसंश्रयाय नमः ।
ॐ ऐश्वर्यनिधये नमः ।
ॐ ऐश्वर्याय नमः ।
ॐ ऐहिकामुष्मिकप्रदाय नमः ।
ॐ ऐरम्मदसमोन्मेषाय नमः ।
ॐ ऐरावतनिभाननाय नमः ।
ॐ ओंकारवाच्याय नमः ।
ॐ ओंकाराय नमः ।
ॐ ओजस्वते नमः ।
ॐ ओषधीपतये नमः ।
ॐ औदार्यनिधये नमः ।
ॐ औद्धत्यधुर्याय नमः ।
ॐ औन्नत्यनिस्स्वनाय नमः ।
ॐ सुरनागानामङ्कुशाय नमः ।
ॐ सुरविद्विषामङ्कुशाय नमः ।
ॐ अःसमस्तविसर्गान्तपदेषु परिकीर्तिताय नमः ।
ॐ कमण्डलुधराय नमः ।
ॐ कल्पाय नमः ।
ॐ कपर्दिने नमः ।
ॐ कलभाननाय नमः ।
ॐ कर्मसाक्षिणे नमः ।
ॐ कर्मकर्त्रे नमः ।
ॐ कर्माकर्मफलप्रदाय नमः ।
ॐ कदम्बगोलकाकाराय नमः ।
ॐ कूष्माण्डगणनायकाय नमः ।
ॐ कारुण्यदेहाय नमः ।
ॐ कपिलाय नमः ।
ॐ कथकाय नमः ।
ॐ कटिसूत्रभृते नमः ।
ॐ खर्वाय नमः ।
ॐ खड्गप्रियाय नमः ।
ॐ खड्गखान्तान्तः स्थाय नमः ।
ॐ खनिर्मलाय नमः ।
ॐ खल्वाटश‍ृंगनिलयाय नमः ।
ॐ खट्वाङ्गिने नमः ।
ॐ खदुरासदाय नमः ।
ॐ गुणाढ्याय नमः ।
ॐ गहनाय नमः ।
ॐ ग-स्थाय नमः ।
ॐ गद्यपद्यसुधार्णवाय नमः ।
ॐ गद्यगानप्रियाय नमः ।
ॐ गर्जाय नमः ।
ॐ गीतगीर्वाणपूर्वजाय नमः ।
ॐ गुह्याचाररताय नमः ।
ॐ गुह्याय नमः ।
ॐ गुह्यागमनिरूपिताय नमः ।
ॐ गुहाशयाय नमः ।
ॐ गुहाब्धिस्थाय नमः ।
ॐ गुरुगम्याय नमः ।
ॐ गुरोर्गुरवे नमः ।
ॐ घण्टाघर्घरिकामालिने नमः ।
ॐ घटकुम्भाय नमः ।
ॐ घटोदराय नमः ।
ॐ चण्डाय नमः ।
ॐ चण्डेश्वरसुहृदे नमः ।
ॐ चण्डीशाय नमः ।
ॐ चण्डविक्रमाय नमः ।
ॐ चराचरपतये नमः ।
ॐ चिन्तामणिचर्वणलालसाय नमः ।
ॐ छन्दसे नमः ।
ॐ छन्दोवपुषे नमः ।
ॐ छन्दोदुर्लक्ष्याय नमः ।
ॐ छन्दविग्रहाय नमः ।
ॐ जगद्योनये नमः ।
ॐ जगत्साक्षिणे नमः ।
ॐ जगदीशाय नमः ।
ॐ जगन्मयाय नमः ।
ॐ जपाय नमः ।
ॐ जपपराय नमः ।
ॐ जप्याय नमः ।
ॐ जिह्वासिंहासनप्रभवे नमः ।
ॐ झलज्झलोल्लसद्दान झंकारिभ्रमराकुलाय नमः ।
ॐ टङ्कारस्फारसंरावाय नमः ।
ॐ टङ्कारिमणिनूपुराय नमः ।
ॐ ठद्वयीपल्लवान्तःस्थ सर्वमन्त्रैकसिद्धिदाय नमः ।
ॐ डिण्डिमुण्डाय नमः ।
ॐ डाकिनीशाय नमः ।
ॐ डामराय नमः ।
ॐ डिण्डिमप्रियाय नमः ।
ॐ ढक्कानिनादमुदिताय नमः ।
ॐ ढौकाय नमः ॥५०० ॥

ॐ ढुण्ढिविनायकाय नमः ।
ॐ तत्वानां परमाय तत्वाय नमः ।
ॐ तत्वम्पदनिरूपिताय नमः ।
ॐ तारकान्तरसंस्थानाय नमः ।
ॐ तारकाय नमः ।
ॐ तारकान्तकाय नमः ।
ॐ स्थाणवे नमः ।
ॐ स्थाणुप्रियाय नमः ।
ॐ स्थात्रे नमः ।
ॐ स्थावराय जङ्गमाय जगते नमः ।
ॐ दक्षयज्ञप्रमथनाय नमः ।
ॐ दात्रे नमः ।
ॐ दानवमोहनाय नमः ।
ॐ दयावते नमः ।
ॐ दिव्यविभवाय नमः ।
ॐ दण्डभृते नमः ।
ॐ दण्डनायकाय नमः ।
ॐ दन्तप्रभिन्नाभ्रमालाय नमः ।
ॐ दैत्यवारणदारणाय नमः ।
ॐ दंष्ट्रालग्नद्विपघटाय नमः ।
ॐ देवार्थनृगजाकृतये नमः ।
ॐ धनधान्यपतये नमः ।
ॐ धन्याय नमः ।
ॐ धनदाय नमः ।
ॐ धरणीधराय नमः ।
ॐ ध्यानैकप्रकटाय नमः ।
ॐ ध्येयाय नमः ।
ॐ ध्यानाय नमः ।
ॐ ध्यानपरायणाय नमः ।
ॐ नन्द्याय नमः ।
ॐ नन्दिप्रियाय नमः ।
ॐ नादाय नमः ।
ॐ नादमध्यप्रतिष्ठिताय नमः ।
ॐ निष्कलाय नमः ।
ॐ निर्मलाय नमः ।
ॐ नित्याय नमः ।
ॐ नित्यानित्याय नमः ।
ॐ निरामयाय नमः ।
ॐ परस्मै व्योम्ने नमः ।
ॐ परस्मै धाम्मे नमः ।
ॐ परमात्मने नमः ।
ॐ परस्मै पदाय नमः ।
ॐ परात्पराय नमः ।
ॐ पशुपतये नमः ।
ॐ पशुपाशविमोचकाय नमः ।
ॐ पूर्णानन्दाय नमः ।
ॐ परानन्दाय नमः ।
ॐ पुराणपुरुषोत्तमाय नमः ।
ॐ पद्मप्रसन्ननयनाय नमः ।
ॐ प्रणताज्ञानमोचकाय नमः ।
ॐ प्रमाणप्रत्यायातीताय नमः ।
ॐ प्रणतार्तिनिवारणाय नमः ।
ॐ फलहस्ताय नमः ।
ॐ फणिपतये नमः ।
ॐ फेत्काराय नमः ।
ॐ फणितप्रियाय नमः ।
ॐ बाणार्चितांघ्रियुगुलाय नमः ।
ॐ बालकेलिकुतूहलिने नमः ।
ॐ ब्रह्मणे नमः ।
ॐ ब्रह्मार्चितपदाय नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ बृहस्पतये नमः ।
ॐ बृहत्तमाय नमः ।
ॐ ब्रह्मपराय नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ ब्रह्मवित्प्रियाय नमः ।
ॐ बृहन्नादाग्र्यचीत्काराय नमः ।
ॐ ब्रह्माण्डावलिमेखलाय नमः ।
ॐ भ्रूक्षेपदत्तलक्ष्मीकाय नमः ।
ॐ भर्गाय नमः ।
ॐ भद्राय नमः ।
ॐ भयापहाय नमः ।
ॐ भगवते नमः ।
ॐ भक्तिसुलभाय नमः ।
ॐ भूतिदाय नमः ।
ॐ भूतिभूषणाय नमः ।
ॐ भव्याय नमः ।
ॐ भूतालयाय नमः ।
ॐ भोगदात्रे नमः ।
ॐ भ्रूमध्यगोचराय नमः ।
ॐ मन्त्राय नमः ।
ॐ मन्त्रपतये नमः ।
ॐ मन्त्रिणे नमः ।
ॐ मदमत्तमनोरमाय नमः ।
ॐ मेखलावते नमः ।
ॐ मन्दगतये नमः ।
ॐ मतिमत्कमलेक्षणाय नमः ।
ॐ महाबलाय नमः ।
ॐ महावीर्याय नमः ।
ॐ महाप्राणाय नमः ।
ॐ महामनसे नमः ।
ॐ यज्ञाय नमः ।
ॐ यज्ञपतये नमः ।
ॐ यज्ञगोप्ते नमः ।
ॐ यज्ञफलप्रदाय नमः ।
ॐ यशस्कराय नमः ।
ॐ योगगम्याय नमः ।
ॐ याज्ञिकाय नमः ।
ॐ याजकप्रियाय नमः ।
ॐ रसाय नमः ॥ ६०० ॥

ॐ रसप्रियाय नमः ।
ॐ रस्याय नमः ।
ॐ रञ्जकाय नमः ।
ॐ रावणार्चिताय नमः ।
ॐ रक्षोरक्षाकराय नमः ।
ॐ रत्नगर्भाय नमः ।
ॐ राज्यसुखप्रदाय नमः ।
ॐ लक्ष्याय नमः ।
ॐ लक्ष्यप्रदाय नमः ।
ॐ लक्ष्याय नमः ।
ॐ लयस्थाय नमः ।
ॐ लड्डुकप्रियाय नमः ।
ॐ लानप्रियाय नमः ।
ॐ लास्यपराय नमः ।
ॐ लाभकृल्लोकविश्रुताय नमः ।
ॐ वरेण्याय नमः ।
ॐ वह्निवदनाय नमः ।
ॐ वन्द्याय नमः ।
ॐ वेदान्तगोचराय नमः ।
ॐ विकर्त्रे नमः ।
ॐ विश्वतश्चक्षुषे नमः ।
ॐ विधात्रे नमः ।
ॐ विश्वतोमुखाय नमः ।
ॐ वामदेवाय नमः ।
ॐ विश्वनेते नमः ।
ॐ वज्रिवज्रनिवारणाय नमः ।
ॐ विश्वबन्धनविष्कम्भाधाराय नमः ।
ॐ विश्वेश्वरप्रभवे नमः ।
ॐ शब्दब्रह्मणे नमः ।
ॐ शमप्राप्याय नमः ।
ॐ शम्भुशक्तिगणेश्वराय नमः ।
ॐ शास्त्रे नमः ।
ॐ शिखाग्रनिलयाय नमः ।
ॐ शरण्याय नमः ।
ॐ शिखरीश्वराय नमः ।
ॐ षड् ऋतुकुसुमस्रग्विणे नमः ।
ॐ षडाधाराय नमः ।
ॐ षडक्षराय नमः ।
ॐ संसारवैद्याय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वभेषजभेषजाय नमः ।
ॐ सृष्टिस्थितिलयक्रीडाय नमः ।
ॐ सुरकुञ्जरभेदनाय नमः ।
ॐ सिन्दूरितमहाकुम्भाय नमः ।
ॐ सदसद् व्यक्तिदायकाय नमः ।
ॐ साक्षिणे नमः ।
ॐ समुद्रमथनाय नमः ।
ॐ स्वसंवेद्याय नमः ।
ॐ स्वदक्षिणाय नमः ।
ॐ स्वतन्त्राय नमः ।
ॐ सत्यसङ्कल्पाय नमः ।
ॐ सामगानरताय नमः ।
ॐ सुखिने नमः ।
ॐ हंसाय नमः ।
ॐ हस्तिपिशाचीशाय नमः ।
ॐ हवनाय नमः ।
ॐ हव्यकव्यभुजे नमः ।
ॐ हव्याय नमः ।
ॐ हुतप्रियाय नमः ।
ॐ हर्षाय नमः ।
ॐ हृल्लेखामन्त्रमध्यगाय नमः ।
ॐ क्षेत्राधिपाय नमः ।
ॐ क्षमाभर्त्रे नमः ।
ॐ क्षमापरपरायणाय नमः ।
ॐ क्षिप्रक्षेमकराय नमः ।
ॐ क्षेमानन्दाय नमः ।
ॐ क्षोणीसुरद्रुमाय नमः ।
ॐ धर्मप्रदाय नमः ।
ॐ अर्थदाय नमः ।
ॐ कामदात्रे नमः ।
ॐ सौभाग्यवर्धनाय नमः ।
ॐ विद्याप्रदाय नमः ।
ॐ विभवदाय नमः ।
ॐ भुक्तिमुक्तिफलप्रदाय नमः ।
ॐ अभिरूप्यकराय नमः ।
ॐ वीरश्रीप्रदाय नमः ।
ॐ विजयप्रदाय नमः ।
ॐ सर्ववश्यकराय नमः ।
ॐ गर्भदोषघ्ने नमः ।
ॐ पुत्रपौत्रदाय नमः ।
ॐ मेधादाय नमः ।
ॐ कीर्तिदाय नमः ।
ॐ शोकहारिणे नमः ।
ॐ दौर्भाग्यनाशनाय नमः ।
ॐ प्रतिवादिमुखस्तम्भाय नमः ।
ॐ रुष्टचित्तप्रसादनाय नमः ।
ॐ पराभिचारशमनाय नमः ।
ॐ दुःखभञ्जनकारकाय नमः ।
ॐ लवाय नमः ।
ॐ त्रुटये नमः ।
ॐ कलायै नमः ।
ॐ काष्टायै नमः ।
ॐ निमेषाय नमः ।
ॐ तत्पराय नमः ।
ॐ क्षणाय नमः ।
ॐ घट्यै नमः ।
ॐ मुहूर्ताय नमः ।
ॐ प्रहराय नमः ।
ॐ दिवा नमः ।
ॐ नक्तं नमः ॥ ७०० ॥

ॐ अहर्निशं नमः ।
ॐ पक्षाय नमः ।
ॐ मासाय नमः ।
ॐ अयनाय नमः ।
ॐ वर्षाय नमः ।
ॐ युगाय नमः ।
ॐ कल्पाय नमः ।
ॐ महालयाय नमः ।
ॐ राशये नमः ।
ॐ तारायै नमः ।
ॐ तिथये नमः ।
ॐ योगाय नमः ।
ॐ वाराय नमः ।
ॐ करणाय नमः ।
ॐ अंशकाय नमः ।
ॐ लग्नाय नमः ।
ॐ होरायै नमः ।
ॐ कालचक्राय नमः ।
ॐ मेरवे नमः ।
ॐ सप्तर्षिभ्यो नमः ।
ॐ ध्रुवाय नमः ।
ॐ राहवे नमः ।
ॐ मन्दाय नमः ।
ॐ कवये नमः ।
ॐ जीवाय नमः ।
ॐ बुधाय नमः ।
ॐ भौमाय नमः ।
ॐ शशिने नमः ।
ॐ रवये नमः ।
ॐ कालाय नमः ।
ॐ सृष्टये नमः ।
ॐ स्थितये नमः ।
ॐ विश्वस्मै स्थावराय जङ्गमाय नमः ।
ॐ भुवे नमः ।
ॐ अद्भ्यो नमः ।
ॐ अग्नये नमः ।
ॐ मरुते नमः ।
ॐ व्योम्ने नमः ।
ॐ अहंकृतये नमः ।
ॐ प्रकृतये नमः ।
ॐ पुंसे नमः ।
ॐ ब्रह्मणे नमः ।
ॐ विष्णवे नमः ।
ॐ शिवाय नमः ।
ॐ रुद्राय नमः ।
ॐ ईशाय नमः ।
ॐ शक्तये नमः ।
ॐ सदाशिवाय नमः ।
ॐ त्रिदशेभ्यो नमः ।
ॐ पितृभ्यो नमः ।
ॐ सिद्धेभ्यो नमः ।
ॐ यक्षेभ्यो नमः ।
ॐ रक्षोभ्यो नमः ।
ॐ किन्नरेभ्यो नमः ।
ॐ साध्येभ्यो नमः ।
ॐ विद्याधरेभ्यो नमः ।
ॐ भूतेभ्यो नमः ।
ॐ मनुष्येभ्यो नमः ।
ॐ पशुभ्यो नमः ।
ॐ खगेभ्यो नमः ।
ॐ समुद्रेभ्यो नमः ।
ॐ सरिद्भ्यो नमः ।
ॐ शैलेभ्यो नमः ।
ॐ भूताय नमः ।
ॐ भव्याय नमः ।
ॐ भवोद्भवाय नमः ।
ॐ साङ्ख्याय नमः ।
ॐ पातञ्जलाय नमः ।
ॐ योगाय नमः ।
ॐ पुराणेभ्यो नमः ।
ॐ श्रुत्यै नमः ।
ॐ स्मृत्यै नमः ।
ॐ वेदाङ्गेभ्यो नमः ।
ॐ सदाचाराय नमः ।
ॐ मीमांसायै नमः ।
ॐ न्यायविस्तराय नमः ।
ॐ आयुर्वेदाय नमः ।
ॐ धनुर्वेदीय नमः ।
ॐ गान्धर्वाय नमः ।
ॐ काव्यनाटकाय नमः ।
ॐ वैखानसाय नमः ।
ॐ भागवताय नमः ।
ॐ सात्वताय नमः ।
ॐ पाञ्चरात्रकाय नमः ।
ॐ शैवाय नमः ।
ॐ पाशुपताय नमः ।
ॐ कालामुखाय नमः ।
ॐ भैरवशासनाय नमः ।
ॐ शाक्ताय नमः ।
ॐ वैनायकाय नमः ।
ॐ सौराय नमः ।
ॐ जैनाय नमः ।
ॐ आर्हत सहितायै नमः ।
ॐ सते नमः ।
ॐ असते नमः ।
ॐ व्यक्ताय नमः ।
ॐ अव्यक्ताय नमः ।
ॐ सचेतनाय नमः ।
ॐ अचेतनाय नमः ।
ॐ बन्धाय नमः ॥ ८०० ॥

ॐ मोक्षाय नमः ।
ॐ सुखाय नमः ।
ॐ भोगाय नमः ।
ॐ अयोगाय नमः ।
ॐ सत्याय नमः ।
ॐ अणवे नमः ।
ॐ महते नमः ।
ॐ स्वस्ति नमः ।
ॐ हुम् नमः ।
ॐ फट् नमः ।
ॐ स्वधा नमः ।
ॐ स्वाहा नमः ।
ॐ श्रौषण्णमः ।
ॐ वौषण्णमः ।
ॐ वषण्णमः ।
ॐ नमो नमः ।
ॐ ज्ञानाय नमः ।
ॐ विज्ञानाय नमः ।
ॐ आनंदाय नमः ।
ॐ बोधाय नमः ।
ॐ संविदे नमः ।
ॐ शमाय नमः ।
ॐ यमाय नमः ।
ॐ एकस्मै नमः ।
ॐ एकाक्षराधाराय नमः ।
ॐ एकाक्षरपरायणाय नमः ।
ॐ एकाग्रधिये नमः ।
ॐ एकवीराय नमः ।
ॐ एकानेकस्वरूपधृते नमः ।
ॐ द्विरूपाय नमः ।
ॐ द्विभुजाय नमः ।
ॐ द्व्यक्षाय नमः ।
ॐ द्विरदाय नमः ।
ॐ द्विपरक्षकाय नमः ।
ॐ द्वैमातुराय नमः ।
ॐ द्विवदनाय नमः ।
ॐ द्वन्द्वातीताय नमः ।
ॐ द्व्यातीगाय नमः ।
ॐ त्रिधाम्ने नमः ।
ॐ त्रिकराय नमः ।
ॐ त्रेतात्रिवर्गफलदायकाय नमः ।
ॐ त्रिगुणात्मने नमः ।
ॐ त्रिलोकादये नमः ।
ॐ त्रिशक्तिशाय नमः ।
ॐ त्रिलोचनाय नमः ।
ॐ चतुर्बाहवे नमः ।
ॐ चतुर्दन्ताय नमः ।
ॐ चतुरात्मने नमः ।
ॐ चतुर्मुखाय नमः ।
ॐ चतुर्विधोपायमयाय नमः ।
ॐ चतुर्वर्णाश्रमाश्रयाय नमः ।
ॐ चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकाय नमः ।
ॐ चतुर्थीपूजनप्रीताय नमः ।
ॐ चतुर्थीतिथिसम्भवाय नमः ।
ॐ पञ्चाक्षरात्मने नमः ।
ॐ पञ्चात्मने नमः ।
ॐ पञ्चास्याय नमः ।
ॐ पञ्चकृत्यकृते नमः ।
ॐ पञ्चाधाराय नमः ।
ॐ पञ्चवर्णाय नमः ।
ॐ पञ्चाक्षरपरायणाय नमः ।
ॐ पञ्चतालाय नमः ।
ॐ पञ्चकराय नमः ।
ॐ पञ्चप्रणवभाविताय नमः ।
ॐ पञ्चब्रह्ममयस्फूर्तये नमः ।
ॐ पञ्चावरणवारिताय नमः ।
ॐ पञ्चभक्ष्यप्रियाय नमः ।
ॐ पञ्चबाणाय नमः ।
ॐ पञ्चशिवात्मकाय नमः ।
ॐ षट्कोणपीठाय नमः ।
ॐ षट्चक्रधाम्ने नमः ।
ॐ षड्ग्रन्थिभेदकाय नमः ।
ॐ षडध्वध्वान्तविध्वंसिने नमः ।
ॐ षडङ्गुलमहाह्रदाय नमः ।
ॐ षण्मुखाय नमः ।
ॐ षण्मुखभ्रात्रे नमः ।
ॐ षट्शक्तिपरिवारिताय नमः ।
ॐ षड्वैरिवर्गविध्वंसिने नमः ।
ॐ षडूर्मिमयभञ्जनाय नमः ।
ॐ षट्तर्कदूराय नमः ।
ॐ षट्कर्मनिरताय नमः ।
ॐ षड्रसाश्रयाय नमः ।
ॐ सप्तपातालचरणाय नमः ।
ॐ सप्तद्वीपोरुमण्डलाय नमः ।
ॐ सप्तस्वर्लोकमुकुटाय नमः ।
ॐ सप्तसाप्तिवरप्रदाय नमः ।
ॐ सप्तांगराज्यसुखदाय नमः ।
ॐ सप्तर्षिगणमण्डिताय नमः ।
ॐ सप्तछन्दोनिधये नमः ।
ॐ सप्तहोत्रे नमः ।
ॐ सप्तस्वराश्रयाय नमः ।
ॐ सप्ताब्धिकेलिकासाराय नमः ।
ॐ सप्तमातृनिषेविताय नमः ।
ॐ सप्तछन्दो मोदमदाय नमः ।
ॐ सप्तछन्दोमखप्रभवे नमः ।
ॐ अष्टमूर्तिध्येयमूर्तये नमः ।
ॐ अष्टप्रकृतिकारणाय नमः ।
ॐ अष्टाङ्गयोगफलभुवे नमः ।
ॐ अष्टपत्राम्बुजासनाय नमः ।
ॐ अष्टशक्तिसमृद्धश्रिये नमः ॥ ९०० ॥

ॐ अष्टैश्वर्यप्रदायकाय नमः ।
ॐ अष्टपीठोपपीठश्रिये नमः ।
ॐ अष्टमातृसमावृताय नमः ।
ॐ अष्टभैरवसेव्याय नमः ।
ॐ अष्टवसुवन्द्याय नमः ।
ॐ अष्टमूर्तिभृते नमः ।
ॐ अष्टचक्रस्फूरन्मूर्तये नमः ।
ॐ अष्टद्रव्यहविः प्रियाय नमः ।
ॐ नवनागासनाध्यासिने नमः ।
ॐ नवनिध्यनुशासिताय नमः ।
ॐ नवद्वारपुराधाराय नमः ।
ॐ नवाधारनिकेतनाय नमः ।
ॐ नवनारायणस्तुत्याय नमः ।
ॐ नवदुर्गा निषेविताय नमः ।
ॐ नवनाथमहानाथाय नमः ।
ॐ नवनागविभूषणाय नमः ।
ॐ नवरत्नविचित्राङ्गाय नमः ।
ॐ नवशक्तिशिरोधृताय नमः ।
ॐ दशात्मकाय नमः ।
ॐ दशभुजाय नमः ।
ॐ दशदिक्पतिवन्दिताय नमः ।
ॐ दशाध्यायाय नमः ।
ॐ दशप्राणाय नमः ।
ॐ दशेन्द्रियनियामकाय नमः ।
ॐ दशाक्षरमहामन्त्राय नमः ।
ॐ दशाशाव्यापिविग्रहाय नमः ।
ॐ एकादशादिभीरुद्रैः स्तुताय नमः ।
ॐ एकादशाक्षराय नमः ।
ॐ द्वादशोद्दण्डदोर्दण्डाय नमः ।
ॐ द्वादशान्तनिकेतनाय नमः ।
ॐ त्रयोदशाभिदाभिन्नविश्वेदेवाधिदैवताय नमः ।
ॐ चतुर्दशेन्द्रवरदाय नमः ।
ॐ चतुर्दशमनुप्रभवे नमः ।
ॐ चतुर्दशादिविद्याढ्याय नमः ।
ॐ चतुर्दशजगत्प्रभवे नमः ।
ॐ सामपञ्चदशाय नमः ।
ॐ पञ्चदशीशीतांशुनिर्मलाय नमः ।
ॐ षोडशाधारनिलयाय नमः ।
ॐ षोडशस्वरमातृकाय नमः ।
ॐ षोडशान्त पदावासाय नमः ।
ॐ षोडशेन्दुकलात्मकाय नमः ।
ॐ कलायैसप्तदश्यै नमः ।
ॐ सप्तदशाय नमः ।
ॐ सप्तदशाक्षराय नमः ।
ॐ अष्टादशद्वीप पतये नमः ।
ॐ अष्टादशपुराणकृते नमः ।
ॐ अष्टादशौषधीसृष्टये नमः ।
ॐ अष्टादशविधिस्मृताय नमः ।
ॐ अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदाय नमः ।
ॐ एकविंशाय पुंसे नमः ।
ॐ एकविंशत्यङ्गुलिपल्लवाय नमः ।
ॐ चतुर्विंशतितत्वात्मने नमः ।
ॐ पञ्चविंशाख्यपुरुषाय नमः ।
ॐ सप्तविंशतितारेशाय नमः ।
ॐ सप्तविंशति योगकृते नमः ।
ॐ द्वात्रिंशद्भैरवाधीशाय नमः ।
ॐ चतुस्त्रिंशन्महाह्रदाय नमः ।
ॐ षट् त्रिंशत्तत्त्वसंभूतये नमः ।
ॐ अष्टात्रिंशकलातनवे नमः ।
ॐ नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलाय नमः ।
ॐ पञ्चाशदक्षरश्रेण्यै नमः ।
ॐ पञ्चाशद् रुद्रविग्रहाय नमः ।
ॐ पञ्चाशद् विष्णुशक्तीशाय नमः ।
ॐ पञ्चाशन्मातृकालयाय नमः ।
ॐ द्विपञ्चाशद्वपुःश्रेण्यै नमः ।
ॐ त्रिषष्ट्यक्षरसंश्रयाय नमः ।
ॐ चतुषष्ट्यर्णनिर्णेत्रे नमः ।
ॐ चतुःषष्टिकलानिधये नमः ।
ॐ चतुःषष्टिमहासिद्धयोगिनीवृन्दवन्दिताय नमः ।
ॐ अष्टषष्टिमहातीर्थक्षेत्रभैरवभावनाय नमः ।
ॐ चतुर्नवतिमन्त्रात्मने नमः ।
ॐ षण्णवत्यधिकप्रभवे नमः ।
ॐ शतानन्दाय नमः ।
ॐ शतधृतये नमः ।
ॐ शतपत्रायतेक्षणाय नमः ।
ॐ शतानीकाय नमः ।
ॐ शतमखाय नमः ।
ॐ शतधारावरायुधाय नमः ।
ॐ सहस्रपत्रनिलयाय नमः ।
ॐ सहस्रफणभूषणाय नमः ।
ॐ सहस्रशीर्ष्णे पुरुषाय नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ सहस्रपदे नमः ।
ॐ सहस्रनाम संस्तुत्याय नमः ।
ॐ सहस्राक्षबलापहाय नमः ।
ॐ दशसहस्रफणभृत्फणिराजकृतासनाय नमः ।
ॐ अष्टाशीतिसहस्राद्यमहर्षि स्तोत्रयन्त्रिताय नमः ।
ॐ लक्षाधीशप्रियाधाराय नमः ।
ॐ लक्ष्याधारमनोमयाय नमः ।
ॐ चतुर्लक्षजपप्रीताय नमः ।
ॐ चतुर्लक्षप्रकाशिताय नमः ।
ॐ चतुरशीतिलक्षाणां जीवानां देहसंस्थिताय नमः ।
ॐ कोटिसूर्यप्रतीकाशाय नमः ।
ॐ कोटिचन्द्रांशुनिर्मलाय नमः ।
ॐ शिवाभवाध्युष्टकोटिविनायकधुरन्धराय नमः ।
ॐ सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतये नमः ।
ॐ त्रयस्रिंशत्कोटिसुरश्रेणीप्रणतपादुकाय नमः ।
ॐ अनन्तनाम्ने नमः ।
ॐ अनन्तश्रिये नमः ।
ॐ अनन्तानन्तसौख्यदाय नमः ॥ १००० ॥

इति गणेशपुराणान्तर्गता श्रीगणपतिसहस्रनामावलिः समाप्ता ।

Also Read 1000 Names of Shri Ganapathy:

1000 Names of Sri Ganapati | Sahasranamavali Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Ganapati | Sahasranamavali Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top