Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Vagvadini | Sahasranama Stotram Lyrics in Hindi

Shri Vagvadini Sahasranamastotram Lyrics in Hindi:

॥ श्रीवाग्वादिनिसहस्रनामस्तोत्रम् ॥
ॐ श्रीगणेशाय नमः ।
ब्रह्मोवाच –
नन्दिकेश्वर सर्वज्ञ भक्तानुग्रहकारक ।
ऋद्धिसिद्धिप्रदं नॄणां सर्वदोषनिषूदनम् ॥ १ ॥

सर्वसिद्धिकरं पुण्यं सर्वकामार्थसाधनम् ।
आधिव्याधिहरं केन केन वा मृत्युनाशनम् ।
वक्तुमर्हसि देवेश नन्दिकेश सुरोत्तम ॥ २ ॥

श्रीनन्दिकेश्वरोवाच –
श‍ृणु ब्रह्मन्प्रवक्ष्यामि गुप्ताद्गुप्ततरं महत् ।
सर्वभक्तहितार्थाय कथिता कमलासन ॥ ३ ॥

समस्तकलहध्वंसी लोकस्य लोकवल्लभ ।
जलजास्स्थलजाश्चैव वनजा व्योमजास्तथा ॥ ४ ॥

कृत्रिमा दोषजाश्चापि भ्रान्तभ्रान्तिविनाशनम् ।
अपस्मारग्रहोन्मादजनोन्मत्तपिशाचकाः ॥ ५ ॥

दुःखप्रणाशनं नित्यं सुखं सम्प्राप्यते विधे ।
इदं स्तोत्रं न जानन्ति वाग्देवीस्मरणे यदि ॥ ६ ॥

न स सिद्धिमवाप्नोति वर्षकोटिशतैरपि ।
सर्वं सरस्वतीनाम्नां सदाशिवऋषिः स्मृतः ॥ ७ ॥

छन्दोऽनुष्टुप् तथा बीजं वाग्भवं शक्ति कीलकम् ।
रकारं सर्वकामार्थं विनियोगः प्रकीर्तिताः ॥ ८ ॥

अथ ध्यानं –
शुभ्रां स्वच्छविलेपमाल्यवसनां शीतांशुखण्डोज्ज्वलां
व्याख्यामक्षगुणं सुधाब्जकलशं विद्यां च हस्ताम्बुजैः ।
विभ्राणां कमलासनां कुचनतां वाग्देवतां सुस्मितां
वाग्देवीं विभवप्रदां त्रिनयनां सौभाग्यसम्पत्करीम् ॥

ॐ श्रीवाग्वादिनी वाणी वागीश्वरी सरस्वती ।
वाचा वाचामती वाक्या वाग्देवी बालसुन्दरी ॥ १ ॥

वचसा वाचयिष्या च वल्लभा विष्णुवल्लभा ।
बालरूपा सती वृद्धा वनमाली वनेश्वरी ॥ २ ॥

वलिध्वंसप्रिया वेदा वरदा वरवर्धिनी ।
ब्राह्मी सरस्वती विद्या ब्रह्माण्डज्ञानगोचरी ॥ ३ ॥

ब्रह्मनाडी ब्रह्मज्ञानी व्रति व्रतप्रिया व्रता ।
ब्रह्मचारी बुद्धिरूपी बुद्धिदा बुद्धिदापका ॥ ४ ॥

बुद्धिः प्रज्ञा बुद्धिमती बुद्धिश्री बुद्धिवर्धिनी ।
वाराही वारुणी व्यक्ता वेणुहस्ता बलीयसी ॥ ५ ॥

वाममार्गरता देवी वामाचाररसप्रिया ।
वामस्त्था वामरूपा च वर्धिनी वामलोचना ॥ ६ ॥

विश्वव्यापी विश्वरूपा विश्वस्था विश्वमोहिनी ।
विन्ध्यस्था विन्ध्यनिलया विन्दुदा विन्दुवासिनी ॥ ७ ॥

वक्त्रस्था वक्ररूपा च विज्ञानज्ञानदायिनी ।
विघ्नहर्त्री विघ्नदात्री विघ्नराजस्य वल्लभा ॥ ८ ॥

वासुदेवप्रिया देवी वेणुदत्तबलप्रदा ।
बलभद्रस्य वरदा बलिराजप्रपूजिता ॥ ९ ॥

वाक्यं वाचमती ब्राह्मी वाग्भवानी विधायिका ।
वायुरूपा च वागीशा वेगस्था वेगचारिणी ॥ १० ॥

ब्रह्ममूर्तिर्वाङ्मयी च वार्ताज्ञा वङ्मयेश्वरी ।
बन्धमोक्षप्रदा देवी ब्रह्मनादस्वरूपिणी ॥ ११ ॥

वसुन्धरास्थिता देवी वसुधारस्वरूपिणी ।
वर्गरूपा वेगधात्री वनमालाविभूषणा ॥ १२ ॥

वाग्देवेश्वरकण्ठस्था वैद्या विबुधवन्दिता ।
विद्युत्प्रभा विन्दुमती वाञ्छिता वीरवन्दिता ॥ १३ ॥

वह्निज्वाला वह्निमुखी विश्वव्यापी विशालदा ।
विद्यारूपा च श्रीविद्या विद्याधरप्रपूजिता ॥ १४ ॥

विद्यास्था विद्यया देवी विद्यादेवी विषप्रहा ।
विषघ्नी विषदोषघ्नी वृक्षमूलप्रतिष्ठिता ॥ १५ ॥

वृक्षरूपी च वृक्षेशी वृक्षफलप्रदायका ।
विविधौषधसम्पन्ना विविधोत्पातनाशिनी ॥ १६ ॥

विधिज्ञा विविधाकारा विश्वगर्भा वनेश्वरी ।
विश्वेश्वरी विश्वयोनीर्विश्वमाता विधिप्रिया ॥ १७ ॥

विभूतिरूपा वैभूती वंशी वंशीधरप्रिया ।
विशाललोचना देवी वित्तदा च वरानना ॥ १८ ॥

वायुमण्डलसंस्था च वह्निमण्डलसंस्थिता ।
गङ्गादेवी च गङ्गा च गुणादात्री गुणात्मिका ॥ १९ ॥

गुणाश्रया गुणवती गुणशीलसमन्विता ।
गर्भप्रदा गर्भदात्री गर्भरक्षाप्रदायिनी ॥ २० ॥

गीरूपा गीष्मती गीता गीतज्ञा गीतवल्लभा ।
गिरिधारीप्रिया देवी गिरिराजसुता सती ॥ २१ ॥

गतिदा गर्भदा गर्भा गणपूजा गणेश्वरी ।
गम्भीरा गहना गुह्या गन्धर्वगणसेविता ॥ २२ ॥

गुह्येश्वरी गुह्यकाली गुप्तमार्गप्रदायिनी ।
गुरुमूर्तिर्गुरुस्था च गोचरा गोचरप्रदा ॥ २३ ॥

गोपिनी गोपिका गौरी गोपालज्ञानतत्परा ।
गोरूपा गोमतीदेवी गोवर्धनधरप्रिया ॥ २४ ॥

गुणदात्री गुणशीला गुणरूपा गुणेश्वरी ।
गायत्रीरूपा गान्धारी गङ्गाधरप्रिया तथा ॥ २५ ॥

गिरिकन्या गिरिस्था च गूढरूपा गृहस्थिता ।
गृहक्लेशविध्वंसिनी गृहे कलहभञ्जनी ॥ २६ ॥

गगनाडी गर्भज्योतिर्गगनाकारशोभिता ।
गमसागमस्वरूपा च गरुडासनवल्लभा ॥ २७ ॥

गन्धरूपा गन्धरूपी गलस्था गलगोचरा ।
गजेन्द्रगामिनीदेवी ग्रहनक्षत्रवन्दिता ॥ २८ ॥

गोपकन्या गोकुलेशी गोपीचन्दनलेपिता ।
दयावती दुःखहन्त्री दुष्टदारिद्र्यनाशिनी ॥ २९ ॥

दिव्यदेहा दिव्यमुखी दिव्यचन्दनलेपिता ।
दिव्यवस्त्रपरीधाना दम्भलोभविवर्जिता ॥ ३० ॥

दाता दामोदरप्रीता दामोदरपरायणा ।
दनुजेन्द्रविनाशी च दानवागणसेविता ॥ ३१ ॥

दुष्कृतघ्नी दूरगामी दुर्मति-दुःखनाशिनी ।
दावाग्निरूपिणीदेवी दशग्रीववरपदा ॥ ३२ ॥

दयानदी दयाशीला दानशीला च दर्शिनी ।
दृढदेवी दृढदृष्टी दुग्घप्रपानतत्परा ॥ ३३ ॥

दुग्धवर्णा दुग्धप्रिया दधिदुग्धप्रदायका ।
देवकी देवमाता च देवेशी देवपूजिता ॥ ३४ ॥

देवीमूर्तिर्दयामूर्तिर्दोषहा दोषनाशिनी ।
दोषघ्नी दोषदमनी दोलाचलप्रतिष्ठिता ॥ ३५ ॥

दैन्यहा दैत्यहन्त्री च देवारिगणमर्दिनी ।
दम्भकृत् दम्भनाशी च दाडिमीपुष्पवल्लभा ॥ ३६ ॥

दशना दाडिमाकारा दाडिमीकुसुमप्रभा ।
दासीवरप्रदा दीक्षा दीक्षिता दीक्षितेश्वरी ॥ ३७ ॥

दिलीपराजबलदा दिनरात्रिस्वरूपिणी ।
दिगम्बरी दीप्ततेजा डमरूभुजधारिणी ॥ ३८ ॥

द्रव्यरूपी द्रव्यकरी दशरथवरप्रदा ।
ईश्वरी ईश्वरभार्या च इन्द्रियरूपसंस्थिता ॥ ३९ ॥

इन्द्रपूज्या इन्द्रमाता ईप्सित्वफलदयका ।
इन्द्राणी इङ्गितज्ञा च ईशानी ईश्वरप्रिया ॥ ४० ॥

इष्टमूर्ती इहैवस्था इच्छारूपा इहेश्वरी ।
इच्छाशक्तिरीश्वरस्था इल्वदैत्यनिषूदिनी ॥ ४१ ॥

इतिहासादिशास्त्रज्ञा इच्छाचारीस्वरूपिणी ।
ईकाराक्षररूपा च इन्द्रियवरवर्धिनी ॥ ४२ ॥

इद्रलोकनिवासिनां ईप्सितार्थप्रदायिनी ।
नारी नारायणप्रीता नारसिंही नरेश्वरी ॥ ४३ ॥

नर्मदा नन्दिनीरूपा नर्तकी नगनन्दिनी ।
नारायणप्रिया नित्यं नानाविद्याप्रदायिनी ॥ ४४ ॥

नानाशास्त्रधरीदेवी नानापुष्पसुशोभिता ।
नयनत्रयरूपा च नृत्यनाथस्य वल्लभा ॥ ४५ ॥

नदीरूपा नृत्यरूपा नागरी नगरेश्वरी ।
नानार्थदाता नलिनी नारदादिप्रपूजिता ॥ ४६ ॥

नतारम्भेश्वरीदेवी नीतिज्ञा च निरञ्जनी ।
नित्यसिंहासनस्था च नित्यकल्याणकारिणी ॥ ४७ ॥

नित्यानन्दकरी देवी नित्यसिद्धिप्रदायका ।
नेत्रपद्मदलाकारा नेत्रत्रयस्वरूपिणी ॥ ४८ ॥

नौमीदेवीनाममात्रा नकाराक्षररूपिणी ।
नन्दा निद्रा महानिद्रा नूपुरपदशोभिता ॥ ४९ ॥

नाटकी नाटकाध्यक्षा नरानन्दप्रदायिका ।
नानाभरणसन्तुष्टानानारत्नविभूषणा ॥ ५० ॥

नरकनाशिनीदेवी नागान्तकस्थिता प्रिया ।
नीतिविद्याप्रदा देवी न्यायशास्त्रविशारदी ॥ ५१ ॥

नरलोकगतादेवी नरकासुरनाशिनी ।
अनन्तशक्तिरूपा च नैमित्तिकप्रपूजिता ॥ ५२ ॥

नानाशस्त्रधरादेवी नारबिन्दुस्वरूपिणी ।
नक्षत्ररूपा नन्दिता नगस्था नगनन्दिनी ॥ ५३ ॥

सारदा सरितारूपा सत्यभामा सुरेश्वरी ।
सर्वानन्दकरीदेवी सर्वाभरणभूषिता ॥ ५४ ॥

सर्वविद्याधरादेवी सर्वशास्त्रस्वरूपिणी ।
सर्वमङ्गलदात्री च सर्वकल्याणकारिणी ॥ ५५ ॥

सर्वज्ञा सर्वभाग्यं च सर्वसन्तुष्टिदायका ।
सर्वभारधरादेवी सर्वदेशनिवासिनी ॥ ५६ ॥

सर्वदेवप्रियादेवी सर्वदेवप्रपूजिता ।
सर्वदोषहरादेवी सर्वपातकनाशिनी ॥ ५७ ॥

सर्वसंसारसंराज्ञी सर्वसङ्कष्टनाशिनी । सर्वसंसारसाराणि
सर्वकलहविध्वंसी सर्वविद्याधिदेवता ॥ ५८ ॥

सर्वमोहनकारी च सर्वमन्त्रप्रसिद्धिदा ।
सर्वतन्त्रात्मिकादेवी सर्वयन्त्राधिदेवता ॥ ५९ ॥

सर्वमण्डलसंस्था च सर्वमायाविमोहिनी ।
सर्वहृदयवासिन्यो सर्वमात्मस्वरूपिणी ॥ ६० ॥

सर्वकारणकारी च सर्वशान्तस्वरूपिणी ।
सर्वसिद्धिकरस्था च सर्ववाक्यस्वरूपिणी ॥ ६१ ॥

सर्वाधारा निराधारा सर्वाङ्गसुन्दरी सती ।
सर्ववेदमयीदेवी सर्वशब्दस्वरूपिणी ॥ ६२ ॥

सर्वब्रह्माण्डव्याप्ता च सर्वब्रह्माण्डवासिनी ।
सर्वाचाररता साध्वी सर्वबीजस्वरूपिणी ॥ ६३ ॥

सर्वोन्मादविकारघ्नी सर्वकल्मषनाशिनी ।
सर्वदेहगतादेवी सर्वयोगेश्वरी परा ॥ ६४ ॥

सर्वकण्ठस्थिता नित्यं सर्वगर्भासुरक्षका ।
सर्वभावा प्रभावाद्या सर्वलक्ष्मीप्रदायिका ॥ ६५ ॥

सर्वैश्वर्यप्रदा देवी सर्ववायुस्वरूपिणी ।
सुरलोकगता देवी सर्वयोगेश्वरी परा ॥ ६६ ॥

सर्वकण्ठस्थिता नित्यं सुरासुरवरप्रदा ।
सूर्यकोटिप्रतीकाशा सूर्यमण्डलसंस्थिता ॥ ६७ ॥

शून्यमण्डलसंस्था च सात्त्विकी सत्यदा तथा ।
सरिता सरिताश्रेष्ठा सदाचारसुशोभिता ॥ ६८ ॥

साकिनी साम्यरूपा च साध्वी साधुजनाश्रया ।
सिद्धिदा सिद्धिरूपा च सिद्धिस्सिद्धिविवर्धिनी ॥ ६९ ॥

श्रितकल्याणदादेवी सर्वमोहाधिदेवता ।
सिद्धेश्वरी च सिद्धात्मा सर्वमेधाविवर्धिनी ॥ ७० ॥

शक्तिरूपा च शक्तेशी श्यामा कष्टनिषूदिनी ।
सर्वभक्षा शङ्खिनी च सरसागतकारिणी ॥ ७१ ॥

सर्वप्रणवरूपा च सर्व अक्षररूपिणी ।
सुखदा सौख्यदा भोगा सर्वविघ्नविदारिणी ॥ ७२ ॥

सन्तापहा सर्वबीजा सावित्री सुरसुन्दरी ।
श्रीरूपा श्रीकरी श्रीश्च शिशिराचलवासिनी ॥ ७३ ॥

शैलपुत्री शैलधात्री शरणागतवल्लभा ।
रत्नेश्वरी रत्नप्रदा रत्नमन्दिरवासिनी ॥ ७४ ॥

रत्नमालाविचित्राङ्गी रत्नसिंहासनस्थिता ।
रसधारारसरता रसज्ञा रसवल्लभा ॥ ७५ ॥

रसभोक्त्री रसरूपा षड्रसज्ञा रसेश्वरी ।
रसेन्द्रभूषणा नित्यं रतिरूपा रतिप्रदा ॥ ७६ ॥

राजेश्वरी राकिणी च रावणावरदायका । दशास्यवरदायका
रामकान्ता रामप्रिया रामचन्द्रस्य वल्लभा ॥ ७७ ॥

राक्षसघ्नी राजमाता राधा रुद्रेश्वरी निशा ।
रुक्मिणी रमणी रामा राज्यभुग्राज्यदायका ॥ ७८ ॥

रक्ताम्बरधरादेवी रकाराक्षररूपिणी ।
रासिस्था रामवरदा राज्यदा राज्यमण्डिता ॥ ७९ ॥

रोगहा लोभहा लोला ललिता ललितेश्वरी ।
तन्त्रिणी तन्त्ररूपा च तत्त्वी तत्त्वस्वरूपिणी ॥ ८० ॥

तपसा तापसी तारा तरुणानङ्गरूपिणी ।
तत्त्वज्ञा तत्त्वनिलया तत्त्वालयनिवासिनी ॥ ८१ ॥

तमोगुणप्रदादेवी तारिणी तन्त्रदायिका ।
तकाराक्षररूपा च तारकाभयभञ्जनी ॥ ८२ ॥

तीर्थरूपा तीर्थसंस्था तीर्थकोटिफलप्रदा ।
तीर्थमाता तीर्थज्येष्ठा तरङ्गतीर्थदायका ॥ ८३ ॥

त्रैलोक्यजननीदेवी त्रैलोक्यभयभञ्जनी ।
तुलसी तोतला तीर्था त्रिपुरा त्रिपुरेश्वरी ॥ ८४ ॥

त्रैलोक्यपालकध्वंसी त्रिवर्गफलदायका ।
त्रिकालज्ञा त्रिलोकेशी तृतीयज्वरनाशिनी ॥ ८५ ॥

त्रिनेत्रधारी त्रिगुणा त्रिसुगन्धिविलेपिनी ।
त्रिलौहदात्री गम्भीरा तारागणविलासिनी ॥ ८६ ॥

त्रयोदशगुणोपेता तुरीयमूर्तिरूपिणी ।
ताण्डवेशी तुङ्गभद्रा तुष्टिस्त्रेतायुगप्रिया ॥ ८७ ॥

तरङ्गिणी तरङ्गस्था तपोलोकनिवासिनी ।
तप्तकाञ्चनवर्णाभा तपःसिद्धिविधायिनी ॥ ८८ ॥

त्रिशक्तिस्त्रिमधुप्रीता त्रिवेणी त्रिपुरान्तका ।
पद्मस्था पद्महस्ता च परत्रफलदायका ॥ ८९ ॥

परमात्मा पद्मवर्णा परापरतराष्टमा ।
परमेष्ठी परञ्ज्योतिः पवित्रा परमेश्वरी ॥ ९० ॥

पारकर्त्री पापहन्त्री पातकौघविनाशिनी ।
परमानन्ददादेवी प्रीतिदा प्रीतिवर्द्धिनी ॥ ९१ ॥

पुण्यनाम्नी पुण्यदेहा पुष्टिपुस्तकधारिणी ।
पुत्रदात्री पुत्रमाता पुरुषार्थपुरेश्वरी ॥ ९२ ॥

पौर्णमीपुण्यफलदा पङ्कजासनसंस्थिता ।
पृथ्वीरूपा च पृथिवी पीताम्बरस्य वल्लभा ॥ ९३ ॥

पाठादेवी च पठिता पाठेशी पाठवल्लभा ।
पन्नगान्तकसंस्था च परार्धाङ्गोश्वपद्धती ॥ ९४ ॥

हंसिनी हासिनीदेवी हर्षरूपा च हर्षदा ।
हरिप्रिया हेमगर्भा हंसस्था हंसगामिनी ॥ ९५ ॥

हेमालङ्कारसर्वाङ्गी हैमाचलनिवासिनी ।
हुत्वा हसितदेहा च हाहा हूहू सदाप्रिया ॥ ९६ ॥

हंसरूपा हंसवर्णा हिता लोकत्रयेश्वरी ।
हुङ्कारनादिनीदेवी हुतभुक्ता हुतेश्वरी ॥ ९७ ॥

ज्ञानरूपा च ज्ञानज्ञा ज्ञानदा ज्ञानसिद्धिदा ।
ज्ञानेश्वरी ज्ञानगम्या ज्ञानी ज्ञानविशालधीः ॥ ९८ ॥

ज्ञानमूर्तिर्ज्ञानधात्री तातव्याकरणादिनी ।
अज्ञाननाशिनीदेवी ज्ञाता ज्ञानार्णवेश्वरी ॥ ९९ ॥

महादेवी महामोहा महायोगरता तथा ।
महाविद्या महाप्रज्ञा महाज्ञाना महेश्वरी ॥ १०० ॥

मञ्जुश्री मञ्जुरप्रीता मञ्जुघोषस्य वन्दिता ।
महामञ्जुरिकादेवी मणीमुकुटशोभिता ॥ १०१ ॥

मालाधरी मन्त्रमूर्तिर्मदनी मदनप्रदा ।
मानरूपा मनसी च मतिर्मतिमनोत्सवा ॥ १०२ ॥

मानेश्वरी मानमान्या मधुसूदनवल्लभा ।
मृडप्रिया मूलसंस्था मूर्ध्निस्था मुनिवन्दिता ॥ १०३ ॥

मुखबेक्ता ?? मूठहन्ता मृत्युर्भयविनाशिनी ।
मृत्रिका मातृका मेधा मेधावी माधवप्रिया ॥ १०४ ॥

मकाराक्षररूपा च मणिरत्नविभूषिता ।
मन्त्राराधनतत्त्वज्ञा मन्त्रयन्त्रफलप्रदा ॥ १०५ ॥

मनोद्भवा मन्दहासा मङ्गला मङ्गलेश्वरी ।
मौनहन्त्री मोददात्री मैनाकपर्वते स्थिता ॥ १०६ ॥

मणिमती मनोज्ञा च माता मार्गविलासिनी ।
मूलमार्गरतादेवी मानसा मानदायिनी ॥ १०७ ॥

भारती भुवनेशी च भूतज्ञा भूतपूजिता ।
भद्रगङ्गा भद्ररूपा भुवना भुवनेश्वरी ॥ १०८ ॥

भैरवी भोगदादेवी भैषज्या भैरवप्रिया ।
भवानन्दा भवातुष्टी भाविनी भरतार्चिता ॥ १०९ ॥

भागीरथी भाष्यरूपा भाग्या भाग्यवतीति च ।
भद्रकल्याणदादेवी भ्रान्तिहा भ्रमनाशिनी ॥ ११० ॥

भीमेश्वरी भीतिहन्त्री भवपातकभञ्जनी ।
भक्तोत्सवा भक्तप्रिया भक्तस्था भक्तवत्सला ॥ १११ ॥

भञ्जा च भूतदोषघ्नी भवमाता भवेश्वरी ।
भयहा भग्नहा भव्या भवकारणकारिणी ॥ ११२ ॥

भूतैश्वर्यप्रदा देवी भूषणाङ्की भवप्रिया ।
अनन्यज्ञानसम्पन्ना अकाराक्षररूपिणी ॥ ११३ ॥

अनन्तमहिमा त्र्यक्षी अजपामन्त्ररूपिणी ।
अनेकसृष्टिसम्पूर्णा अनेकाक्षरज्ञानदा ॥ ११४ ॥

आनन्ददायिनी देवी अमृता अमृतोद्भवा ।
आनन्दिनी च अरिहा अन्नस्था अग्निवच्छविः ॥ ११५ ॥

अत्यन्तज्ञानसम्पन्ना अणिमादिप्रसिद्धिदा ।
आरोग्यदायिनी आढ्या आदिशक्तिरभीरुहा ॥ ११६ ॥ आज्ञा
अगोचरी आदिमाता अश्वत्थवृक्षवासिनी ।
धर्मावती धर्मधरी धरणीधरवल्लभा ॥ ११७ ॥

धारणा धारणाधीशा धर्मरूपधराधरी ।
धर्ममाता धर्मकर्त्री धनदा च धनेश्वरी ॥ ११८ ॥

ध्रुवलोकगता धाता धरित्री धेनुरूपधृक् ।
धीरूपा धीप्रदा धीशा धृतिर्वाक्सिद्धिदायका ॥ ११९ ॥

धैर्यकृद्धैर्यदा धैर्या धौतवस्त्रेण शोभिता ।
धुरन्धरी धुन्धिमाता धारणाशक्तिरूपिणी ॥ १२० ॥

वैकुण्ठस्था कण्ठनिलया कामदा कामचारिणी ।
कामधेनुस्वरूपा च कष्टकल्लोलहारिणी ॥ १२१ ॥

कुमुदहासिनी नित्यं कैलासपददायका ।
कमला कमलस्था च कालहा क्लेशनाशिनी ॥ १२२ ॥

कलाषोडशसंयुक्ता कङ्काली कमलेश्वरी ।
कुमारी कुलसन्तोषा कुलज्ञा कुलवर्द्धिनी ॥ १२३ ॥

कालकूटविषध्वंसी कमलापतिमोहनी ।
कुम्भस्था कलशस्था च कृष्णवक्षोविलासिनी ॥ १२४ ॥

कृत्यादिदोषहा कुन्ती कस्तूरीतिलकप्रिया ।
कर्पुरवासितादेहा कर्पूरमोदधारिणी ॥ १२५ ॥

कुशस्था कुशमूलस्था कुब्जा कैटभनाशिनी ।
कुरुक्षेत्रकृता देवी कुलश्री कुलभैरवी ॥ १२६ ॥

कृतब्रह्माण्डसर्वेशी काली कङ्कणधारिणी ।
कुबेरपूजिता देवी कण्ठकृत्कण्ठकर्षणी ॥ १२७ ॥

कुमुदःपुष्पसन्तुष्टा किङ्किणीपादभूषिणी ।
कुङ्कुमेन विलिप्ताङ्गी कुङ्कुमद्रवलेपिता ॥ १२८ ॥

कुम्भकर्णस्य भ्रमदा कुञ्जरासनसंस्थिता ।
कुसुममालिकावेत्री कौशिकीकुसुमप्रिया ॥ १२९ ॥

यज्ञरूपा च यज्ञेशी यशोदा जलशायिनी ।
यज्ञविद्या योगमाया जानकी जननी जया ॥ १३० ॥

यमुनाजपसन्तुष्टा जपयज्ञफलप्रदा ।
योगधात्री योगदात्री यमलोकनिवारिणी ॥ १३१ ॥

यशःकीर्तिप्रदा योगी युक्तिदा युक्तिदायनी ।
जैवनी युगधात्री च यमलार्जुनभञ्जनी ॥ १३२ ॥

जृम्भन्यादिरतादेवी जमदग्निप्रपूजिता ।
जालन्धरी जितक्रोधा जीमूतैश्वर्यदायका ॥ १३३ ॥

क्षेमरूपा क्षेमकरी क्षेत्रदा क्षेत्रवर्धिनी ।
क्षारसमुद्रसंस्था च क्षीरजा क्षीरदायका ॥ १३४ ॥

क्षुधाहन्त्री क्षेमधात्री क्षीरार्णवसमुद्भवा ।
क्षीरप्रिया क्षीरभोजी क्षत्रियकुलवर्द्धिनी ॥ १३५ ॥

खगेन्द्रवाहिनी खर्व खचारीणी खगेश्वरी ।
खरयूथविनाशी च खड्गहस्ता च खञ्जना ॥ १३६ ॥

षट्चक्राधारसंस्था च षट्चक्रस्याधिदेवता ।
षडङ्गज्ञानसम्पन्ना खण्डचन्द्रार्धशेखरा ॥ १३७ ॥

षट्कर्मरहिता ख्याता खरबुद्धिनिवारिणी ।
षोडशाधारकृद्देवी षोडशभुजशोभिता ॥ १३८ ॥

षोडशमूर्तीषोडश्या खड्गखेटकधारिणी ।
घृतप्रिया घर्घरिका घुर्घुरीनादशोभिता ॥ १३९ ॥

घण्टानिनादसन्तुष्टा घण्टाशब्दस्वरूपिणी ।
घटिकाघटसंस्था च घ्राणवासी घनेश्वरी ॥ १४० ॥

चारुनेत्रा चारुवक्त्रा चतुर्बाहुश्चतुर्भुजा ।
चञ्चला चपला चित्रा चित्रिणी चित्ररञ्जिनी ॥ १४१ ॥

चन्द्रभागा चन्द्रहासा चित्रस्था चित्रशोभना ।
चित्रविचित्रमाल्याङ्गी चन्द्रकोटिसमप्रभा ॥ १४२ ॥

चन्द्रमा च चतुर्वेदा प्रचण्डा चण्डशेखरी ।
चक्रमध्यस्थिता देवी चक्रहस्ता च चक्त्रिणी ॥ १४३ ॥

चन्द्रचूडा चारुदेहा चण्डमुण्डविनाशिनी ।
चण्डेश्वरी चित्रलेखा चरणे नूपुरैर्युता ॥ १४४ ॥

चैत्रादिमासरूपा सा चामरभुजधारिणी ।
चार्वङ्का चर्चिका दिव्या चम्पादेवी चतुर्थचित् ॥ १४५ ॥

चतुर्भुजप्रिया नित्यं चतुर्वर्णफलप्रदा ।
चतुस्सागरसङ्ख्याता चक्रवर्तिफलप्रदा ॥ १४६ ॥

छत्रदात्री छिन्नमस्ता छलमध्यनिवासिनी ।
छायारूपा च छत्रस्था छुरिकाहस्तधारिणी ॥ १४७ ॥

उत्तमाङ्गी उकारस्था उमादेवीस्वरूपिणी ।
ऊर्ध्वाम्नायी उर्ध्वगाम्या ॐकाराक्षररूपिणी ॥ १४८ ॥

एकवक्त्रा देवमाता ऐन्द्री ऐश्वर्यदायका ।
औषधीशा चौषधीकृत् ओष्टस्था ओष्टवासिनी ॥ १४९ ॥

स्थावरस्था स्थलचरा स्थितिसंहारकारिका ।
रुं रुं शब्दस्वरूपा च रुङ्काराक्षररूपिणी ॥ १५० ॥

आर्युदा अद्भुतप्रदा आम्नायषट्स्वरूपिणी ।
अन्नपूर्णा अन्नदात्री आशा सर्वजनस्य च ॥ १५१ ॥

आर्तिहारी च अस्वस्था अशेषगुणसंयुता ।
शुद्धरूपा सुरूपा च सावित्री साधकेश्वरी ॥ १५२ ॥

बालिका युवती वृद्धा विश्वासी विश्वपालिनी ।
फकाररूपा फलदा फलवन्निर्फलप्रदा ॥ १५३ ॥

फणीन्द्रभूषणा देवी फकारक्षररूपिणी ।
ऋद्धिरूपी ऋकारस्था ऋणहा ऋणनाशिनी ॥ १५४ ॥

रेणुराकाररमणी परिभाषा सुभाषिता ।
प्राणापानसमानस्थोदानव्यानौ धनञ्जया ॥ १५५ ॥

कृकरा वायुरूपा च कृतज्ञा शङ्खिनी तथा ।
कृर्मनाम्न्युन्मीलनकरी जिह्वकस्वादुमीलना ॥ १५६ ॥

जिह्वारूपा जिह्वसंस्था जिह्वास्वादुप्रदायका ।
स्मृतिदा स्मृतिमूलस्था श्लोककृच्छ्लोकराशिकृत् ॥ १५७ ॥

आधारे संस्थिता देवी अनाहतनिवासिनी ।
नाभिस्था हृदयस्था च भूमध्ये द्विदले स्थिता ॥ १५८ ॥

सहस्रदलसंस्था च गुरुपत्नीस्वरूपिणी ।
इति ते कथितं प्रश्नं नाम्ना वाग्वादिनी परम् ॥ १५९ ॥

सहस्रं तु महागोप्यं देवानामपि दुर्लभम् ।
न प्रकाश्यं मयाऽऽख्यातं तव स्नेहेन आत्मभूः ॥ १६० ॥

एककालं द्विकालं वा त्रिकालं वापि भक्तितः ।
न तेषां दुर्लभं किञ्चित् त्रिषु लोकेषु वल्लभ ॥ १६१ ॥

साधकाभीष्टदो ब्रह्मा सर्वविद्याविशारदः ।
त्रिवारं यः पठिष्यति नरः शक्तिधरो भवेत् ॥ १६२ ॥

पञ्चधा भाग्यमाप्नोति सप्तधा धनवान्भवेत् ।
नवमैश्वर्यमाप्नोति साधकश्शुद्धचेतसा ॥ १६३ ॥

पठेदेकादशो नित्यं स सिद्धिभाजनो भवेत् ।
मासमेकं पठित्वा तु भवेद्योगीश्वरोपमः ॥ १६४ ॥

मासषट्कं पठेद्धीमान्सर्वविद्या प्रजायते ।
वत्सरैकं पठेद्यो मां साक्षात्सर्वाङ्गतत्त्ववित् ॥ १६५ ॥

गोरोचनाकुङ्कुमेन विलिखेद्भूर्जपत्रके ।
पूजयित्वा विधानेन देवीं वागीश्वरीं जपेत् ॥ १६६ ॥

सहस्रवारपठनान्मूकोऽपि सुकविर्भवेत् ।
पञ्चम्यां च दशम्यां च पूर्णमास्यामथापि वा ॥ १६७ ॥

गुरोराराधनतत्त्वेनार्च्चयेद्भक्तिभावतः ।
जडं हन्ति गदं हन्ति वान्तिभ्रान्तिविनाशनम् ॥ १६८ ॥

बुद्धि मेधा प्रवर्धते आरोग्यं च दिने दिने ।
अपमृत्युभयं नास्ति भूतवेतालडकिनी- ॥ १६९ ॥

राक्षसीग्रहदोषघ्नं कलिदोषनिवारणम् ।
आधिव्याधिजलोन्मग्न अपस्मारं न बाधते ॥ १७० ॥

प्रातःकाले पठेन्नित्यमुन्मादश्च विनश्यति ।
मेधाकान्तिस्मृतिदा भोगमोक्षमवाप्यते ॥ १७१ ॥

महाव्याधिर्महामूठनिर्मूलनं भवेतत्क्षणात् ।
विद्यारम्भे च वादे च विदेशगमने तथा ॥ १७२ ॥

यात्राकाले पठेद्यदि विजयं नात्र संसयः ।
सिद्धमूली तथा ब्राह्नी उग्रगन्धा हरीतकी ॥ १७३ ॥

चतुर्द्रव्यसमायुक्तं भक्तियुक्तेन मानसा ।
ब्राह्मणेन लभेद्विद्या राज्यं च क्षत्रियो लभेत् ॥ १७४ ॥

वैश्यो वाणिज्यसिद्धिं च शूद्रेषु चिरजीवितः ।
वाग्वादिनीसरस्वत्यास्सहस्रन्नाम यस्मरेत् ॥ १७५ ॥

तस्य बुद्धिः स्थिरा लक्ष्मी जायते नात्र संशयः ।
यं यं कामयते मर्त्यस्तं तं प्राप्नोति नित्यशः ॥ १७६ ॥

अतःपरं किमुक्तेन परमेष्टिन् महामते ।
सर्वान्कामान्लभेत्सद्यः लोकवश्यं तिकारकः ॥ १७७ ॥

षट्कर्मं च महासिद्धिमन्त्रयन्त्रादिगीश्वरः ।
कामक्रोधादहङ्कारदम्भलोभं विनश्यति ॥ १७८ ॥

पुरुषार्थी भवेद्विद्वान् विजित्वा तु महीतले ।
नातःपरतरं स्तोत्रं सरस्वत्या पितामह ॥ १७९ ॥

न देयं परशिष्येभ्यो भक्तिहीनाय निन्दके ।
सुभक्तेभ्यो सुशिष्येभ्यो देयं देयं न संशयः ॥ १८० ॥

इदं स्तोत्रं पठित्वा तु यत्र यत्रैव गच्छति ।
कार्यसिद्धिश्च जायते निर्विघ्नं पुनरागमः ॥ १८१ ॥

इति श्रीभविष्योत्तरपुराणे श्रीनन्दिकेश्वरब्रह्मासंवादे
सर्वाधारसमये हृदयाकर्षणकारणे
वाग्वादिनीसहस्रनामस्तोत्रं सम्पूर्णम् ।
शुभमस्तु ।

संवत १८५१ फल्गुनमासे कृष्णपक्षे नवम्यां सौम्यवासरे
सहस्रनाम लिखितं, तुलसीब्राह्मण यथाप्रत्यर्हं च लिखितम् ॥

श्रीं श्रीं श्रीं श्रीं श्रीं श्रीं श्रीं श्रीं श्रीं श्रीं

Also Read 1000 Names of Sri Vagvadini:

1000 Names of Sri Vagvadini | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Vagvadini | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top