Templesinindiainfo

Best Spiritual Website

108 Names of Rakaradi Shri Rama | Ashtottara Shatanamavali Lyrics in Hindi

Rakaradi Sri Rama Ashtottarashata Namavali Lyrics in Hindi:

॥ रकारादि श्रीरामाष्टोत्तरशतनामावलिः ॥
श्री हयग्रीवाय नमः ।
हरिः ॐ

ॐ रामाय नमः ।
ॐ राजीवपत्राक्षाय नमः ।
ॐ राकाचन्द्रनिभाननाय नमः ।
ॐ रात्रिञ्चरार्दितक्षोणि परितापविनाशनाय नमः ।
ॐ राजीवनाभाय नमः ।
ॐ राजेन्द्राय नमः ।
ॐ राजीवासनसंस्तुताय नमः ।
ॐ राजराजादिदिक्पालमौलि माणिक्यदीपिताय नमः ।
ॐ राघवान्वयपाथोधिचन्द्राय नमः ।
ॐ राकेन्दुसद्यशसे नमः । १० ।

ॐ रामचन्द्राय नमः ।
ॐ राघवेन्द्राय नमः ।
ॐ राजीवरुचिराननाय नमः ।
ॐ राजानुजामन्दिरोरसे नमः ।
ॐ राजीवविलसत्पदाय नमः ।
ॐ राजीवहस्ताय नमः ।
ॐ राजीवप्रियवंशकृतोदयाय नमः ।
ॐ रात्रिनव्याम्बुभृन्मूर्तये नमः ।
ॐ राजांशुरुचिरस्मिताय नमः ।
ॐ राजीवकराय नमः । २० ।

ॐ राजीवधारिणे नमः ।
ॐ राजीवजाप्रियाय नमः ।
ॐ राघवोत्सङ्गविद्योताय नमः ।
ॐ राकेन्द्वयुतभास्वराय नमः ।
ॐ राजिलेखानभाङ्कुराय नमः ।
ॐ राजीवप्रियभूषणाय नमः ।
ॐ राजराजन्मणीभूषणाय नमः ।
ॐ राराजद्भ्रमरालकाय नमः ।
ॐ राजलेखाभसीमन्ताय नमः ।
ॐ राजन्मृगमदाङ्कनाय नमः । ३० ।

ॐ राजहीरलसच्छ्रोत्राय नमः ।
ॐ राजीवकरगामृताय नमः ।
ॐ रत्नकाञ्चीधराय नमः ।
ॐ रम्याय नमः ।
ॐ रत्नकाञ्चनकङ्कणाय नमः ।
ॐ रणत्काञ्चनमञ्जीराय नमः ।
ॐ रञ्जिताखिलभूतलाय नमः ।
ॐ राराजत्कुन्दरदनाय नमः ।
ॐ रम्यकण्ठाय नमः ।
ॐ रतव्रजाय नमः । ४० ।

ॐ रञ्जिताद्भुतगाधेयाय नमः ।
ॐ रात्रिञ्चरसतीहराय नमः ।
ॐ रात्रिञ्चरभयत्त्रातगाधेय सवनोत्तमाय नमः ।
ॐ राराजच्चरणाम्भोजरजःपूरमुनिप्रियाय नमः ।
ॐ राजराजसुहृच्चापभेदनाय नमः ।
ॐ राजपूजिताय नमः ।
ॐ रमारामाकराम्भोज मालोन्मीलितकण्ठमाय नमः ।
ॐ रमाकराब्जमारन्दबिन्दुमुक्ताफलावृताय नमः ।
ॐ रत्नकङ्कणनिध्वानमिषल्लक्ष्मीस्तुतिश्रुतये नमः ।
ॐ रमावामदृगन्तालि व्याप्तदुर्लक्ष्यविग्रहाय नमः । ५० ।

ॐ रामतेजस्समाहर्त्रे नमः ।
ॐ रामसोपानभञ्जनाय नमः ।
ॐ राघवाज्ञाकृतारण्यवासाय नमः ।
ॐ रामानुजार्चिताय नमः ।
ॐ रक्तकञ्जातचरणाय नमः ।
ॐ रम्यवल्कलवेष्टिताय नमः ।
ॐ रात्र्यम्बुदजटाभाराय नमः ।
ॐ रम्याङ्गश्रीविभूषणाय नमः ।
ॐ रणच्चापगुणाय नमः ।
ॐ रक्तमुनित्राणपरायणाय नमः । ६० ।

ॐ रात्रिञ्चरगणप्राणहर्त्रे नमः ।
ॐ रम्यफलादनाय नमः ।
ॐ रात्रिञ्चरेन्द्रभगिनीकर्णनासोष्ट्रभेदनाय नमः ।
ॐ रातमायामृगप्राणाय नमः ।
ॐ रावणाहृतसत्प्रियाय नमः ।
ॐ राजीवबन्धुपुत्राप्ताय नमः ।
ॐ राजदेवसुतार्धनाय नमः ।
ॐ रक्तश्रीहनुमद्वाहाय नमः ।
ॐ रत्नाकरनिबन्धनाय नमः ।
ॐ रुद्धरात्रिञ्चरावासाय नमः । ७० ।

ॐ रावणादिविमर्दनाय नमः ।
ॐ रामासमालिङ्गिताङ्काय नमः ।
ॐ रावणानुजपूजिताय नमः ।
ॐ रत्नसिंहासनासीनाय नमः ।
ॐ राज्यपट्टाभिषेचनाय नमः ।
ॐ राजनक्षत्रवलयवृतराकेन्दुसुन्दराय नमः ।
ॐ राकेन्दुकुण्डलच्चत्राय नमः ।
ॐ राजांशूत्करचामराय नमः ।
ॐ राजर्षिगणसंवीताय नमः ।
ॐ रञ्जितप्लवगाधिपाय नमः । ८० ।

ॐ रमादृङ्मालिकालीला नीराजित पदाम्बुजाय नमः ।
ॐ रामतत्त्वप्रवचनाय नमः ।
ॐ राजराजसखोदयाय नमः ।
ॐ राजबिम्बाननागाननर्तनामोदितान्तराय नमः ।
ॐ राज्यलक्ष्मीपरीरम्भसम्भृताद्भुतकण्टकाय नमः ।
ॐ रामायणकथामालानायकाय नमः ।
ॐ राष्ट्रशोभनाय नमः ।
ॐ राजमालामौलिमालामकरन्दप्लुताङ्घ्रिकाय नमः ।
ॐ राजताद्रिमहाधीराय नमः ।
ॐ राद्धदेवगुरुद्विजाय नमः । ९० ।

ॐ राद्धभक्ताशयारामाय नमः ।
ॐ रमिताखिलदैवताय नमः ।
ॐ रागिणे नमः ।
ॐ रागविहीनात्मभक्तप्राप्याय नमः ।
ॐ रसात्मकाय नमः ।
ॐ रसप्रदाय नमः ।
ॐ रसास्वादाय नमः ।
ॐ रसाधीशाय नमः ।
ॐ रसातिगाय नमः ।
ॐ रसनापावनाभिख्याय नमः । १०० ।

ॐ रामनामामृतोदधये नमः ।
ॐ राजराजीवमित्राक्षाय नमः ।
ॐ राजीवभवकारणाय नमः ।
ॐ रामभद्राय नमः ।
ॐ राजमानाय नमः ।
ॐ राजीवप्रियबिम्बगाय नमः ।
ॐ रमारामाभुजलता कण्ठालिङ्गनमङ्गलाय नमः ।
ॐ रामसूरिहृदम्भोधिवृत्तिवीचीविहारवते नमः । १०८ ।

॥ इति विश्वावसु चैत्रशुद्ध चतुर्दश्यां
रामेण लिखितं रकारादि श्री रामनामाष्टोत्तरशतं
सम्पूर्णम् श्री हयग्रीवार्पणम् ॥

Also Read 108 Names of Rakaradi Sri Rama:

108 Names of Rakaradi Shri Rama | Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Rakaradi Shri Rama | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top