Templesinindiainfo

Best Spiritual Website

108 Names of Shri Dattatreya 2 | Ashtottara Shatanamavali Lyrics in Hindi

Sri Dattatreya Ashtottarashata Namavali 2 Lyrics in Hindi:

श्रीदत्तात्रेयाष्टोत्तरशतनामावलिः २
ॐ अनसूयासुताय नमः । दत्ताय । अत्रिपुत्राय । महामुनये ।
योगीन्द्राय । पुण्यपुरुषाय । देवेशाय । जगदीश्वराय । परमात्मने ।
परस्मै ब्रह्मणे । सदानन्दाय । जगद्गुरवे । नित्यतृप्ताय ।
निर्विकाराय । निर्विकल्पाय । निरञ्जनाय । गुणात्मकाय । गुणातीताय ।
ब्रह्मविष्णुशिवात्मकाय । नानारूपधराय नमः ॥ २० ॥

ॐ नित्याय नमः । शान्ताय । दान्ताय । कृपानिधये । भक्तिप्रियाय ।
भवहराय । भगवते । भवनाशनाय । आदिदेवाय । महादेवाय ।
सर्वेशाय । भुवनेश्वराय । वेदान्तवेद्याय । वरदाय । विश्वरूपाय ।
अव्ययाय । हरये । सच्चिदानन्दाय । सर्वेशाय । योगीशाय नमः ॥ ४० ॥

ॐ भक्तवत्सलाय नमः । दिगम्बराय । दिव्यमूर्तये ।
दिव्यविभूतिविभूषणाय । अनादिसिद्धाय । सुलभाय ।
भक्तवाञ्छितदायकाय । एकाय । अनेकाय । अद्वितीयाय ।
निगमागमपण्डिताय । भुक्तिमुक्तिप्रदात्रे । कार्तवीर्यवरप्रदाय ।
शाश्वताङ्गाय । विशुद्धात्मने । विश्वात्मने । विश्वतोमुखाय ।
सर्वेश्वराय । सदातुष्टाय । सर्वमङ्गलदायकाय नमः ॥ ६० ॥

ॐ निष्कलङ्काय नमः । निराभासाय । निर्विकल्पाय । निराश्रयाय ।
पुरुषोत्तमाय । लोकनाथाय । पुराणपुरुषाय । अनघाय ।
अपारमहिम्ने । अनन्ताय । आद्यन्तरहिताकृतये । संसारवनदानाग्नये ।
भवसागरतारकाय । श्रीनिवासाय । विशालाक्षाय । क्षीराब्धिशयनाय ।
अच्युताय । सर्वपापक्षयकराय । तापत्रयनिवारणाय । लोकेशाय
नमः ॥ ८० ॥

ॐ सर्वभूतेशाय नमः । व्यापकाय । करुणामयाय ।
ब्रह्मादिवन्दितपदाय । मुनिवन्द्याय । स्तुतिप्रियाय । नामरूपक्रियातीताय ।
निःस्पृहाय । निर्मलात्मकाय । मायाधीशाय । महात्मने । महादेवाय ।
महेश्वराय । व्याघ्रचर्माम्बरधराय । नागकुण्डलभूषणाय ।
सर्वज्ञाय । करुणासिन्धवे । सर्पहाराय नमः ॥ १०० ॥

ॐ सदाशिवाय नमः । सह्याद्रिवासाय । सर्वात्मने ।
भवबन्धविमोचनाय । विश्वम्भराय । विश्वनाथाय । जगन्नाथाय ।
जगत्प्रभवे नमः ॥ १०८ ॥

इति श्रीदत्तात्रेयाष्टोत्तरशतनामावलिः समाप्ता ।

Also Read 108 Names of Sri Dattatreya 2:

108 Names of Shri Dattatreya 2 | Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Shri Dattatreya 2 | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top