Templesinindiainfo

Best Spiritual Website

108 Names of Shri Medha Dakshinamurti | Ashtottara Shatanamavali Lyrics in Hindi

Sri Medha Dakshinamurthy Ashtottarashata Namavali Lyrics in Hindi:

।। श्री मेधादक्षिणामूर्त्यष्टोत्तरशतनामावलिः ।।
ॐ नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा ।
मूलमन्त्रवर्णाद्यात्मका अष्टोत्तरशतनामावलिः
ओङ्काराचलसिंहेन्द्राय नमः । ओङ्कारोद्यानकोकिलाय । ओङ्कारनीडशुकराजे ।
ओङ्कारारण्यकुञ्जराय । नगराज सुताजानतये । नगराजनिजालयाय ।
नवमाणिक्यमालाढ्याय । नवचन्द्रशिखामणये । नन्दिताशेषमौनीन्द्राय ।
नन्दीशादिमदेशिकाय । मोहानलसुधाधाराय । मोहाम्बुजसुधाकराय ।
मोहान्धकारतरणये । मोहोत्पलनभोमणये । भक्तज्ञानाब्धिशीतांशवे ।
भक्तज्ञानतृणानलाय । भक्ताम्भोजसहस्रांशवे ।
भक्तकेकिघनाघनाय । भक्तकैरवराकेन्दवे ।
भक्तकोकदिवाकराय नमः । २० ।

गजाननादिसम्पूज्याय नमः । गजचर्मोज्ज्वलाकृतये ।
गङ्गाधवलदिव्याङ्गाय । गङ्गाभङ्गलसज्जटाय । गगनाम्बरसंवीताय ।
गगनामुक्तमूर्धजाय । वदनाब्जजितश्रिये । वदनेन्दुस्फुरद्दिशाय ।
वरदानैकनिपुणाय । वरवीणोज्ज्वलत्कराय । वनवाससमुल्लासिने ।
वनलीलैकलोलुपाय । तेजः पुञ्जघनाकाराय । तेजसामविभासकाय ।
विधेयानां तेजःप्रदाय । तेजोमयनिजाश्रमाय । दमितानङ्गसङ्ग्रामाय ।
दरहासोज्ज्वलन्मुखाय । दयारस सुधासिन्धवे ।
दरिद्रधनशेवधये नमः । ४० ।

क्षीरेन्दुस्फटिकाकाराय नमः । क्षितीन्द्रमकुटोज्ज्वलाय ।
क्षीरोपहाररसिकाय । क्षिप्रैश्वर्यफलप्रदाय । नानाभरणमुक्ताङ्गाय ।
नारीसम्मोहनाकृतये । नादब्रह्मरसास्वादिने । नागभूषणभूषिताय ।
मूर्तिनिन्दितकन्दर्पाय । मूर्तामूर्तजगद्वपुषे । मूकाज्ञानतमोभानवे ।
मूर्तिमत्कल्पपादपाय । तरुणादित्यसङ्कशाय । तन्त्रीवादनतत्पराय ।
तरुमूलैकनिलयाय । तप्तजाम्बूनदप्रभाय । तत्त्वपुस्तोल्लसत्पाणये ।
तपनोडुपलोचनाय । यमसन्नुतसङ्कीर्तये । यमसंयमसंयुताय नमः । ६० ।

यतिरूपधराय नमः । मौनमुनीन्द्रोपास्यविग्रहाय । मन्दारहाररुचिराय ।
मदनायुतसुन्दराय । मन्दस्मितलसद्वक्त्राय । मधुराधरपल्लवाय ।
मञ्जीरमञ्जुपादाब्जाय । मणिपट्टोलसत्कटये । हस्ताङ्कुरितचिन्मुद्राय ।
हंसयोगपटूत्तमाय । हंसजप्याक्षमालाढ्याय । हंसेन्द्राराध्यपादुकाय ।
मेरुश‍ृङ्गसमुल्लासिने । मेघश्याममनोहराय । मेघाङ्कुरालवालाग्र्याय ।
मेधापक्वफलमाय । धार्मिकान्तकृतावासाय । धर्ममार्गप्रवर्तकाय ।
धामत्रयनिजारामाय । धरोत्तमहारथाय नमः । ८० ।

प्रबोधोदारदीपश्रिये नमः । प्रकाशितजगत्त्रयाय ।
प्रज्ञाचन्द्रशिलाचन्द्राय । प्रज्ञामणिलसत्कराय ।
ज्ञानिहृद्भासमानात्मने । ज्ञातॄणामविदूरगाय ।
ज्ञानायादृतदिव्याङ्गाय । ज्ञातिजातिकुलातिगाय । प्रपन्नपारिजाताग्र्याय ।
प्रणतार्त्यब्धिबाडबाय । भूतानां प्रमाणभूताय । प्रपञ्चहितकारकाय ।
यमिसत्तमसंसेव्याय । यक्षगेयात्मवैभवाय । यज्ञाधिदेवतामूर्तये ।
यजमानवपुर्धराय । छत्राधिपदिगीशाय । छत्रचामरसेविताय ।
छन्दः शास्त्रादिनिपुणाय । छलजात्यादिदूरगाय नमः । १०० ।

स्वाभाविकसुखैकात्मने नमः । स्वानुभूतिरसोदधये ।
स्वाराज्यसम्पदध्यक्षाय । स्वात्माराममहामतये । हाटकाभजटाजूटाय ।
हासोदस्तारिमण्डलाय । हालाहलोज्ज्वलगलाय ।
हारायितभुजङ्गमाय नमः । १०८ ।

इति श्री मेधादक्षिणामूर्तिमनुवर्णाद्यादिमा अष्टोत्तरशतनामावलिः ॥

ॐ नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा ।

Also Read 108 Names of Sri Medha Dakshinamurti:

108 Names of Shri Medha Dakshinamurti | Ashtottara Shatanamavali in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Shri Medha Dakshinamurti | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top