Templesinindiainfo

Best Spiritual Website

108 Names of Shri Raghavendra | Ashtottara Shatanamavali Lyrics in Hindi

Sri Raghavendra Swamy Ashtottarashata Namavali Lyrics in Hindi:

श्रीराघवेन्द्र अष्टोत्तरशतनामावलिः
॥ अथ श्रीराघवेन्द्र अष्टोत्तरशतनामावलिः ॥

ॐ स्ववाग्देवता सरिसद्भक्तविमलीकर्त्रे नमः ।
ॐ श्रीराघवेन्द्राय नमः ।
ॐ सकलप्रदात्रे नमः ।
ॐ भक्ताघसञ्छेदनवृष्टिवज्राय क्षमासुरेन्द्राय नमः ।
ॐ हरिपादकञ्जनिषेवणाल्लब्धसमस्तसम्पदे नमः ।
ॐ देवस्वभावाय नमः ।
ॐ दिविजद्रुमाय नमः ।
ॐ इष्टप्रदात्रे नमः ।
ॐ भवस्वरूपाय नमः ।
ॐ भवदुःखतूलसङ्घाग्निचर्याय नमः । १० ।

ॐ सुखधैर्यशालिने नमः ।
ॐ समस्तदुष्टग्रहनिग्रहेशाय नमः ।
ॐ दुरत्ययोपप्लवसिन्धुसेतवे नमः ।
ॐ निरस्तदोषाय नमः ।
ॐ निरवद्यवेषाय नमः ।
ॐ प्रत्यर्थिमूकत्वनिधानभाषाय नमः ।
ॐ विद्वत्परिज्ञेयमहाविशेषाय नमः ।
ॐ वाग्वैखरीनिर्जितभव्यशेषाय नमः ।
ॐ सन्तानसम्पत्वरिशुद्धभक्तिविज्ञानवाग्देहसुपाटवादित्रे नमः ।
ॐ शरीरोत्थसमस्तदोषहन्त्रे नमः । २० ।

ॐ श्रीगुरवे राघवेन्द्राय नमः ।
ॐ तिरस्कृतसुरनदीजलपादोदकमहिमवते नमः ।
ॐ दुस्तापत्रयनाशनाय नमः ।
ॐ महावन्ध्यासुपुत्रप्रदाय नमः ।
ॐ व्यङ्गस्वङ्गसमृद्धिदाय नमः ।
ॐ ग्रहमहापापागहाय नमः ।
ॐ दुरितकाननदावभूतस्वभक्तदर्शनाय नमः ।
ॐ सर्वतन्त्रस्वतन्त्राय नमः ।
ॐ श्रीमाध्वमतवर्धनाय नमः ।
ॐ विजयीन्द्रकराब्जोत्थसुधीन्द्रवरपुत्रकाय नमः । ३० ।

ॐ यतिराजे नमः ।
ॐ गुरवे नमः ।
ॐ भयापहाय नमः ।
ॐ ज्ञानभक्तिसुपुत्रायुर्यशःश्रीपुण्यवर्धनाय नमः ।
ॐ प्रतिवादिजयस्वान्तभेदचिह्नादराय नमः ।
ॐ सर्वविद्याप्रवीणाय नमः ।
ॐ अपरोक्षिकृतश्रीशाय नमः ।
ॐ समुपेक्षिकृतभावजाय नमः ।
ॐ अपेक्षितप्रदात्रे नमः ।
ॐ दयादाक्षिण्यवैराग्यवाक्पाटवमुखाङ्किताय नमः । ४० ।

ॐ शापानुग्रहशक्ताय नमः ।
ॐ अज्ञानविस्मृतिभ्रान्तिसंशयापस्मृतिक्षयादिदोषनाशकाय नमः ।
ॐ अष्टाक्षरजपेष्टार्थप्रदात्रे नमः ।
ॐ आत्माऽऽत्मीयसमुद्भवकायजदोषहन्त्रे नमः ।
ॐ सर्वपुमर्थप्रदात्रे नमः ।
ॐ कालत्रयप्रार्थनाकर्त्रैहिकामुस्मिकसर्वेष्टप्रदात्रे नमः ।
ॐ अगम्यमहिम्ने नमः ।
ॐ महायशसे नमः ।
ॐ श्रीमाध्वमतदुग्धाब्धिचन्द्राय नमः ।
ॐ अनघाय नमः । ५० ।

ॐ यथाशक्तिप्रदक्षिणकर्तृसर्वयात्राफलदात्रे नमः ।
ॐ शिरोधारणसर्वतीर्थस्नानफलदातृस्ववृन्दावनगतजलाय नमः ।
ॐ करणसर्वाभीष्टदात्रे नमः ।
ॐ सङ्कीर्तनेन वेदाद्यर्थज्ञानदात्रे नमः ।
ॐ संसारमग्नजनोद्धारकर्त्रे नमः ।
ॐ कुष्ठादिरोग निवर्तकाय नमः ।
ॐ अन्धदिव्यदृष्टिदात्रे नमः ।
ॐ एडमूकवाक्पतित्वप्रदात्रे नमः ।
ॐ पूर्णायुःप्रदात्रे नमः ।
ॐ पूर्णसम्पत्तिदात्रे नमः । ६० ।

ॐ कुक्षिगतसर्वदोषघ्ने नमः ।
ॐ पङ्गुखञ्जसमीचीनावयवदात्रे नमः ।
ॐ भूतप्रेतपिशाचादिपीडाघ्ने नमः ।
ॐ दीपसंयोजनात् ज्ञानपुत्रदात्रे नमः ।
ॐ दिव्यज्ञानभक्त्यादिवर्धनाय नमः ।
ॐ सर्वाभीष्टदाय नमः ।
ॐ राजचोरमहाव्याघ्रसर्पनक्रादिपीडाघ्ने नमः ।
ॐ स्वस्तोत्रपठनेष्टार्थसमृद्धिदाय नमः ।
ॐ उद्यत्प्रद्योतनद्योतधर्मकूर्मासनस्थिताय नमः ।
ॐ खद्यखद्योतनप्रतापाय नमः । ७० ।

ॐ श्रीराममानसाय नमः ।
ॐ धृतकाषायवसनाय नमः ।
ॐ तुलसीहारवक्षसे नमः ।
ॐ दोर्दण्डविलसद्दण्डकमण्डलुविराजिताय नमः ।
ॐ अभयज्ञानमुद्राक्षमालाशीलकराम्बुजाय नमः ।
ॐ योगेन्द्रवन्द्यपादाब्जाय नमः ।
ॐ पापाद्रिपाटनवज्राय नमः ।
ॐ क्षमासुरगणाधीशाय नमः ।
ॐ हरिसेवालब्धसर्वसम्पदे नमः ।
ॐ तत्त्वप्रदर्शकाय नमः । ८० ।

ॐ इष्टप्रदानकल्पद्रुमाय नमः ।
ॐ श्रुत्यर्थबोधकाय नमः ।
ॐ भव्यकृते नमः ।
ॐ बहुवादिविजयिने नमः ।
ॐ पुण्यवर्धनपादाब्जाभिषेकजलसञ्चयाय नमः ।
ॐ द्युनदीतुल्यसद्गुणाय नमः ।
ॐ भक्ताघविध्वंसकरनिजमूर्तिप्रदर्शकाय नमः ।
ॐ जगद्गुरवे नमः ।
ॐ कृपानिधये नमः ।
ॐ सर्वशास्त्रविशारदाय नमः । ९० ।

ॐ निखिलेन्द्रियदोषघ्नाय नमः ।
ॐ अष्टाक्षरमनूदिताय नमः ।
ॐ सर्वसौख्यकृते नमः ।
ॐ मृतपोतप्राणदात्रे नमः ।
ॐ वेदिस्थपुरषोज्जीविने नमः ।
ॐ वह्निस्थमालिकोद्धर्त्रे नमः ।
ॐ समग्रटीकाव्याख्यात्रे नमः ।
ॐ भाट्टसङ्ग्रहकृते नमः ।
ॐ सुधापरिमलोद्धर्त्रे नमः ।
ॐ अपस्मारापहर्त्रे नमः । १०० ।

ॐ उपनिषत्खण्डार्थकृते नमः ।
ॐ ऋग्व्याख्यानकृदाचार्याय नमः ।
ॐ मन्त्रालयनिवासिने नमः ।
ॐ न्यायमुक्तावलीकर्त्रे नमः ।
ॐ चन्द्रिकाव्याख्याकर्त्रे नमः ।
ॐ सुतन्त्रदीपिकाकर्त्रे नमः ।
ॐ गीतार्थसङ्ग्रहकृते नमः ।
ॐ श्रीराघवेन्द्रसद्गुरवे नमः । १०८ ।

सिद्धार्थौ गुरुवासरे हरिदिने श्रीश्रावणे मासके ।
पक्षे चेन्दुविवर्धने शुभदिने श्रीराघवेन्द्रार्पिता ॥

रामार्यस्य सुतेन मन्त्रसदने श्रीराघवेन्द्रार्पिता ।
वेदव्याससुनामकेन च गुरोः प्रीत्यै कृतं श्रीशयोः ॥

इति श्रीराघवेन्द्र अष्टोत्तरशतनामावलिः ॥

Also Read 108 Names of Sri Raghavendrar:

108 Names of Shri Raghavendra | Ashtottara Shatanamavali in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Shri Raghavendra | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top