Templesinindiainfo

Best Spiritual Website

108 Names of Sri Varaha | Ashtottara Shatanamavali Lyrics in Hindi

Sri Varaha Ashtottarashata Namavali Lyrics in Hindi:

॥ श्रीवराहाष्टोत्तरशतनामावलिः ॥

श्रीवराहपुराणतः
श्रीवराहाय नमः । महीनाथाय । पूर्णानन्दाय । जगत्पतये ।
निर्गुणाय । निष्कलाय । अनन्ताय । दण्डकान्तकृते । अव्ययाय ।
हिरण्याक्षान्तकृते । देवाय । पूर्णषाड्गुण्यविग्रहाय ।
लयोदधिविहारिणे । सर्वप्राणहिते रताय । अनन्तरूपाय । अनन्तश्रिये ।
जितमन्यवे । भयापहाय । वेदान्तवेद्याय । वेदिने नमः ॥ २० ॥

वेदगर्भाय नमः । सनातनाय । सहस्राक्षाय । पुण्यगन्धाय ।
कल्पकृते । क्षितिभृते । हरये । पद्मनाभाय ।
सुराध्यक्षाय । हेमाङ्गाय । दक्षिणामुखाय । महाकोलाय ।
महाबाहवे । सर्वदेवनमस्कृताय । हृषीकेशाय । प्रसन्नात्मने ।
सर्वभक्तभयापहाय । यज्ञभृते । यज्ञकृते ।
साक्षिणे नमः ॥ ४० ॥

यज्ञाङ्गाय नमः । यज्ञवाहनाय । हव्यभुजे । हव्यदेवाय ।
सदाव्यक्ताय । कृपाकराय । देवभूमिगुरवे । कान्ताय । धर्मगुह्याय ।
वृषाकपये । स्रुवतुण्डाय । वक्रदंष्ट्राय । नीलकेशाय । महाबलाय ।
पूतात्मने । वेदनेत्रे । देहहर्तृशिरोहराय । वेदादिकृते ।
वेदगुह्याय । सर्ववेदप्रवर्तकाय नमः ॥ ६० ॥

गभीराक्षाय नमः । त्रिधर्मणे । गम्भीरात्मने । महेश्वराय ।
आनन्दवनगाय । दिव्याय । ब्रह्मनासासमुद्भवाय । सिन्धुतीरनिषेविणे ।
क्षेमकृते । सात्वतां पतये । इन्द्रत्रात्रे । जगत्त्रात्रे ।
महेन्द्रोद्दण्डगर्वघ्ने । भक्तवश्याय । सदोद्युक्ताय । निजानन्दाय ।
रमापतये । स्तुतिप्रियाय । शुभाङ्गाय ।
पुण्यश्रवणकीर्तनाय नमः ॥ ८० ॥

सत्यकृते नमः । सत्यसङ्कल्पाय । सत्यवाचे । सत्यविक्रमाय ।
सत्येन गूढाय । सत्यात्मने । कालातीताय । गुणाधिकाय । परस्मै ज्योतिषे ।
परस्मै धाम्ने । परमाय पुरुषाय । पराय । कल्याणकृते । कवये ।
कर्त्रे । कर्मसाक्षिणे । जितेन्द्रियाय । कर्मकृते । कर्मकाण्डस्य
सम्प्रदायप्रवर्तकाय । सर्वान्तकाय नमः ॥ १०० ॥

सर्वगाय नमः । सर्वार्थाय । सर्वभक्षकाय । सर्वलोकपतये ।
श्रीमते श्रीमुष्णेशाय । शुभेक्षणाय । सर्वदेवप्रियाय ।
साक्षिणे नमः ॥ १०८ ॥

नमस्तस्मै वराहाय हेलयोद्धरते महीम् ।
खुरमध्यगतो यस्य मेरुः खुरखुरायते ॥

इति श्रीवराहाष्टोत्तरशतनामावलिः समाप्ता ।

Also Read 108 Names of Sri Varaha :

108 Names of Sri Varaha | Ashtottara Shatanamavali in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Sri Varaha | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top