Templesinindiainfo

Best Spiritual Website

108 Names of Vakaradi Shri Varaha | Ashtottara Shatanamavali Lyrics in Hindi

Vakaradi Sri Varaha Ashtottarashata Namavali Lyrics in Hindi:

॥ वकारादि श्रीवराहाष्टोत्तरशतनामावलिः ॥
श्री हयग्रीवाय नमः ।
हरिः ॐ

ॐ वराहाय नमः ।
ॐ वरदाय नमः ।
ॐ वन्द्याय नमः ।
ॐ वरेण्याय नमः ।
ॐ वसुदेवजाय नमः ।
ॐ वषट्काराय नमः ।
ॐ वसुनिधये नमः ।
ॐ वसुधोद्धरणाय नमः ।
ॐ वसवे नमः ।
ॐ वसुदेवाय नमः । १० ।

ॐ वसुमतीदंष्ट्राय नमः ।
ॐ वसुमतीप्रियाय नमः ।
ॐ वनधिस्तोमरोमान्धवे नमः ।
ॐ वज्ररोम्णे नमः ।
ॐ वदावदाय नमः ।
ॐ वलक्षाङ्गाय नमः ।
ॐ वश्यविश्वाय नमः ।
ॐ वसुधाधरसन्निभाय नमः ।
ॐ वनजोदरदुर्वारविषादध्वंसनोदयाय नमः ।
ॐ वल्गत्सटाजातवातधूतजीमूतसंहतये नमः । २० ।

ॐ वज्रदंष्ट्राग्रविच्छिन्नहिरण्याक्षधराधराय नमः ।
ॐ वशिष्टाद्यर्षिनिकरस्तूयमानाय नमः ।
ॐ वनायनाय नमः ।
ॐ वनजासनरुद्रेन्द्रप्रसादित महाशयाय नमः ।
ॐ वरदानविनिर्धूतब्रह्मब्राह्मणसंशयाय नमः ।
ॐ वल्लभाय नमः ।
ॐ वसुधाहारिरक्षोबलनिषूदनाय नमः ।
ॐ वज्रसारखुराघातदलिताब्धिरसाहिपाय नमः ।
ॐ वलद्वालोत्कटाटोपध्वस्तब्रह्माण्डकर्पराय नमः ।
ॐ वदनान्तर्गतायातब्रह्माण्डश्वासपद्धतये नमः । ३० ।

ॐ वर्चस्विने नमः ।
ॐ वरदंष्ट्राग्रसमुन्मीलितदिक्तटाय नमः ।
ॐ वनजासननासान्तर्हंसवाहावरोहिताय नमः ।
ॐ वनजासनदृक्पद्मविकासाद्भुतभास्कराय नमः ।
ॐ वसुधाभ्रमरारूढदंष्ट्रापद्माग्रकेसराय नमः ।
ॐ वसुधाधूममषिका रम्यदंष्ट्राप्रदीपकाय नमः ।
ॐ वसुधासहस्रपत्रमृणालायित दंष्ट्रिकाय नमः ।
ॐ वसुधेन्दीवराक्रान्तदंष्ट्राचन्द्रकलाञ्चिताय नमः ।
ॐ वसुधाभाजनालम्बदंष्ट्रारजतयष्टिकाय नमः ।
ॐ वसुधाभूधरावेधि दंष्ट्रासूचीकृताद्भुताय नमः । ४० ।

ॐ वसुधासागराहार्यलोकलोकपधृद्रदाय नमः ।
ॐ वसुधावसुधाहारिरक्षोधृच्छृङ्गयुग्मकाय नमः ।
ॐ वसुधाधस्समालम्बिनालस्तम्भ प्रकम्पनाय नमः ।
ॐ वसुधाच्छत्ररजतदण्डच्छृङ्गमनोहराय नमः ।
ॐ वतंसीकृतमन्दाराय नमः ।
ॐ वलक्षीकृतभूतलाय नमः ।
ॐ वरदीकृतवृत्तान्ताय नमः ।
ॐ वसुधीकृतसागराय नमः ।
ॐ वश्यमायाय नमः ।
ॐ वरगुणक्रियाधाराय नमः ।
ॐ वराभिथाय नमः ।
ॐ वरुणालयवास्तव्यजन्तुविद्राविघुर्घुराय नमः ।
ॐ वरुणालयविच्छेत्रे नमः ।
ॐ वरुणादिदुरासदाय नमः ।
ॐ वनजासनसन्तानावनजात महाकृपाय नमः ।
ॐ वत्सलाय नमः ।
ॐ वह्निवदनाय नमः ।
ॐ वराहवमयाय नमः ।
ॐ वसवे नमः ।
ॐ वनमालिने नमः । ६० ।

ॐ वन्दिवेदाय नमः ।
ॐ वयस्थाय नमः ।
ॐ वनजोदराय नमः ।
ॐ वेदत्वचे नमः ।
ॐ वेदविदे नमः ।
ॐ वेदिने नमः ।
ॐ वेदवादिने नमः ।
ॐ वेदवेदाङ्गतत्त्वज्ञाय नमः ।
ॐ वेदमूर्तये नमः ।
ॐ वेदविद्वेद्य विभवाय नमः । ७० ।

ॐ वेदेशाय नमः ।
ॐ वेदरक्षणाय नमः ।
ॐ वेदान्तसिन्धुसञ्चारिणे नमः ।
ॐ वेददूराय नमः ।
ॐ वेदान्तसिन्धुमध्यस्थाचलोद्धर्त्रे नमः ।
ॐ वितानकृते नमः ।
ॐ वितानेशाय नमः ।
ॐ वितानाङ्गाय नमः ।
ॐ वितानफलदाय नमः ।
ॐ विभवे नमः । ८०
ॐ वितानभावनाय नमः ।
ॐ विश्वभावनाय नमः ।
ॐ विश्वरूपधृते नमः ।
ॐ विश्वदंष्ट्राय नमः ।
ॐ विश्वगर्भाय नमः ।
ॐ विश्वगाय नमः ।
ॐ विश्वसम्मताय नमः ।
ॐ वेदारण्यचराय नमः ।
ॐ वामदेवादिमृगसंवृताय नमः ।
ॐ विश्वातिक्रान्तमहिम्ने नमः । ९० ।

ॐ वन्यभूपतये नमः ।
ॐ वैकुण्ठकोलाय नमः ।
ॐ विकुण्ठलीलाय नमः ।
ॐ विलयसिन्धुगाय नमः ।
ॐ वप्तःकबलिताजाण्डाय नमः ।
ॐ वेगवते नमः ।
ॐ विश्वपावनाय नमः ।
ॐ विपश्चिदाशयारण्यपुण्यस्फूर्तये नमः ।
ॐ विश‍ृङ्खलाय नमः ।
ॐ विश्वद्रोहिक्षयकराय नमः । १०० ।

ॐ विश्वाधिकमहाबलाय नमः ।
ॐ वीर्यसिन्धवे नमः ।
ॐ विवद्बन्धवे नमः ।
ॐ वियत्सिन्धुतरङ्गिताय नमः ।
ॐ व्यादत्तविद्वेषिसत्त्वमुस्ताय नमः ।
ॐ विश्वगुणाम्बुधये नमः ।
ॐ विश्वमङ्गलकान्तारकृत लीलाविहाराय नमः ।
ॐ विश्वमङ्गलदोत्तुङ्गकरुणापाङ्गाय नमः । १०८ ।

॥ इति वकारादि श्री वराहाष्टोत्तरशतनामावलिः पराभव
श्रावणशुद्ध त्रयोदश्यां लिखिता रामेण समर्पिता च
श्रीहयग्रीव चरणार विन्दयोर्विजयतां तराम् ॥

Also Read 108 Names of Vakaradi Sri Varaha Swamy:

108 Names of Vakaradi Shri Varaha | Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Vakaradi Shri Varaha | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top