Templesinindiainfo

Best Spiritual Website

Aditya Ashtakam Lyrics in Hindi | आदित्याष्टकम्

आदित्याष्टकम् Lyrics in Hindi:

उदयाद्रिमस्तकमहामणिं लसत्-
कमलाकरैकसुहृदं महौजसम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ १॥

तिमिरापहारनिरतं निरामयं
निजरागरञ्जितजगत्त्रयं विभुम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ २॥

दिनरात्रिभेदकरमद्भुतं परं
सुरवृन्दसंस्तुतचरित्रमव्ययम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ३॥

श्रुतिसारपारमजरामयं परं
रमणीयविग्रहमुदग्ररोचिषम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ४॥

शुकपक्षतुण्डसदृशाश्वमण्डलं
अचलावरोहपरिगीतसाहसम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ५॥

श्रुतितत्त्वगम्यमखिलाक्षिगोचरं
जगदेकदीपमुदयास्तरागिणम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ६॥

श्रितभक्तवत्सलमशेषकल्मष-
क्षयहेतुमक्षयफलप्रदायिनम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ७॥

अहमन्वहं सतुरगक्षताटवी
शतकोटिहालकमहामहीधनम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ८॥

इति सौरमष्टकमहर्मुखे रविं
प्रणिपत्य यः पठति भक्तितो नरः ।
स विमुच्यते सकलरोगकल्मषैः
सवितुस्समीपमपि सम्यगाप्नुयात् ९॥

इति आदित्याष्टकं समाप्तम् ॥

Aditya Ashtakam Lyrics in Hindi | आदित्याष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top