Avadhutashtakam Lyrics in Hindi | अवधूताष्टकं स्वामीशुकदेवस्तुतिः च
अवधूताष्टकं स्वामीशुकदेवस्तुतिः च Lyrics in Hindi:
श्री परमात्मने नमः ॥
अथ परमहंस शिरोमणि-अवधूत-श्रीस्वामीशुकदेवस्तुतिः
निर्वासनं निराकाङ्क्षं सर्वदोषविवर्जितम् ।
निरालम्बं निरातङ्कं ह्यवधूतं नमाम्यहम् ॥ १॥
निर्ममं निरहङ्कारं समलोष्टाश्मकाञ्चनम् ।
समदुःखसुखं धीरं ह्यवधूतं नमाम्यहम् ॥ २॥
अविनाशिनमात्मानं ह्येकं विज्ञाय तत्वतः ।
वीतरागभयक्रोधं ह्यवधूतं नमाम्यहम् ॥ ३॥
नाहं देहो न मे देहो जीवो नाहमहं हि चित् ।
एवं विज्ञाय सन्तुष्टम् ह्यवधूतं नमाम्यहम् ॥ ४॥
समस्तं कल्पनामात्रं ह्यात्मा मुक्तः सनातनः ।
इति विज्ञाय सन्तुष्टं ह्यवधूतं नमाम्यहम् ॥ ५॥
ज्ञानाग्निदग्धकर्माणं कामसङ्कल्पवर्जितम् ।
हेयोपादेयहीनं तं ह्यवधूतं नमाम्यहम् ॥ ६॥
व्यामोहमात्रविरतौ स्वरूपादानमात्रतः ।
वीतशोकं निरायासं ह्यवधूतं नमाम्यहम् ॥ ७॥
आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ ।
उदासीनं सुखासीनं ह्यवधूतं नमाम्यहम् ॥ ८॥
स्वभावेनैव यो योगी सुखं भोगं न वाञ्छति ।
यदृच्छालाभसन्तुष्टं ह्यवधूतं नमाम्यहम् ॥ ९॥
नैव निन्दाप्रशंसाभ्यां यस्य विक्रियते मनः ।
आत्मक्रीडं महात्मानं ह्यवधूतं नमाम्यहम् ॥ १०॥
नित्यं जाग्रदवस्थायां स्वप्नवद्योऽवतिष्ठते ।
निश्चिन्तं चिन्मयात्मानं ह्यवधूतं नमाम्यहम् ॥ ११॥
द्वेष्यं नास्ति प्रियं नास्ति नास्ति यस्य शुभाशुभम् ।
भेदज्ञानविहीनं तं ह्यवधूतं नमाम्यहम् ॥ १२॥
जडं पश्यति नो यस्तु जगत् पश्यति चिन्मयम् ।
नित्ययुक्तं गुणातीतं ह्यवधूतं नमाम्यहम् ॥ १३॥
यो हि दर्शनमात्रेण पवते भुवनत्रयम् ।
पावनं जङ्गमं तीर्थं ह्यवधूतं नमाम्यहम् ॥ १४॥
निष्कलं निष्क्रियं शान्तं निर्मलं परमामृतम् ।
अनन्तं जगदाधारं ह्यवधूतं नमाम्यहम् ॥ १५॥
॥ इति अवधूताष्टकं समाप्तम् ॥