Devi Khadgamala Stotram Lyrics in Hindi
Devi Khadgamala Stotram in Hindi: ॥ श्री देवी खड्गमाला स्तोत्रम् ॥ प्रार्थना । ह्रीङ्कारासनगर्भितानलशिखां सौः क्लीं कलां बिभ्रतीं सौवर्णाम्बरधारिणीं वरसुधाधौतां त्रिणेत्रोज्ज्वलाम् । वन्दे पुस्तकपाशमङ्कुशधरां स्रग्भूषितामुज्ज्वलां त्वां गौरीं त्रिपुरां परात्परकलां श्रीचक्रसञ्चारिणीम् ॥ अस्य श्रीशुद्धशक्तिमालामहामन्त्रस्य, उपस्थेन्द्रियाधिष्ठायी वरुणादित्य ऋषिः, दैवी गायत्री छन्दः, सात्त्विक ककारभट्टारकपीठस्थित कामेश्वराङ्कनिलया महाकामेश्वरी श्री ललिता भट्टारिका देवता, ऐं बीजं क्लीं शक्तिः सौः कीलकं मम खड्गसिद्ध्यर्थे […]