Surya Mandala Stotram Lyrics in Hindi
Sri Surya Mandala Stotram in Hindi: ॥ सूर्यमण्डल स्तोत्रम् ॥ नमोऽस्तु सूर्याय सहस्ररश्मये सहस्रशाखान्वित सम्भवात्मने । सहस्रयोगोद्भव भावभागिने सहस्रसङ्ख्यायुधधारिणे नमः ॥ १ ॥ यन्मण्डलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरूपम् । दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ २ ॥ यन्मण्डलं देवगणैः सुपूजितं विप्रैः स्तुतं भावनमुक्तिकोविदम् । तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ ३ ॥ यन्मण्डलं […]