preloader
Tue. Mar 3rd, 2026

Devi Mahatmyam Navaavarna Vidhi Stotram was written by Rishi Markandeya.

Devi Mahatmyam Durga Saptasati Chapter 13 Stotram Lyrics in Hindi:

सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशो‌உध्यायः ॥

ध्यानं
ॐ बालार्क मण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुश वराभीतीर्धारयन्तीं शिवां भजे ॥

ऋषिरुवाच ॥ 1 ॥

एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् ।
एवम्प्रभावा सा देवी ययेदं धार्यते जगत् ॥2॥

विद्या तथैव क्रियते भगवद्विष्णुमायया ।
तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः ॥3॥

तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः।
मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे ॥4॥

तामुपैहि महाराज शरणं परमेश्वरीं।
आराधिता सैव नृणां भोगस्वर्गापवर्गदा ॥5॥

मार्कण्डेय उवाच ॥6॥

इति तस्य वचः शृत्वा सुरथः स नराधिपः।
प्रणिपत्य महाभागं तमृषिं संशितव्रतम् ॥7॥

निर्विण्णोतिममत्वेन राज्यापहरेणन च।
जगाम सद्यस्तपसे सच वैश्यो महामुने ॥8॥

सन्दर्शनार्थमम्भाया नlपुलिन मास्थितः।
स च वैश्यस्तपस्तेपे देवी सूक्तं परं जपन् ॥9॥

तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम्।
अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः ॥10॥

निराहारौ यताहारौ तन्मनस्कौ समाहितौ।
ददतुस्तौ बलिञ्चैव निजगात्रासृगुक्षितम् ॥11॥

एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः।
परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका ॥12॥

देव्युवाचा॥13॥

यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन।
मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामिते॥14॥

मार्कण्डेय उवाच॥15॥

ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि।
अत्रैवच च निजम् राज्यं हतशत्रुबलं बलात्॥16॥

सो‌உपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः।
ममेत्यहमिति प्राज्ञः सज्गविच्युति कारकम् ॥17॥

देव्युवाच॥18॥

स्वल्पैरहोभिर् नृपते स्वं राज्यं प्राप्स्यते भवान्।
हत्वा रिपूनस्खलितं तव तत्र भविष्यति॥19॥

मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः।
सावर्णिको मनुर्नाम भवान्भुवि भविष्यति॥20॥

वैश्य वर्य त्वया यश्च वरो‌உस्मत्तो‌உभिवाञ्चितः।
तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति॥21॥

मार्कण्डेय उवाच

इति दत्वा तयोर्देवी यथाखिलषितं वरं।
भभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता॥22॥

एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः।
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः॥23॥

इति दत्वा तयोर्देवी यथभिलषितं वरम्।
बभूवान्तर्हिता सध्यो भक्त्या ताभ्यामभिष्टुता॥24॥

एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः।
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः॥25॥

।क्लीम् ॐ।

॥ जय जय श्री मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमहत्य्मे सुरथवैश्य योर्वर प्रदानं नाम त्रयोदशोध्यायसमाप्तम् ॥

॥श्री सप्त शती देवीमहत्म्यम् समाप्तम् ॥
। ॐ तत् सत् ।

आहुति
ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महात्रिपुरसुन्दर्यै महाहुतिं समर्पयामि नमः स्वाहा ॥

ॐ खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा
शङ्खिणी चापिनी बाणा भुशुण्डीपरिघायुधा । हृदयाय नमः ।

ॐ शूलेन पाहिनो देवि पाहि खड्गेन चाम्बिके।
घण्टास्वनेन नः पाहि चापज्यानिस्वनेन च शिरशेस्वाहा ।

ॐ प्राच्यां रक्ष प्रतीच्यां च चण्डिके दक्षरक्षिणे
भ्रामरे नात्म शुलस्य उत्तरस्यां तथेश्वरि । शिखायै वषट् ।

ॐ स्ॐयानि यानिरूपाणि त्रैलोक्ये विचरन्तिते
यानि चात्यन्त घोराणि तै रक्षास्मां स्तथा भुवं कवचाय हुम् ।

ॐ खड्ग शूल गदा दीनि यानि चास्ताणि तेम्बिके
करपल्लवसङ्गीनि तैरस्मा न्रक्ष सर्वतः नेत्रत्रयाय वषट् ।

ॐ सर्वस्वरूपे सर्वेशे सर्व शक्ति समन्विते
भयेभ्यस्त्राहिनो देवि दुर्गे देवि नमोस्तुते । करतल करपृष्टाभ्यां नमः ।
ॐ भूर्भुव स्सुवः इति दिग्विमिकः ।

Also Read:

Devi Mahatmyam Durga Saptasati Chapter 13 lyrics in Hindi | English | Telugu | Tamil | Kannada | Malayalam | Bengali

Leave a Reply

Your email address will not be published. Required fields are marked *